वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ९३ · ६८ श्लोकाःSarga 93 · 68 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ९३ · १ ॥
ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः । ६.९३.१ ॥

tataḥ paulastyasacivāḥ śrutvā cendrajitaṁ hatam ।
ācacakṣurabhijñāya daśagrīvāya savyathāḥ ।
6.93.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २ ॥
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषतां नो महाद्युतिः । ६.९३.२ ॥

yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ ।
vibhīṣaṇasahāyena miṣatāṁ no mahādyutiḥ ।
6.93.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३ ॥
शूरः शूरेण सङ्गम्य संयुगेष्वपरजितः । लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् । गतः परमान् लोकान् शरैः सन्ताप्य लक्ष्मणम् । ६.९३.३ ॥

śūraḥ śūreṇa saṅgamya saṁyugeṣvaparajitaḥ ।
lakṣmaṇena hataḥ śūraḥ putrastu vibudhendrajit ।
gataḥ sa paramān lokān śaraiḥ santāpya lakṣmaṇam ।
6.93.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४ ॥
तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् । घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् । ६.९३.४ ॥

sa taṁ pratibhayaṁ śrutvā vadhaṁ putrasya dāruṇam ।
ghoramindrajitaḥ saṅkhye kaśmalaṁ cāviśanmahat ।
6.93.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५ ॥
उपलभ्य चिरात् सञ्ज्ञां राजा राक्षसपुङ्गवः । पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः । ६.९३.५ ॥

upalabhya cirāt sañjñāṁ rājā rākṣasapuṅgavaḥ ।
putraśokārdito dīno vilalāpākulendriyaḥ ।
6.93.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६ ॥
हा राक्षसचमूमुख्य मम वत्स महारथ । जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः । ६.९३.६ ॥

hā rākṣasacamūmukhya mama vatsa mahāratha ।
jitvendraṁ kathamadya tvaṁ lakṣmaṇasya vaśaṁ gataḥ ।
6.93.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ७ ॥
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि । मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि । ६.९३.७ ॥

nanu tvamiṣubhiḥ kruddho bhindyāḥ kālāntakāvapi ।
mandarasyāpi śṛṅgāṇi kiṁ punarlakṣmaṇaṁ yudhi ।
6.93.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ८ ॥
अद्य वैवस्वतो राजा भूयो बहुमतो मम । येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा । ६.९३.८ ॥

adya vaivasvato rājā bhūyo bahumato mama ।
yenādya tvaṁ mahābāho saṁyuktaḥ kāladharmaṇā ।
6.93.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ९ ॥
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि । ६.९३.९ ॥

eṣa panthāḥ suyodhānāṁ sarvāmaragaṇeṣvapi ।
6.93.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १० ॥
यः कृते हन्यते भर्तुः पुमान् स्वर्गमृच्छति । अद्य देवगणाः सर्वे लोकपालास्तथर्षयः । हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः । ६.९३.१० ॥

yaḥ kṛte hanyate bhartuḥ sa pumān svargamṛcchati ।
adya devagaṇāḥ sarve lokapālāstatharṣayaḥ ।
hatamindrajitaṁ śrutvā sukhaṁ svapsyanti nirbhayāḥ ।
6.93.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ११ ॥
अद्य लोकास्त्रयः कृत्स्ना पृथिवी सकानना । एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे । ६.९३.११ ॥

adya lokāstrayaḥ kṛtsnā pṛthivī ca sakānanā ।
ekenendrajitā hīnā śūnyeva pratibhāti me ।
6.93.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १२ ॥
अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् । करेणुसङ्घस्य यथा निनादं गिरिगह्वरे । ६.९३.१२ ॥

adya nairṛtakanyānāṁ śroṣyāmyantaḥpure ravam ।
kareṇusaṅghasya yathā ninādaṁ girigahvare ।
6.93.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १३ ॥
यौवराज्यं लङ्कां रक्षांसि परन्तप । मातरं मां भार्यां क्व गतो ऽसि विहाय नः । ६.९३.१३ ॥

yauvarājyaṁ ca laṅkāṁ ca rakṣāṁsi ca parantapa ।
mātaraṁ māṁ ca bhāryāṁ ca kva gato 'si vihāya naḥ ।
6.93.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १४ ॥
मम नाम त्वया वीर गतस्य यमसादनम् । प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे । ६.९३.१४ ॥

mama nāma tvayā vīra gatasya yamasādanam ।
pretakāryāṇi kāryāṇi viparīte hi vartase ।
6.93.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १५ ॥
त्वं जीवति सुग्रीवे लक्ष्मणे सराघवे । मम शल्यमनुद्धृत्य क्व गतो ऽसि विहाय नः । ६.९३.१५ ॥

sa tvaṁ jīvati sugrīve lakṣmaṇe ca sarāghave ।
mama śalyamanuddhṛtya kva gato 'si vihāya naḥ ।
6.93.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १६ ॥
एवमादिविलापार्तं रावणं राक्षसाधिपम् । आविवेश महान् कोपः पुत्रव्यसनसम्भवः । ६.९३.१६ ॥

evamādivilāpārtaṁ rāvaṇaṁ rākṣasādhipam ।
āviveśa mahān kopaḥ putravyasanasambhavaḥ ।
6.93.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १७ ॥
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः । दीप्तं सन्दीपयामासुर्घर्मे ऽर्कमिव रश्मयः । ६.९३.१७ ॥

prakṛtyā kopanaṁ hyenaṁ putrasya punarādhayaḥ ।
dīptaṁ sandīpayāmāsurgharme 'rkamiva raśmayaḥ ।
6.93.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १८ ॥
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत । युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः । ६.९३.१८ ॥

lalāṭe bhrukuṭībhiśca saṅgatābhirvyārocata ।
yugānte saha nakraistu mahormibhirivodadhiḥ ।
6.93.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · १९ ॥
कोपाद्विजृम्भमाणस्य वक्त्राद् व्यक्तमभिज्वलन् । उत्पपात भूयो ऽग्निर्वृत्रस्य वदनादिव । ६.९३.१९ ॥

kopādvijṛmbhamāṇasya vaktrād vyaktamabhijvalan ।
utpapāta sa bhūyo 'gnirvṛtrasya vadanādiva ।
6.93.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २० ॥
पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः । समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् । ६.९३.२० ॥

sa putravadhasantaptaḥ śūraḥ krodhavaśaṁ gataḥ ।
samīkṣya rāvaṇo buddhyā vaidehyā rocayadvadham ।
6.93.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २१ ॥
तस्य प्रकृत्या रक्ते रक्ते क्रोधाग्निना ऽपि च । रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः । ६.९३.२१ ॥

tasya prakṛtyā rakte ca rakte krodhāgninā 'pi ca ।
rāvaṇasya mahāghore dīpte netre babhūvatuḥ ।
6.93.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २२ ॥
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम् । बभूव रूपं क्रुद्धस्य रुद्धस्येव दुरासदम् । ६.९३.२२ ॥

ghoraṁ prakṛtyā rūpaṁ tattasya krodhāgnimūrcchitam ।
babhūva rūpaṁ kruddhasya ruddhasyeva durāsadam ।
6.93.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २३ ॥
तस्य क्रुद्धस्य नेत्राभ्यां प्राप्ततन्नस्रबिन्दवः । दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः । ६.९३.२३ ॥

tasya kruddhasya netrābhyāṁ prāptatannasrabindavaḥ ।
dīptābhyāmiva dīpābhyāṁ sārciṣaḥ snehabindavaḥ ।
6.93.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २४ ॥
दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः । यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव । ६.९३.२४ ॥

dantān vidaśatastasya śrūyate daśanasvanaḥ ।
yantrasyāveṣṭyamānasya mahato dānavairiva ।
6.93.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २५ ॥
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत । तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे । ६.९३.२५ ॥

kālāgniriva saṅkruddho yāṁ yāṁ diśamavaikṣata ।
tasyāṁ tasyāṁ bhayatrastā rākṣasāḥ saṁvililyire ।
6.93.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २६ ॥
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् । वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः । ६.९३.२६ ॥

tamantakamiva kruddhaṁ carācaracikhādiṣum ।
vīkṣamāṇaṁ diśaḥ sarvā rākṣasā nopacakramuḥ ।
6.93.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २७ ॥
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः । अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे । ६.९३.२७ ॥

tataḥ paramasaṅkruddho rāvaṇo rākṣasādhipaḥ ।
abravīdrakṣasāṁ madhye saṁstambhayiṣurāhave ।
6.93.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २८ ॥
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः । तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः । ६.९३.२८ ॥

mayā varṣasahasrāṇi caritvā duścaraṁ tapaḥ ।
teṣu teṣvavakāśeṣu svayambhūḥ paritoṣitaḥ ।
6.93.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · २९ ॥
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः । नासुरेभ्यो देवेभ्यो भयं मम कदाचन । ६.९३.२९ ॥

tasyaiva tapaso vyuṣṭyā prasādācca svayambhuvaḥ ।
nāsurebhyo na devebhyo bhayaṁ mama kadācana ।
6.93.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३० ॥
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् । देवासुरविमर्देषु भिन्नं वज्रशक्तिभिः । ६.९३.३० ॥

kavacaṁ brahmadattaṁ me yadādityasamaprabham ।
devāsuravimardeṣu na bhinnaṁ vajraśaktibhiḥ ।
6.93.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३१ ॥
तेन मामद्य संयुक्तं रथस्थमिह संयुगे । प्रतीयात् को ऽद्य मामाजौ साक्षादपि पुरन्दरः । ६.९३.३१ ॥

tena māmadya saṁyuktaṁ rathasthamiha saṁyuge ।
pratīyāt ko 'dya māmājau sākṣādapi purandaraḥ ।
6.93.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३२ ॥
यत्तदा ऽभिप्रसन्नेन सशरं कार्मुकं महत् । देवासुरविमर्देषु मम दत्तं स्वयम्भुवा । ६.९३.३२ ॥

yattadā 'bhiprasannena saśaraṁ kārmukaṁ mahat ।
devāsuravimardeṣu mama dattaṁ svayambhuvā ।
6.93.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३३ ॥
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम । रामलक्ष्मणयोरेव वधाय परमाहवे । ६.९३.३३ ॥

adya tūryaśatairbhīmaṁ dhanurutthāpyatāṁ mama ।
rāmalakṣmaṇayoreva vadhāya paramāhave ।
6.93.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३४ ॥
पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः । समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत । ६.९३.३४ ॥

sa putravadhasantaptaḥ śūraḥ krodhavaśaṁ gataḥ ।
samīkṣya rāvaṇo buddhyā sītāṁ hantuṁ vyavasyata ।
6.93.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३५ ॥
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः । दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान् । ६.९३.३५ ॥

pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanaḥ ।
dīno dīnasvarān sarvāṁstānuvāca niśācarān ।
6.93.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३६ ॥
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् । किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् । ६.९३.३६ ॥

māyayā mama vatsena vañcanārthaṁ vanaukasām ।
kiñcideva hataṁ tatra sīteyamiti darśitam ।
6.93.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३७ ॥
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः । वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् । ६.९३.३७ ॥

tadidaṁ tathyamevāhaṁ kariṣye priyamātmanaḥ ।
vaidehīṁ nāśayiṣyāmi kṣatrabandhumanuvratām ।
6.93.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३८ ॥
इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत् । ६.९३.३८ ॥

ityevamuktvā sacivān khaḍgamāśu parāmṛśat ।
6.93.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ३९ ॥
उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् । निष्पपात वेगेन सभार्यः सचिवैर्वृतः । ६.९३.३९ ॥

uddhṛtya guṇasampannaṁ vimalāmbaravarcasam ।
niṣpapāta sa vegena sabhāryaḥ sacivairvṛtaḥ ।
6.93.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४० ॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः । सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली । ६.९३.४० ॥

rāvaṇaḥ putraśokena bhṛśamākulacetanaḥ ।
saṅkruddhaḥ khaḍgamādāya sahasā yatra maithilī ।
6.93.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४१ ॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः । ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः । ६.९३.४१ ॥

vrajantaṁ rākṣasaṁ prekṣya siṁhanādaṁ pracukruśuḥ ।
ūcuścānyonyamāśliṣya saṅkruddhaṁ prekṣya rākṣasāḥ ।
6.93.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४२ ॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः । लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः । ६.९३.४२ ॥

adyainaṁ tāvubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ ।
lokapālā hi catvāraḥ kruddhenānena nirjitāḥ ।
6.93.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४३ ॥
बहवः शत्रवश्चापि संयुगेषु निपातिताः । त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः । ६.९३.४३ ॥

bahavaḥ śatravaścāpi saṁyugeṣu nipātitāḥ ।
triṣu lokeṣu ratnāni bhuṅkte cāhṛtya rāvaṇaḥ ।
6.93.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४४ ॥
विक्रमे बले चैव नास्त्यस्य सदृशो भुवि । ६.९३.४४ ॥

vikrame ca bale caiva nāstyasya sadṛśo bhuvi ।
6.93.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४५ ॥
तेषां सञ्जल्पमानानामशोकवनिकां गताम् । अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः । ६.९३.४५ ॥

teṣāṁ sañjalpamānānāmaśokavanikāṁ gatām ।
abhidudrāva vaidehīṁ rāvaṇaḥ krodhamūrcchitaḥ ।
6.93.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४६ ॥
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः । अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव । ६.९३.४६ ॥

vāryamāṇaḥ susaṅkruddhaḥ suhṛdbhirhitabuddhibhiḥ ।
abhyadhāvata saṅkruddhaḥ khe graho rohiṇīmiva ।
6.93.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४७ ॥
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता । ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् । ६.९३.४७ ॥

maithilī rakṣyamāṇā tu rākṣasībhiraninditā ।
dadarśa rākṣasaṁ kruddhaṁ nistriṁśavaradhāriṇam ।
6.93.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४८ ॥
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा । निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् । सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् । ६.९३.४८ ॥

taṁ niśāmya sanistriṁśaṁ vyathitā janakātmajā ।
nivāryamāṇaṁ bahuśaḥ suhṛdbhiranuvartinam ।
sītā duḥkhasamāviṣṭā vilapantīdamabravīt ।
6.93.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ४९ ॥
यथा ऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् । वधिष्यति सनाथां मामनाथामिव दुर्मतिः । ६.९३.४९ ॥

yathā 'yaṁ māmabhikruddhaḥ samabhidravati svayam ।
vadhiṣyati sanāthāṁ māmanāthāmiva durmatiḥ ।
6.93.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५० ॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम् । भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया । ६.९३.५० ॥

bahuśaścodayāmāsa bhartāraṁ māmanuvratām ।
bhāryā bhava ramasveti pratyākhyāto dhruvaṁ mayā ।
6.93.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५१ ॥
सो ऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः । क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः । ६.९३.५१ ॥

so 'yaṁ mamānupasthāne vyaktaṁ nairāśyamāgataḥ ।
krodhamohasamāviṣṭo nihantuṁ māṁ samudyataḥ ।
6.93.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५२ ॥
अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ । मन्निमित्तमनार्येण समरे ऽद्य निपातितौ । अहो धिङ्मन्निमित्तो ऽयं विनाशो राजपुत्रयोः । ६.९३.५२ ॥

athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau ।
mannimittamanāryeṇa samare 'dya nipātitau ।
aho dhiṅmannimitto 'yaṁ vināśo rājaputrayoḥ ।
6.93.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५३ ॥
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ । विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः । ६.९३.५३ ॥

athavā putraśokena ahatvā rāmalakṣmaṇau ।
vidhamiṣyati māṁ raudro rākṣasaḥ pāpaniścayaḥ ।
6.93.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५४ ॥
हनूमतो ऽपि यद्वाक्यं कृतं क्षुद्रया मया । ६.९३.५४ ॥

hanūmato 'pi yadvākyaṁ na kṛtaṁ kṣudrayā mayā ।
6.93.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५५ ॥
यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता । नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती । ६.९३.५५ ॥

yadyahaṁ tasya pṛṣṭhena tadā yāyāmaninditā ।
nādyaivamanuśoceyaṁ bharturaṅkagatā satī ।
6.93.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५६ ॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति । एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि । ६.९३.५६ ॥

manye tu hṛdayaṁ tasyāḥ kausalyāyāḥ phaliṣyati ।
ekaputrā yadā putraṁ vinaṣṭaṁ śroṣyate yudhi ।
6.93.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५७ ॥
सा हि जन्म बाल्यं यौवनं महात्मनः । धर्मकार्यानुरूपं रुदन्ती संस्मरिष्यति । ६.९३.५७ ॥

sā hi janma ca bālyaṁ ca yauvanaṁ ca mahātmanaḥ ।
dharmakāryānurūpaṁ ca rudantī saṁsmariṣyati ।
6.93.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५८ ॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना । अग्निमारोक्ष्यते नूनमपो वा ऽपि प्रवेक्ष्यति । ६.९३.५८ ॥

nirāśā nihate putre dattvā śrāddhamacetanā ।
agnimārokṣyate nūnamapo vā 'pi pravekṣyati ।
6.93.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ५९ ॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् । यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते । ६.९३.५९ ॥

dhigastu kubjāmasatīṁ mantharāṁ pāpaniścayām ।
yannimittamidaṁ duḥkhaṁ kausalyā pratipatsyate ।
6.93.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६० ॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् । रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् । ६.९३.६० ॥

ityevaṁ maithilīṁ dṛṣṭvā vilapantīṁ tapasvinīm ।
rohiṇīmiva candreṇa vinā grahavaśaṁ gatām ।
6.93.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६१ ॥
एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः । सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम् । निवार्यमाणं सचिवैरिदं वचनमब्रवीत् । ६.९३.६१ ॥

etasminnantare tasya amātyo buddhimān śuciḥ ।
supārśvo nāma medhāvī rākṣaso rākṣaseśvaram ।
nivāryamāṇaṁ sacivairidaṁ vacanamabravīt ।
6.93.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६२ ॥
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज । हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि । ६.९३.६२ ॥

kathaṁ nāma daśagrīva sākṣādvaiśravaṇānuja ।
hantumicchasi vaidehīṁ krodhāddharmamapāsya hi ।
6.93.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६३ ॥
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा । स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर । ६.९३.६३ ॥

vedavidyāvratasnātaḥ svakarmanirataḥ sadā ।
striyāḥ kasmādvadhaṁ vīra manyase rākṣaseśvara ।
6.93.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६४ ॥
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव । त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज । ६.९३.६४ ॥

maithilīṁ rūpasampannāṁ pratyavekṣasva pārthiva ।
tvameva tu sahāsmābhī rāghave krodhamutsṛja ।
6.93.64 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६५ ॥
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् । कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः । ६.९३.६५ ॥

abhyutthānaṁ tvamadyaiva kṛṣṇapakṣacaturdaśīm ।
kṛtvā niryāhyamāvāsyāṁ vijayāya balairvṛtaḥ ।
6.93.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६६ ॥
शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः । हत्वा दशरथिं रामं भवान् प्राप्स्यति मैथिलीम् । ६.९३.६६ ॥

śūro dhīmān rathī khaḍgī rathapravaramāsthitaḥ ।
hatvā daśarathiṁ rāmaṁ bhavān prāpsyati maithilīm ।
6.93.66 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६७ ॥
तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान् पुनः सभां प्रययौ सुहृद्वृतः । ६.९३.६७ ॥

sa taddurātmā suhṛdā niveditaṁ vacaḥ sudharmyaṁ pratigṛhya rāvaṇaḥ ।
gṛhaṁ jagāmātha tataśca vīryavān punaḥ sabhāṁ ca prayayau suhṛdvṛtaḥ ।
6.93.67 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९३ · ६८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिनवतितमः सर्गः । ९३ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe trinavatitamaḥ sargaḥ ।
93 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.