वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ९२ · २९ श्लोकाःSarga 92 · 29 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ९२ · १ ॥
रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः । बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे । ६.९२.१ ॥

rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ ।
babhūva hṛṣṭastaṁ hatvā śakrajetāramāhave ।
6.92.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २ ॥
ततः जाम्बवन्तं हनुमन्तं वीर्यवान् । सन्निहत्य महातेजास्तांश्च सर्वान् वनौकसः । ६.९२.२ ॥

tataḥ sa jāmbavantaṁ ca hanumantaṁ ca vīryavān ।
sannihatya mahātejāstāṁśca sarvān vanaukasaḥ ।
6.92.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ३ ॥
आजगाम ततस्तीव्रं यत्र सुग्रीवराघवौ । विभीषणमवष्टभ्य हनूमन्तं लक्ष्मणः । ६.९२.३ ॥

ājagāma tatastīvraṁ yatra sugrīvarāghavau ।
vibhīṣaṇamavaṣṭabhya hanūmantaṁ ca lakṣmaṇaḥ ।
6.92.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ४ ॥
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च । तस्थौ भ्रातृसमीपस्थ इन्द्रस्येव बृहस्पतिः । ६.९२.४ ॥

tato rāmamabhikramya saumitrirabhivādya ca ।
tasthau bhrātṛsamīpastha indrasyeva bṛhaspatiḥ ।
6.92.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ५ ॥
निष्टनन्निव चागम्य राघवाय महात्मने । आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् । ६.९२.५ ॥

niṣṭananniva cāgamya rāghavāya mahātmane ।
ācacakṣe tadā vīro ghoramindrajito vadham ।
6.92.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ६ ॥
रावणेस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना । न्यवेदयत रामाय तदा हृष्टो विभीषणः । ६.९२.६ ॥

rāvaṇestu śiraśchinnaṁ lakṣmaṇena mahātmanā ।
nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ ।
6.92.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ७ ॥
श्रुत्वैतत्तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लेभे रामो वाक्यमुवाच ह । ६.९२.७ ॥

śrutvaitattu mahāvīryo lakṣmaṇenendrajidvadham ।
praharṣamatulaṁ lebhe rāmo vākyamuvāca ha ।
6.92.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ८ ॥
साधु लक्ष्मण तुष्टो ऽस्मि कर्मणा सुकृतं कृतम् । रावणेर्हि विनाशेन जितमित्युपधारय । ६.९२.८ ॥

sādhu lakṣmaṇa tuṣṭo 'smi karmaṇā sukṛtaṁ kṛtam ।
rāvaṇerhi vināśena jitamityupadhāraya ।
6.92.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ९ ॥
तं शिरस्युपाघ्राय लक्ष्मणं लक्ष्मिवर्धनम् । लज्जमानं बलात् स्नेहादङ्कमारोप्य वीर्यवान् । ६.९२.९ ॥

sa taṁ śirasyupāghrāya lakṣmaṇaṁ lakṣmivardhanam ।
lajjamānaṁ balāt snehādaṅkamāropya vīryavān ।
6.92.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १० ॥
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनःपुनरुदैक्षत । ६.९२.१० ॥

upaveśya tamutsaṅge pariṣvajyāvapīḍitam ।
bhrātaraṁ lakṣmaṇaṁ snigdhaṁ punaḥpunarudaikṣata ।
6.92.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · ११ ॥
शल्यसम्पीडितं शस्तं निश्वसन्तं तु लक्ष्मणम् । रामस्तु दुःखसन्तप्तस्तदा निश्वसितो भृशम् । ६.९२.११ ॥

śalyasampīḍitaṁ śastaṁ niśvasantaṁ tu lakṣmaṇam ।
rāmastu duḥkhasantaptastadā niśvasito bhṛśam ।
6.92.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १२ ॥
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य त्वरन् । उवाच लक्ष्मणं वाक्यमाश्वस्य पुरुषर्षभः । ६.९२.१२ ॥

mūrdhni cainamupāghrāya bhūyaḥ saṁspṛśya ca tvaran ।
uvāca lakṣmaṇaṁ vākyamāśvasya puruṣarṣabhaḥ ।
6.92.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १३ ॥
कृतं परमकल्याणं कर्म दुष्करकर्मणा । अद्य मन्ये हते पुत्रे रावणं निहतं युधि । अद्याहं विजयी शत्रौ हते तस्मिन् दुरात्मनि । ६.९२.१३ ॥

kṛtaṁ paramakalyāṇaṁ karma duṣkarakarmaṇā ।
adya manye hate putre rāvaṇaṁ nihataṁ yudhi ।
adyāhaṁ vijayī śatrau hate tasmin durātmani ।
6.92.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १४ ॥
रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे । छिन्नो हि दक्षिणो बाहुः हि तस्य व्यापश्रयः । ६.९२.१४ ॥

rāvaṇasya nṛśaṁsasya diṣṭyā vīra tvayā raṇe ।
chinno hi dakṣiṇo bāhuḥ sa hi tasya vyāpaśrayaḥ ।
6.92.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १५ ॥
विभीषणहनूमद्भयां कृतं कर्म महद्रणे । अहोरात्रैस्त्रिभिर्वीरः कथञ्चिद्विनिपातितः । ६.९२.१५ ॥

vibhīṣaṇahanūmadbhayāṁ kṛtaṁ karma mahadraṇe ।
ahorātraistribhirvīraḥ kathañcidvinipātitaḥ ।
6.92.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १६ ॥
निरमित्रः कृतो ऽस्म्यद्य निर्यास्यति हि रावणः । बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् । ६.९२.१६ ॥

niramitraḥ kṛto 'smyadya niryāsyati hi rāvaṇaḥ ।
balavyūhena mahatā śrutvā putraṁ nipātitam ।
6.92.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १७ ॥
तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् । बलेनावृत्य महता निहनिष्यामि दुर्जयम् । ६.९२.१७ ॥

taṁ putravadhasantaptaṁ niryāntaṁ rākṣasādhipam ।
balenāvṛtya mahatā nihaniṣyāmi durjayam ।
6.92.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १८ ॥
त्वया लक्ष्मण नाथेन सीता पृथिवी मे । दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे । ६.९२.१८ ॥

tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me ।
na duṣprāpā hate tvadya śakrajetari cāhave ।
6.92.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · १९ ॥
तं भ्रातरमाश्वास्य परिष्वज्य राघवः । रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् । ६.९२.१९ ॥

sa taṁ bhrātaramāśvāsya pariṣvajya ca rāghavaḥ ।
rāmaḥ suṣeṇaṁ muditaḥ samābhāṣyedamabravīt ।
6.92.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २० ॥
सशल्यो ऽयं महाप्राज्ञ सौमित्रिर्मित्रवत्सलः । यथा भवति सुस्वस्थस्तथा त्वं समुपाचर । ६.९२.२० ॥

saśalyo 'yaṁ mahāprājña saumitrirmitravatsalaḥ ।
yathā bhavati susvasthastathā tvaṁ samupācara ।
6.92.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २१ ॥
विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः । ऋक्षवानरसैन्यानां शूराणां द्रुमयोधिनाम् । ६.९२.२१ ॥

viśalyaḥ kriyatāṁ kṣipraṁ saumitriḥ savibhīṣaṇaḥ ।
ṛkṣavānarasainyānāṁ śūrāṇāṁ drumayodhinām ।
6.92.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २२ ॥
ये चाप्यन्ये ऽत्र युध्यन्ति सशल्या व्रणिनस्तथा । ते ऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया । ६.९२.२२ ॥

ye cāpyanye 'tra yudhyanti saśalyā vraṇinastathā ।
te 'pi sarve prayatnena kriyantāṁ sukhinastvayā ।
6.92.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २३ ॥
एवमुक्तस्तु रामेण महात्मा हरियूथपः । लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधिम् । ६.९२.२३ ॥

evamuktastu rāmeṇa mahātmā hariyūthapaḥ ।
lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadhim ।
6.92.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २४ ॥
तस्या गन्धमाघ्राय विशल्यः समपद्यत । तथा निर्वेदनश्चैव संरूढव्रण एव च । ६.९२.२४ ॥

sa tasyā gandhamāghrāya viśalyaḥ samapadyata ।
tathā nirvedanaścaiva saṁrūḍhavraṇa eva ca ।
6.92.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २५ ॥
विभीषणमुखानां सुहृदां राघवाज्ञया । सर्ववानरमुख्यानां चिकित्सां तदा ऽकरोत् । ६.९२.२५ ॥

vibhīṣaṇamukhānāṁ ca suhṛdāṁ rāghavājñayā ।
sarvavānaramukhyānāṁ cikitsāṁ sa tadā 'karot ।
6.92.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २६ ॥
ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः । सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः । ६.९२.२६ ॥

tataḥ prakṛtimāpanno hṛtaśalyo gatavyathaḥ ।
saumitrirmuditastatra kṣaṇena vigatajvaraḥ ।
6.92.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २७ ॥
तथैव रामः प्लवगाधिपस्तदा विभीषणश्चर्क्षपतिश्च जाम्बवान् । अवेक्ष्य सौमित्रिमरोगमुत्थितं मुदा ससैन्याः सुचिरं जहर्षिरे । ६.९२.२७ ॥

tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān ।
avekṣya saumitrimarogamutthitaṁ mudā sasainyāḥ suciraṁ jaharṣire ।
6.92.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २८ ॥
अपूजयत् कर्म लक्ष्मणस्य सुदुष्करं दाशरथिर्महात्मा । हृष्टा बभूवुर्युधि यूथपेन्द्रा निपातितं शक्रजितं निशम्य । ६.९२.२८ ॥

apūjayat karma sa lakṣmaṇasya suduṣkaraṁ dāśarathirmahātmā ।
hṛṣṭā babhūvuryudhi yūthapendrā nipātitaṁ śakrajitaṁ niśamya ।
6.92.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९२ · २९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्विनवतितमः सर्गः । ९२ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe dvinavatitamaḥ sargaḥ ।
92 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.