वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः २९ · ८ श्लोकाःSarga 29 · 8 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · २९ · १ ॥
तथागतां तां व्यथितामनिन्दितां व्यपेतहर्षां परिदीनमानसाम् । शुभां निमित्तानि शुभानि भेजिरे नरं श्रिया जुष्टमिवोपजीविनः । ५.२९.१ ॥

tathāgatāṁ tāṁ vyathitāmaninditāṁ vyapetaharṣāṁ paridīnamānasām ।
śubhāṁ nimittāni śubhāni bhejire naraṁ śriyā juṣṭamivopajīvinaḥ ।
5.29.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · २ ॥
तस्याः शुभं वाममरालपक्ष्मराजीवृतं कृष्णविशालशुक्लम् । प्रास्पन्दतैकं नयनं सुकेश्यामीनाहतं पद्ममिवाभिताम्रम् । ५.२९.२ ॥

tasyāḥ śubhaṁ vāmamarālapakṣmarājīvṛtaṁ kṛṣṇaviśālaśuklam ।
prāspandataikaṁ nayanaṁ sukeśyāmīnāhataṁ padmamivābhitāmram ।
5.29.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ३ ॥
भुजश्च चार्वञ्चितपीनवृत्तः परार्ध्यकालागरुचन्दनार्हः । अनुत्तमेनाध्युषितः प्रियेण चिरेण वामः समवेपताशु । ५.२९.३ ॥

bhujaśca cārvañcitapīnavṛttaḥ parārdhyakālāgarucandanārhaḥ ।
anuttamenādhyuṣitaḥ priyeṇa cireṇa vāmaḥ samavepatāśu ।
5.29.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ४ ॥
गजेन्द्रहस्तप्रतिमश्च पीनस्तयोर्द्वयोः संहतयोः सुजातः । प्रस्पन्दमानः पुनरूरुरस्या रामं पुरस्तात् स्थितमाचचक्षे । ५.२९.४ ॥

gajendrahastapratimaśca pīnastayordvayoḥ saṁhatayoḥ sujātaḥ ।
praspandamānaḥ punarūrurasyā rāmaṁ purastāt sthitamācacakṣe ।
5.29.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ५ ॥
शुभं पुनर्हेमसमानवर्णमीषद्रजोध्वस्तमिवामलाक्ष्याः । वासः स्थितायाः शिखराग्रदत्याः किंचित् परिस्रंसत चारुगात्र्याः । ५.२९.५ ॥

śubhaṁ punarhemasamānavarṇamīṣadrajodhvastamivāmalākṣyāḥ ।
vāsaḥ sthitāyāḥ śikharāgradatyāḥ kiṁcit parisraṁsata cārugātryāḥ ।
5.29.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ६ ॥
एतैर्निमित्तैरपरैश्च सुभ्रूः संबोधिता प्रागपि साधु सिद्धैः । वातातपक्लान्तमिव प्रनष्टं वर्षेण बीजं प्रतिसंजहर्ष । ५.२९.६ ॥

etairnimittairaparaiśca subhrūḥ saṁbodhitā prāgapi sādhu siddhaiḥ ।
vātātapaklāntamiva pranaṣṭaṁ varṣeṇa bījaṁ pratisaṁjaharṣa ।
5.29.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ७ ॥
तस्याः पुनर्बिम्बफलाधरोष्ठं स्वक्षिभ्रु केशान्तमरालपक्ष्म । वक्त्रं बभासे सितशुक्लदंष्ट्रं राहोर्मुखाच्चन्द्र इव प्रमुक्तः । ५.२९.७ ॥

tasyāḥ punarbimbaphalādharoṣṭhaṁ svakṣibhru keśāntamarālapakṣma ।
vaktraṁ babhāse sitaśukladaṁṣṭraṁ rāhormukhāccandra iva pramuktaḥ ।
5.29.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २९ · ८ ॥
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रिरिवोदितेन । ५.२९.८ ॥

sā vītaśokā vyapanītatandrī śāntajvarā harṣavivṛddhasattvā ।
aśobhatāryā vadanena śukle śītāṁśunā rātririvoditena ।
5.29.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.