वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ७८ · २२ श्लोकाःSarga 78 · 22 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ७८ · १ ॥
निकुम्भं हतं श्रुत्वा कुम्भं विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा । ६.७८.१ ॥

nikumbhaṁ ca hataṁ śrutvā kumbhaṁ ca vinipātitam ।
rāvaṇaḥ paramāmarṣī prajajvālānalo yathā ।
6.78.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · २ ॥
नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्च्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् । ६.७८.२ ॥

nairṛtaḥ krodhaśokābhyāṁ dvābhyāṁ tu parimūrcchitaḥ ।
kharaputraṁ viśālākṣaṁ makarākṣamacodayat ।
6.78.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ३ ॥
गच्छ पुत्र मया ऽज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः । ६.७८.३ ॥

gaccha putra mayā ' 'jñapto balenābhisamanvitaḥ ।
rāghavaṁ lakṣmaṇaṁ caiva jahi tāṁśca vanaukasaḥ ।
6.78.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ४ ॥
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकाराक्षो निशाचरः । ६.७८.४ ॥

rāvaṇasya vacaḥ śrutvā śūramānī kharātmajaḥ ।
bāḍhamityabravīddhṛṣṭo makārākṣo niśācaraḥ ।
6.78.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ५ ॥
सो ऽबिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली । ६.७८.५ ॥

so 'bivādya daśagrīvaṁ kṛtvā cāpi pradakṣiṇam ।
nirjagāma gṛhācchubhrādrāvaṇasyājñayā balī ।
6.78.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ६ ॥
समीपस्थं बलाध्यक्षं खरपुत्रो ऽब्रवीदिदम् । रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् । ६.७८.६ ॥

samīpasthaṁ balādhyakṣaṁ kharaputro 'bravīdidam ।
rathaścānīyatāṁ śīghraṁ sainyaṁ cāhūyatāṁ tvarāt ।
6.78.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ७ ॥
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं बलं चैव समीपं प्रत्यपादयत् । ६.७८.७ ॥

tasya tadvacanaṁ śrutvā balādhyakṣo niśācaraḥ ।
syandanaṁ ca balaṁ caiva samīpaṁ pratyapādayat ।
6.78.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ८ ॥
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः । सूतं सञ्चोदयामास शीघ्रं मे रथमावह । ६.७८.८ ॥

pradakṣiṇaṁ rathaṁ kṛtvā āruroha niśācaraḥ ।
sūtaṁ sañcodayāmāsa śīghraṁ me rathamāvaha ।
6.78.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ९ ॥
अथ तान् राक्षसान् सर्वान् मकराक्षो ऽब्रवीदिदम् । यूयं सर्वे प्रयुद्ध्यध्वं पुरस्तान्मम राक्षसाः । ६.७८.९ ॥

atha tān rākṣasān sarvān makarākṣo 'bravīdidam ।
yūyaṁ sarve prayuddhyadhvaṁ purastānmama rākṣasāḥ ।
6.78.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १० ॥
अहं राक्षसराजेन रावणेन महात्मना । आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ । ६.७८.१० ॥

ahaṁ rākṣasarājena rāvaṇena mahātmanā ।
ājñaptaḥ samare hantuṁ tāvubhau rāmalakṣmaṇau ।
6.78.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · ११ ॥
अद्य रामं वधिष्यामि लक्ष्मणं निशाचराः । शाखामृगं सुग्रीवं वानरांश्च शरोत्तमैः । ६.७८.११ ॥

adya rāmaṁ vadhiṣyāmi lakṣmaṇaṁ ca niśācarāḥ ।
śākhāmṛgaṁ ca sugrīvaṁ vānarāṁśca śarottamaiḥ ।
6.78.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १२ ॥
अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि सम्प्राप्तः शुष्केन्धनमिवानलः । ६.७८.१२ ॥

adya śūlanipātaiśca vānarāṇāṁ mahācamūm ।
pradahiṣyāmi samprāptaḥ śuṣkendhanamivānalaḥ ।
6.78.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १३ ॥
मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समागताः । ६.७८.१३ ॥

makarākṣasya tacchrutvā vacanaṁ te niśācarāḥ ।
sarve nānāyudhopetā balavantaḥ samāgatāḥ ।
6.78.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १४ ॥
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः । ६.७८.१४ ॥

te kāmarūpiṇaḥ sarve daṁṣṭriṇaḥ piṅgalekṣaṇāḥ ।
mātaṅgā iva nardanto dhvastakeśā bhayānakāḥ ।
6.78.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १५ ॥
परिवार्य महाकाया महाकायं खरात्मजम् । अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् । ६.७८.१५ ॥

parivārya mahākāyā mahākāyaṁ kharātmajam ।
abhijagmustato hṛṣṭāścālayanto vasundharām ।
6.78.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १६ ॥
शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेलितास्फोटितानां ततः शब्दो महानभूत् । ६.७८.१६ ॥

śaṅkhabherīsahasrāṇāmāhatānāṁ samantataḥ ।
kṣvelitāsphoṭitānāṁ ca tataḥ śabdo mahānabhūt ।
6.78.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १७ ॥
प्रभ्रष्टो ऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा चैव ध्वजस्तस्य रक्षसः । ६.७८.१७ ॥

prabhraṣṭo 'tha karāttasya pratodaḥ sārathestadā ।
papāta sahasā caiva dhvajastasya ca rakṣasaḥ ।
6.78.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १८ ॥
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः । ६.७८.१८ ॥

tasya te rathayuktāśca hayā vikramavarjitāḥ ।
caraṇairākulairgatvā dīnāḥ sāsramukhā yayuḥ ।
6.78.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · १९ ॥
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः । ६.७८.१९ ॥

pravāti pavanastasmin sapāṁsuḥ kharadāruṇaḥ ।
niryāṇe tasya raudrasya makarākṣasya durmateḥ ।
6.78.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · २० ॥
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ । ६.७८.२० ॥

tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ ।
acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau ।
6.78.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · २१ ॥
घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः । ६.७८.२१ ॥

ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛdgadāsibhinnāḥ ।
ahamahamiti yuddhakauśalāste rajanicarāḥ paritaḥ samunnadantaḥ ।
6.78.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७८ · २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टसप्ततितमः सर्गः । ७८ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe aṣṭasaptatitamaḥ sargaḥ ।
78 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.