वाल्मीकि रामायणम् · सुन्दरकाण्डम्Sundara Kāṇḍa

सुन्दरकाण्डम्Sundara Kāṇḍa

सर्गः २८ · २० श्लोकाःSarga 28 · 20 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ५ · २८ · १ ॥
सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याप्रियमप्रियार्ता । सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या । ५.२८.१ ॥

sā rākṣasendrasya vaco niśamya tadrāvaṇasyāpriyamapriyārtā ।
sītā vitatrāsa yathā vanānte siṁhābhipannā gajarājakanyā ।
5.28.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · २ ॥
सा राक्षसीमध्यगता भीरुर्वाग्भिर्भृशं रावणतर्जिता च । कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता । ५.२८.२ ॥

sā rākṣasīmadhyagatā ca bhīrurvāgbhirbhṛśaṁ rāvaṇatarjitā ca ।
kāntāramadhye vijane visṛṣṭā bāleva kanyā vilalāpa sītā ।
5.28.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ३ ॥
सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः । यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित्क्षणमप्यपुण्या । ५.२८.३ ॥

satyaṁ batedaṁ pravadanti loke nākālamṛtyurbhavatīti santaḥ ।
yatrāhamevaṁ paribhartsyamānā jīvāmi kiṁcitkṣaṇamapyapuṇyā ।
5.28.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ४ ॥
सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे । विशीर्यते यन्न सहस्रधा ऽद्य वज्राहतं शृङ्गमिवाचलस्य । ५.२८.४ ॥

sukhādvihīnaṁ bahuduḥkhapūrṇamidaṁ tu nūnaṁ hṛdayaṁ sthiraṁ me ।
viśīryate yanna sahasradhā 'dya vajrāhataṁ śṛṅgamivācalasya ।
5.28.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ५ ॥
नैवास्ति दोषं मम नूनमत्र वध्या ऽहमस्याप्रियदर्शनस्य । भावं चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय । ५.२८.५ ॥

naivāsti doṣaṁ mama nūnamatra vadhyā 'hamasyāpriyadarśanasya ।
bhāvaṁ na cāsyāhamanupradātumalaṁ dvijo mantramivādvijāya ।
5.28.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ६ ॥
नूनं ममाङ्गान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः । तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः । ५.२८.६ ॥

nūnaṁ mamāṅgānyacirādanāryaḥ śastraiḥ śitaiśchetsyati rākṣasendraḥ ।
tasminnanāgacchati lokanāthe garbhasthajantoriva śalyakṛntaḥ ।
5.28.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ७ ॥
दुःखं बतेदं मम दुःखिताया मासौ चिरायाधिगमिष्यतो द्वौ । बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य । ५.२८.७ ॥

duḥkhaṁ batedaṁ mama duḥkhitāyā māsau cirāyādhigamiṣyato dvau ।
baddhasya vadhyasya tathā niśānte rājāparādhādiva taskarasya ।
5.28.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ८ ॥
हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या । एषा विपद्याम्यहमल्पभाग्या माहार्णवे नौरिव मूढवाता । ५.२८.८ ॥

hā rāma hā lakṣmaṇa hā sumitre hā rāmamātaḥ saha me jananyā ।
eṣā vipadyāmyahamalpabhāgyā māhārṇave nauriva mūḍhavātā ।
5.28.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ९ ॥
तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ । नूनं विशस्तौ मम कारणात् तौ सिंहर्षभौ द्वाविव वैद्यतेन । ५.२८.९ ॥

tarasvinau dhārayatā mṛgasya sattvena rūpaṁ manujendraputrau ।
nūnaṁ viśastau mama kāraṇāt tau siṁharṣabhau dvāviva vaidyatena ।
5.28.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १० ॥
नूनं कालो मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम् । यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च । ५.२८.१० ॥

nūnaṁ sa kālo mṛgarūpadhārī māmalpabhāgyāṁ lulubhe tadānīm ।
yatrāryaputraṁ visasarja mūḍhā rāmānujaṁ lakṣmaṇapūrvajaṁ ca ।
5.28.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · ११ ॥
हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्र । रा जीवलोकस्य हितः प्रियश्च वध्यां मां वेत्सि हि राक्षसानाम् । ५.२८.११ ॥

hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavakra ।
rā jīvalokasya hitaḥ priyaśca vadhyāṁ na māṁ vetsi hi rākṣasānām ।
5.28.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १२ ॥
अनन्यदेवत्वमियं क्षमा भूमौ शय्या नियमश्च धर्मे । पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम् । ५.२८.१२ ॥

ananyadevatvamiyaṁ kṣamā ca bhūmau ca śayyā niyamaśca dharme ।
pativratātvaṁ viphalaṁ mamedaṁ kṛtaṁ kṛtaghneṣviva mānuṣāṇām ।
5.28.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १३ ॥
मोघो हि धर्मश्चरितो मया ऽयं तथैकपत्नीत्वमिदं निरर्थम् । या त्वां पश्यामि कृशा विवर्णा हीना त्वया सङ्गमने निराशा । ५.२८.१३ ॥

mogho hi dharmaścarito mayā 'yaṁ tathaikapatnītvamidaṁ nirartham ।
yā tvāṁ na paśyāmi kṛśā vivarṇā hīnā tvayā saṅgamane nirāśā ।
5.28.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १४ ॥
पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च । स्त्रीभिस्तु मन्ये विपुलेक्षणाभिस्त्वं रंस्यसे वीतभयः कृतार्थः । ५.२८.१४ ॥

piturnideśaṁ niyamena kṛtvā vanānnivṛttaścaritavrataśca ।
strībhistu manye vipulekṣaṇābhistvaṁ raṁsyase vītabhayaḥ kṛtārthaḥ ।
5.28.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १५ ॥
अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा । मोघं चरित्वा ऽथ तपोव्रतं त्यक्ष्यामि धिग् जीवितमल्पभाग्या । ५.२८.१५ ॥

ahaṁ tu rāma tvayi jātakāmā ciraṁ vināśāya nibaddhabhāvā ।
moghaṁ caritvā 'tha tapovrataṁ ca tyakṣyāmi dhig jīvitamalpabhāgyā ।
5.28.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १६ ॥
सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि । विषस्य दाता नहि मे ऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य । ५.२८.१६ ॥

sā jīvitaṁ kṣipramahaṁ tyajeyaṁ viṣeṇa śastreṇa śitena vāpi ।
viṣasya dātā nahi me 'sti kaścicchastrasya vā veśmani rākṣasasya ।
5.28.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १७ ॥
इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती । प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद । ५.२८.१७ ॥

itīva devī bahudhā vilapya sarvātmanā rāmamanusmarantī ।
pravepamānā pariśuṣkavaktrā nagottamaṁ puṣpitamāsasāda ।
5.28.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १८ ॥
शोकाभितप्ता बहुधा विचिन्त्य सीता ऽथ वेण्युद्ग्रथनं गृहीत्वा । उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम् । ५.२८.१८ ॥

śokābhitaptā bahudhā vicintya sītā 'tha veṇyudgrathanaṁ gṛhītvā ।
udbadhya veṇyudgrathanena śīghramahaṁ gamiṣyāmi yamasya mūlam ।
5.28.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · १९ ॥
उपस्थिता सा मृदुसर्वगात्रा शाखां गृहीत्वा ऽथ नगस्य तस्य । ५.२८.१९ ॥

upasthitā sā mṛdusarvagātrā śākhāṁ gṛhītvā 'tha nagasya tasya ।
5.28.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ५ · २८ · २० ॥
तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं कुलं शुभाङ्ग्याः । शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके । प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि । ५.२८.२० ॥

tasyāstu rāmaṁ pravicintayantyā rāmānujaṁ svaṁ ca kulaṁ śubhāṅgyāḥ ।
śokānimittāni tathā bahūni dhairyārjitāni pravarāṇi loke ।
prādurnimittāni tadā babhūvuḥ purāpi siddhānyupalakṣitāni ।
5.28.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.