वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ९४ · ४० श्लोकाःSarga 94 · 40 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ९४ · १ ॥
प्रविश्य सभां राजा दीनः परमदुःखितः । निषसादासने सिंहः क्रुद्ध इव श्वसन् । ६.९४.१ ॥

sa praviśya sabhāṁ rājā dīnaḥ paramaduḥkhitaḥ ।
niṣasādāsane siṁhaḥ kruddha iva śvasan ।
6.94.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २ ॥
अब्रवीच्च तान् सर्वान् बलमुख्यान् महाबलः । रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्शितः । ६.९४.२ ॥

abravīcca sa tān sarvān balamukhyān mahābalaḥ ।
rāvaṇaḥ prāñjalirvākyaṁ putravyasanakarśitaḥ ।
6.94.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३ ॥
सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसङ्घैश्च पादातैश्चोपशोभिताः । ६.९४.३ ॥

sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ ।
niryāntu rathasaṅghaiśca pādātaiścopaśobhitāḥ ।
6.94.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ४ ॥
एकं रामं परिक्षिप्य समरे हन्तुमर्हथ । वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः । ६.९४.४ ॥

ekaṁ rāmaṁ parikṣipya samare hantumarhatha ।
varṣantaḥ śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ ।
6.94.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ५ ॥
अथवा ऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे । भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः । ६.९४.५ ॥

athavā 'haṁ śaraistīkṣṇairbhinnagātraṁ mahāraṇe ।
bhavadbhiḥ śvo nihantāsmi rāmaṁ lokasya paśyataḥ ।
6.94.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ६ ॥
इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः । ६.९४.६ ॥

ityetadrākṣasendrasya vākyamādāya rākṣasāḥ ।
niryayuste rathaiḥ śīghrairnānānīkaiḥ susaṁvṛtāḥ ।
6.94.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ७ ॥
परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान् । शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति । ६.९४.७ ॥

parighān paṭṭiśāṁścaiva śarakhaḍgaparaśvadhān ।
śarīrāntakarān sarve cikṣipurvānarān prati ।
6.94.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ८ ॥
वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः । ६.९४.८ ॥

vānarāśca drumān śailān rākṣasān prati cikṣipuḥ ।
6.94.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ९ ॥
सङ्ग्रामो महान् भीमः सूर्यस्योदयनं प्रति । रक्षसां वानराणां तुमुलः समपद्यत । ६.९४.९ ॥

sa saṅgrāmo mahān bhīmaḥ sūryasyodayanaṁ prati ।
rakṣasāṁ vānarāṇāṁ ca tumulaḥ samapadyata ।
6.94.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १० ॥
ते गदाभिर्विचित्राभिः प्राशैः खड्गैः परश्वधैः । अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः । ६.९४.१० ॥

te gadābhirvicitrābhiḥ prāśaiḥ khaḍgaiḥ paraśvadhaiḥ ।
anyonyaṁ samare jaghnustadā vānararākṣasāḥ ।
6.94.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ११ ॥
एवं प्रवृत्ते सङ्ग्रामे ह्युद्भूतं सुमहद्रजः । रक्षसां वानराणां शान्तं शोणितविस्रवैः । ६.९४.११ ॥

evaṁ pravṛtte saṅgrāme hyudbhūtaṁ sumahadrajaḥ ।
rakṣasāṁ vānarāṇāṁ ca śāntaṁ śoṇitavisravaiḥ ।
6.94.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १२ ॥
मातङ्गरथकूलाश्च वाजिमत्स्या ध्वजद्रुमाः । शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः । ६.९४.१२ ॥

mātaṅgarathakūlāśca vājimatsyā dhvajadrumāḥ ।
śarīrasaṅghāṭavahāḥ prasasruḥ śoṇitāpagāḥ ।
6.94.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १३ ॥
ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः । ध्वजवर्मरथानश्वान्नानाप्रहरणानि च । आप्लुत्याप्लुत्य समरे राक्षसानां बभञ्जिरे । ६.९४.१३ ॥

tataste vānarāḥ sarve śoṇitaughapariplutāḥ ।
dhvajavarmarathānaśvānnānāpraharaṇāni ca ।
āplutyāplutya samare rākṣasānāṁ babhañjire ।
6.94.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १४ ॥
केशान् कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः । रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् । ६.९४.१४ ॥

keśān karṇalalāṭāṁśca nāsikāśca plavaṅgamāḥ ।
rakṣasāṁ daśanaistīkṣṇairnakhaiścāpi nyakartayan ।
6.94.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १५ ॥
एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः । अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा । ६.९४.१५ ॥

ekaikaṁ rākṣasaṁ saṅkhye śataṁ vānarapuṅgavāḥ ।
abhyadhāvanta phalinaṁ vṛkṣaṁ śakunayo yathā ।
6.94.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १६ ॥
तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः । निजघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः । ६.९४.१६ ॥

tathā gadābhirgurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ ।
nijaghnurvānarān ghorān rākṣasāḥ parvatopamāḥ ।
6.94.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १७ ॥
राक्षसैर्युद्ध्यामानानां वानराणां महाचमूः । शरण्यं शरणं याता रामं दशरथात्मजम् । ६.९४.१७ ॥

rākṣasairyuddhyāmānānāṁ vānarāṇāṁ mahācamūḥ ।
śaraṇyaṁ śaraṇaṁ yātā rāmaṁ daśarathātmajam ।
6.94.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १८ ॥
ततो रामो महातेजा धनुरादाय वीर्यवान् । प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह । ६.९४.१८ ॥

tato rāmo mahātejā dhanurādāya vīryavān ।
praviśya rākṣasaṁ sainyaṁ śaravarṣaṁ vavarṣa ha ।
6.94.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · १९ ॥
प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे । नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना । ६.९४.१९ ॥

praviṣṭaṁ tu tadā rāmaṁ meghāḥ sūryamivāmbare ।
nābhijagmurmahāghoraṁ nirdahantaṁ śarāgninā ।
6.94.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २० ॥
कृतान्येव सुघोराणि रामेण रजनीचराः । रणे रामस्य ददृशुः कर्माण्यसुकराणि च । ६.९४.२० ॥

kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ ।
raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi ca ।
6.94.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २१ ॥
चालयन्तं महानीकं विधमन्तं महारथान् । ददृशुस्ते वै रामं वातं वनगतं यथा । ६.९४.२१ ॥

cālayantaṁ mahānīkaṁ vidhamantaṁ mahārathān ।
dadṛśuste na vai rāmaṁ vātaṁ vanagataṁ yathā ।
6.94.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २२ ॥
छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् । बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् । ६.९४.२२ ॥

chinnaṁ bhinnaṁ śarairdagdhaṁ prabhagnaṁ śastrapīḍitam ।
balaṁ rāmeṇa dadṛśurna rāmaṁ śīghrakāriṇam ।
6.94.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २३ ॥
प्रहरन्तं शरीरेषु ते पश्यन्ति राघवम् । इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः । ६.९४.२३ ॥

praharantaṁ śarīreṣu na te paśyanti rāghavam ।
indriyārtheṣu tiṣṭhantaṁ bhūtātmānamiva prajāḥ ।
6.94.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २४ ॥
एष हन्ति गजानीकमेष हन्ति महारथान् । एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह । ६.९४.२४ ॥

eṣa hanti gajānīkameṣa hanti mahārathān ।
eṣa hanti śaraistīkṣṇaiḥ padātīn vājibhiḥ saha ।
6.94.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २५ ॥
इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे । अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते । ६.९४.२५ ॥

iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe ।
anyonyaṁ kupitā jaghnuḥ sādṛśyādrāghavasya te ।
6.94.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २६ ॥
ते ददृशिरे रामं दहन्तमरिवाहिनीम् । मोहिताः परमास्त्रेण गान्धर्वेण महात्मना । ६.९४.२६ ॥

na te dadṛśire rāmaṁ dahantamarivāhinīm ।
mohitāḥ paramāstreṇa gāndharveṇa mahātmanā ।
6.94.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २७ ॥
ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः । पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे । ६.९४.२७ ॥

te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ ।
punaḥ paśyanti kākutsthamekameva mahāhave ।
6.94.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २८ ॥
भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः । अलातचक्रप्रतिमां ददृशुस्ते राघवम् । ६.९४.२८ ॥

bhramantīṁ kāñcanīṁ koṭiṁ kārmukasya mahātmanaḥ ।
alātacakrapratimāṁ dadṛśuste na rāghavam ।
6.94.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · २९ ॥
शरीरनाभिसत्त्वार्चिः शरीरं नेमिकार्मुकम् । ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम् । ६.९४.२९ ॥

śarīranābhisattvārciḥ śarīraṁ nemikārmukam ।
jyāghoṣatalanirghoṣaṁ tejobuddhiguṇaprabham ।
6.94.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३० ॥
दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् । ददृशू रामचक्रं तत् कालचक्रमिव प्रजाः । ६.९४.३० ॥

divyāstraguṇaparyantaṁ nighnantaṁ yudhi rākṣasān ।
dadṛśū rāmacakraṁ tat kālacakramiva prajāḥ ।
6.94.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३१ ॥
अनीकं दशसाहस्रं रथानां वातरंहसाम् । अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् । ६.९४.३१ ॥

anīkaṁ daśasāhasraṁ rathānāṁ vātaraṁhasām ।
aṣṭādaśa sahasrāṇi kuñjarāṇāṁ tarasvinām ।
6.94.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३२ ॥
चतुर्दश सहस्राणि सारोहाणां वाजिनाम् । पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् । ६.९४.३२ ॥

caturdaśa sahasrāṇi sārohāṇāṁ ca vājinām ।
pūrṇe śatasahasre dve rākṣasānāṁ padātinām ।
6.94.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३३ ॥
दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः । हतान्येकेन रामेण रक्षसां कामरूपिणाम् । ६.९४.३३ ॥

divasasyāṣṭame bhāge śarairagniśikhopamaiḥ ।
hatānyekena rāmeṇa rakṣasāṁ kāmarūpiṇām ।
6.94.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३४ ॥
ते हताश्वा हतरथाः शान्ता विमथितध्वजाः । अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः । ६.९४.३४ ॥

te hatāśvā hatarathāḥ śāntā vimathitadhvajāḥ ।
abhipetuḥ purīṁ laṅkāṁ hataśeṣā niśācarāḥ ।
6.94.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३५ ॥
हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् । आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः । ६.९४.३५ ॥

hatairgajapadātyaśvaistadbabhūva raṇājiram ।
ākrīḍamiva rudrasya kruddhasya sumahātmanaḥ ।
6.94.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३६ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । साधु साध्विति रामस्य तत् कर्म समपूजयन् । ६.९४.३६ ॥

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ ।
sādhu sādhviti rāmasya tat karma samapūjayan ।
6.94.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३७ ॥
अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् । विभीषणं धर्मात्मा हनूमन्तं वानरम् । ६.९४.३७ ॥

abravīcca tadā rāmaḥ sugrīvaṁ pratyanantaram ।
vibhīṣaṇaṁ ca dharmātmā hanūmantaṁ ca vānaram ।
6.94.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३८ ॥
जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च । एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा । ६.९४.३८ ॥

jāmbavantaṁ hariśreṣṭhaṁ maindaṁ dvividameva ca ।
etadastrabalaṁ divyaṁ mama vā tryambakasya vā ।
6.94.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ३९ ॥
निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा । अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः । ६.९४.३९ ॥

nihatya tāṁ rākṣasavāhinīṁ tu rāmastadā śakrasamo mahātmā ।
astreṣu śastreṣu jitaklamaśca saṁstūyate devagaṇaiḥ prahṛṣṭaiḥ ।
6.94.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९४ · ४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्नवतितमः सर्गः । ९४ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe caturnavatitamaḥ sargaḥ ।
94 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.