वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ९५ · ४१ श्लोकाःSarga 95 · 41 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ९५ · १ ॥
तानि तानि सहस्राणि सारोहाणां वाजिनाम् । रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः । ६.९५.१ ॥

tāni tāni sahasrāṇi sārohāṇāṁ ca vājinām ।
rathānāṁ tvagnivarṇānāṁ sadhvajānāṁ sahasraśaḥ ।
6.95.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २ ॥
राक्षसानां सहस्राणि गदापरिघयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् । ६.९५.२ ॥

rākṣasānāṁ sahasrāṇi gadāparighayodhinām ।
kāñcanadhvajacitrāṇāṁ śūrāṇāṁ kāmarūpiṇām ।
6.95.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३ ॥
निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा । ६.९५.३ ॥

nihatāni śaraistīkṣṇaistaptakāñcanabhūṣaṇaiḥ ।
rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā ।
6.95.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ४ ॥
दृष्ट्वा श्रुत्वा सम्भ्रान्ता हतशेषा निशाचराः । राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः । ६.९५.४ ॥

dṛṣṭvā śrutvā ca sambhrāntā hataśeṣā niśācarāḥ ।
rākṣasīśca samāgamya dīnāścintāpariplutāḥ ।
6.95.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ५ ॥
विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः । राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् । ६.९५.५ ॥

vidhavā hataputrāśca krośantyo hatabāndhavāḥ ।
rākṣasyaḥ saha saṅgamya duḥkhārtāḥ paryadevayan ।
6.95.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ६ ॥
कथं शूर्पणखा वृद्धा कराला निर्णतोदरी । आससाद वने रामं कन्दर्पमिव रूपिणम् । सुकुमारं महासत्त्वं सर्वभूतहिते रतम् । ६.९५.६ ॥

kathaṁ śūrpaṇakhā vṛddhā karālā nirṇatodarī ।
āsasāda vane rāmaṁ kandarpamiva rūpiṇam ।
sukumāraṁ mahāsattvaṁ sarvabhūtahite ratam ।
6.95.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ७ ॥
तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता । ६.९५.७ । न्दर्पमिव रूपिणम् । कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी । ६.९५.८ ॥

taṁ dṛṣṭvā lokanindyā sā hīnarūpā prakāmitā ।
6.95.7 ।
ndarpamiva rūpiṇam ।
kathaṁ sarvaguṇairhīnā guṇavantaṁ mahaujasam ।
sumukhaṁ durmukhī rāmaṁ kāmayāmāsa rākṣasī ।
6.95.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ८ ॥
जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा । अकार्यमपहास्यं सर्वलोकविगर्हितम् । ६.९५.९ ॥

janasyāsyālpabhāgyatvādvalinī śvetamūrdhajā ।
akāryamapahāsyaṁ ca sarvalokavigarhitam ।
6.95.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ९ ॥
राक्षसानां विनाशाय दूषणस्य खरस्य च । चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् । ६.९५.१० ॥

rākṣasānāṁ vināśāya dūṣaṇasya kharasya ca ।
cakārāpratirūpā sā rāghavasya pradharṣaṇam ।
6.95.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १० ॥
तन्निमित्तमिदं वैरं रावणेन कृतं महत् । वधाय सीता सा ऽनीता दशग्रीवेण रक्षसा । ६.९५.११ ॥

tannimittamidaṁ vairaṁ rāvaṇena kṛtaṁ mahat ।
vadhāya sītā sā ' 'nītā daśagrīveṇa rakṣasā ।
6.95.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ११ ॥
सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् । बद्धं बलवता वैरमक्षयं राघवेण च । ६.९५.१२ ॥

na ca sītāṁ daśagrīvaḥ prāpnoti janakātmajām ।
baddhaṁ balavatā vairamakṣayaṁ rāghaveṇa ca ।
6.95.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १२ ॥
वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् । हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् । ६.९५.१३ ॥

vaidehīṁ prārthayānaṁ taṁ virādhaṁ prekṣya rākṣasam ।
hatamekena rāmeṇa paryāptaṁ tannidarśanam ।
6.95.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १३ ॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः । ६.९५.१४ ॥

caturdaśa sahasrāṇi rakṣasāṁ bhīmakarmaṇām ।
nihatāni janasthāne śarairagniśikhopamaiḥ ।
6.95.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १४ ॥
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा । शरैरादित्यसङ्काशैः पर्याप्तं तन्निदर्शनम् । ६.९५.१५ ॥

kharaśca nihataḥ saṅkhye dūṣaṇastriśirāstathā ।
śarairādityasaṅkāśaiḥ paryāptaṁ tannidarśanam ।
6.95.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १५ ॥
हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधान्नादं नदन् सो ऽथ पर्याप्तं तन्निदर्शनम् । ६.९५.१६ ॥

hato yojanabāhuśca kabandho rudhirāśanaḥ ।
krodhānnādaṁ nadan so 'tha paryāptaṁ tannidarśanam ।
6.95.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १६ ॥
जघान बलिनं रामः सहस्रनयनात्मजम् । वालिनं मेरुसङ्काशं पर्याप्तं तन्निदर्शनम् । ६.९५.१७ ॥

jaghāna balinaṁ rāmaḥ sahasranayanātmajam ।
vālinaṁ merusaṅkāśaṁ paryāptaṁ tannidarśanam ।
6.95.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १७ ॥
ऋष्यमूके वसन् शैले दीनो भग्नमनोरथः । सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम् । ६.९५.१८ ॥

ṛṣyamūke vasan śaile dīno bhagnamanorathaḥ ।
sugrīvaḥ sthāpito rājye paryāptaṁ tannidarśanam ।
6.95.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १८ ॥
धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् । युक्तं विभीषणेनोक्तं मोहात्तस्य रोचते । ६.९५.१९ ॥

dharmārthasahitaṁ vākyaṁ sarveṣāṁ rakṣasāṁ hitam ।
yuktaṁ vibhīṣaṇenoktaṁ mohāttasya na rocate ।
6.95.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · १९ ॥
विभीषणवचः कुर्याद्यदि स्म धनदानुजः । श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत् । ६.९५.२० ॥

vibhīṣaṇavacaḥ kuryādyadi sma dhanadānujaḥ ।
śmaśānabhūtā duḥkhārtā neyaṁ laṅkā purī bhavet ।
6.95.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २० ॥
कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम् । अतिकायं दुर्धर्षं लक्ष्मणेन हतं पुनः । प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते । ६.९५.२१ ॥

kumbhakarṇaṁ hataṁ śrutvā rāghaveṇa mahābalam ।
atikāyaṁ ca durdharṣaṁ lakṣmaṇena hataṁ punaḥ ।
priyaṁ cendrajitaṁ putraṁ rāvaṇo nāvabudhyate ।
6.95.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २१ ॥
मम पुत्रो मम भ्राता मम भर्ता रणे हतः । इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले । ६.९५.२२ ॥

mama putro mama bhrātā mama bhartā raṇe hataḥ ।
ityevaṁ śrūyate śabdo rākṣasānāṁ kule kule ।
6.95.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २२ ॥
रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः । रणे रामेण शूरेण राक्षसाश्च पदातयः । ६.९५.२३ ॥

rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ ।
raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ ।
6.95.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २३ ॥
रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः । हन्ति नो रामरूपेण यदि वा स्वयमन्तकः । ६.९५.२४ ॥

rudro vā yadi vā viṣṇurmahendro vā śatakratuḥ ।
hanti no rāmarūpeṇa yadi vā svayamantakaḥ ।
6.95.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २४ ॥
हतप्रवीरा रामेण निराशा जीविते वयम् । अपश्यन्तो भयस्यान्तमनाथा विलपामहे । ६.९५.२५ ॥

hatapravīrā rāmeṇa nirāśā jīvite vayam ।
apaśyanto bhayasyāntamanāthā vilapāmahe ।
6.95.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २५ ॥
रामहस्ताद्दशग्रीवः शूरो दत्तमहावरः । इदं भयं महाघोरमुत्पन्नं नावबुध्यते । ६.९५.२६ ॥

rāmahastāddaśagrīvaḥ śūro dattamahāvaraḥ ।
idaṁ bhayaṁ mahāghoramutpannaṁ nāvabudhyate ।
6.95.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २६ ॥
देवा गन्धर्वा पिशाचा राक्षसाः । उपसृष्टं परित्रातुं शक्ता रामेण संयुगे । ६.९५.२७ ॥

na devā na ca gandharvā na piśācā na rākṣasāḥ ।
upasṛṣṭaṁ paritrātuṁ śaktā rāmeṇa saṁyuge ।
6.95.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २७ ॥
उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे । कथयिष्यन्ति रामेण रावणस्य निबर्हणम् । ६.९५.२८ ॥

utpātāścāpi dṛśyante rāvaṇasya raṇe raṇe ।
kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam ।
6.95.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २८ ॥
पितामहेन प्रीतेन देवदानवराक्षसैः । रावणस्याभयं दत्तं मानुषेभ्यो याचितम् । ६.९५.२९ ॥

pitāmahena prītena devadānavarākṣasaiḥ ।
rāvaṇasyābhayaṁ dattaṁ mānuṣebhyo na yācitam ।
6.95.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · २९ ॥
तदिदं मानुषं मन्ये प्राप्तं निस्संशयं भयम् । जीवितान्तकरं घोरं रक्षसां रावणस्य च । ६.९५.३० ॥

tadidaṁ mānuṣaṁ manye prāptaṁ nissaṁśayaṁ bhayam ।
jīvitāntakaraṁ ghoraṁ rakṣasāṁ rāvaṇasya ca ।
6.95.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३० ॥
पीड्यमानास्तु बलिना वरदानेन रक्षसा । दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् । ६.९५.३१ ॥

pīḍyamānāstu balinā varadānena rakṣasā ।
dīptaistapobhirvibudhāḥ pitāmahamapūjayan ।
6.95.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३१ ॥
देवतानां हितार्थाय महात्मा वै पितामहः । उवाच देवताः सर्वा इदं तुष्टो महद्वचः । ६.९५.३२ ॥

devatānāṁ hitārthāya mahātmā vai pitāmahaḥ ।
uvāca devatāḥ sarvā idaṁ tuṣṭo mahadvacaḥ ।
6.95.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३२ ॥
अद्यप्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः । भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम् । ६.९५.३३ ॥

adyaprabhṛti lokāṁstrīn sarve dānavarākṣasāḥ ।
bhayena prāvṛtā nityaṁ vicariṣyanti śāśvatam ।
6.95.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३३ ॥
दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः । वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः । ६.९५.३४ ॥

daivataistu samāgamya sarvaiścendrapurogamaiḥ ।
vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ ।
6.95.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३४ ॥
प्रसन्नस्तु महादेवो देवानेतद्वचो ऽब्रवीत् । उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा । ६.९५.३५ ॥

prasannastu mahādevo devānetadvaco 'bravīt ।
utpatsyati hitārthaṁ vo nārī rakṣaḥkṣayāvahā ।
6.95.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३५ ॥
एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा । भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् । ६.९५.३६ ॥

eṣā devaiḥ prayuktā tu kṣudyathā dānavān purā ।
bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān ।
6.95.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३६ ॥
रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः । अयं निष्ठानको घोरः शोकेन समभिप्लुतः । ६.९५.३७ ॥

rāvaṇasyāpanītena durvinītasya durmateḥ ।
ayaṁ niṣṭhānako ghoraḥ śokena samabhiplutaḥ ।
6.95.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३७ ॥
तं पश्यामहे लोके यो नः शरणदो भवेत् । राघवेणोपसृष्टानां कालेनेव युगक्षये । ६.९५.३८ ॥

taṁ na paśyāmahe loke yo naḥ śaraṇado bhavet ।
rāghaveṇopasṛṣṭānāṁ kāleneva yugakṣaye ।
6.95.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३८ ॥
नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् । दवाग्निवेष्टितानां हि करेणूनां यथा वने । ६.९५.३९ ॥

nāsti naḥ śaraṇaṁ kaścidbhaye mahati tiṣṭhatām ।
davāgniveṣṭitānāṁ hi kareṇūnāṁ yathā vane ।
6.95.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ३९ ॥
प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना । यत एव भयं दृष्टं तमेव शरणं गतः । ६.९५.४० ॥

prāptakālaṁ kṛtaṁ tena paulastyena mahātmanā ।
yata eva bhayaṁ dṛṣṭaṁ tameva śaraṇaṁ gataḥ ।
6.95.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ४० ॥
इतीव सर्वा रजनीचरस्त्रियः परस्परं सम्परिरभ्य बाहुभिः । विषेदुरार्ता भयभारपीडिता विनेदुरुच्चैश्च तदा सुदारुणम् । ६.९५.४१ ॥

itīva sarvā rajanīcarastriyaḥ parasparaṁ samparirabhya bāhubhiḥ ।
viṣedurārtā bhayabhārapīḍitā vineduruccaiśca tadā sudāruṇam ।
6.95.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९५ · ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चनवतितमः सर्गः । ९५ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe pañcanavatitamaḥ sargaḥ ।
95 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.