वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ९० · ५५ श्लोकाःSarga 90 · 55 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ९० · १ ॥
युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नराक्षसौ । प्रभिन्नाविव मातङ्गौ परस्परवधैषिणौ । ६.९०.१ ॥

yudhyamānau tu tau dṛṣṭvā prasaktau narākṣasau ।
prabhinnāviva mātaṅgau parasparavadhaiṣiṇau ।
6.90.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २ ॥
तौ द्रष्टुकामः सङ्ग्रामे परस्परगतौ बली । शूरः रावणभ्राता तस्थौ सङ्ग्राममूर्धनि । ६.९०.२ ॥

tau draṣṭukāmaḥ saṅgrāme parasparagatau balī ।
śūraḥ sa rāvaṇabhrātā tasthau saṅgrāmamūrdhani ।
6.90.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३ ॥
ततो विस्फारयामास महद्धनुरवस्थितः । उत्ससर्ज तीक्ष्णाग्रान् राक्षसेषु महाशरान् । ६.९०.३ ॥

tato visphārayāmāsa mahaddhanuravasthitaḥ ।
utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān ।
6.90.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४ ॥
ते शराः शिखिसङ्काशा निपतन्तः समाहिताः । राक्षसान् दारयामासुर्वज्राणीव महागिरीन् । ६.९०.४ ॥

te śarāḥ śikhisaṅkāśā nipatantaḥ samāhitāḥ ।
rākṣasān dārayāmāsurvajrāṇīva mahāgirīn ।
6.90.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५ ॥
विभीषणस्यानुचरास्ते ऽपि शूलासिपट्टिशैः । चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः । ६.९०.५ ॥

vibhīṣaṇasyānucarāste 'pi śūlāsipaṭṭiśaiḥ ।
cicchiduḥ samare vīrān rākṣasān rākṣasottamāḥ ।
6.90.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ६ ॥
राक्षसैस्तैः परिवृतः तदा तु विभीषणः । बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः । ६.९०.६ ॥

rākṣasaistaiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ ।
babhau madhye prahṛṣṭānāṁ kalabhānāmiva dvipaḥ ।
6.90.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ७ ॥
ततः सञ्चोदयानो वै हरीन् रक्षो रणप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः । ६.९०.७ ॥

tataḥ sañcodayāno vai harīn rakṣo raṇapriyān ।
uvāca vacanaṁ kāle kālajño rakṣasāṁ varaḥ ।
6.90.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ८ ॥
एको ऽयं राक्षसेन्द्रस्य परायणमिव स्थितः । एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः । ६.९०.८ ॥

eko 'yaṁ rākṣasendrasya parāyaṇamiva sthitaḥ ।
etaccheṣaṁ balaṁ tasya kiṁ tiṣṭhata harīśvarāḥ ।
6.90.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ९ ॥
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु शेषमस्य हतं बलम् । ६.९०.९ ॥

asmin vinihate pāpe rākṣase raṇamūrdhani ।
rāvaṇaṁ varjayitvā tu śeṣamasya hataṁ balam ।
6.90.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १० ॥
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः । ६.९०.१० ॥

prahasto nihato vīro nikumbhaśca mahābalaḥ ।
kumbhakarṇaśca kumbhaśca dhūmrākṣaśca niśācaraḥ ।
6.90.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ११ ॥
जम्बुमाली महामाली तीक्ष्णवेगो ऽशनिप्रभः । सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः । ६.९०.११ ॥

jambumālī mahāmālī tīkṣṇavego 'śaniprabhaḥ ।
suptaghno yajñakopaśca vajradaṁṣṭraśca rākṣasaḥ ।
6.90.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १२ ॥
संह्रादी विकटो निघ्नस्तपनो दम एव च । प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च । ६.९०.१२ ॥

saṁhrādī vikaṭo nighnastapano dama eva ca ।
praghāsaḥ praghasaścaiva prajaṅgho jaṅgha eva ca ।
6.90.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १३ ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः । ६.९०.१३ ॥

agniketuśca durdharṣo raśmiketuśca vīryavān ।
vidyujjihvo dvijihvaśca sūryaśatruśca rākṣasaḥ ।
6.90.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १४ ॥
अकम्पनः सुपार्श्वश्च चक्रमाली राक्षसः । कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ । ६.९०.१४ ॥

akampanaḥ supārśvaśca cakramālī ca rākṣasaḥ ।
kampanaḥ sattvavantau tau devāntakanarāntakau ।
6.90.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १५ ॥
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् । बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु । ६.९०.१५ ॥

etānnihatyātibalān bahūn rākṣasasattamān ।
bāhubhyāṁ sāgaraṁ tīrtvā laṅghyatāṁ goṣpadaṁ laghu ।
6.90.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १६ ॥
एतावदेव शेषं वो जेतव्यमिह वानराः । हताः सर्वे समागम्य राक्षसा बलदर्पिताः । ६.९०.१६ ॥

etāvadeva śeṣaṁ vo jetavyamiha vānarāḥ ।
hatāḥ sarve samāgamya rākṣasā baladarpitāḥ ।
6.90.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १७ ॥
अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् । ६.९०.१७ ॥

ayuktaṁ nidhanaṁ kartuṁ putrasya janiturmama ।
ghṛṇāmapāsya rāmārthe nihanyāṁ bhrāturātmajam ।
6.90.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १८ ॥
हन्तुकामस्य मे बाष्पं चक्षुश्चैव निरुद्ध्यति । तमेवैष महाबाहुर्लक्ष्मणः शमयिष्यति । वानरा घ्नत सम्भूय भृत्यानस्य समीपगान् । ६.९०.१८ ॥

hantukāmasya me bāṣpaṁ cakṣuścaiva niruddhyati ।
tamevaiṣa mahābāhurlakṣmaṇaḥ śamayiṣyati ।
vānarā ghnata sambhūya bhṛtyānasya samīpagān ।
6.90.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · १९ ॥
इति तेनातियशसा राक्षसेनाभिचोदिताः । वानरेन्द्रा जहृषिरे लाङ्गूलानि विव्यधुः । ६.९०.१९ ॥

iti tenātiyaśasā rākṣasenābhicoditāḥ ।
vānarendrā jahṛṣire lāṅgūlāni ca vivyadhuḥ ।
6.90.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २० ॥
ततस्ते कपिशार्दूलाः क्ष्वेलन्तश्च मुहुर्मुहुः । मुमुचुर्विविधान्नादान् मेघान् दृष्ट्वेव बर्हिणः । ६.९०.२० ॥

tataste kapiśārdūlāḥ kṣvelantaśca muhurmuhuḥ ।
mumucurvividhānnādān meghān dṛṣṭveva barhiṇaḥ ।
6.90.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २१ ॥
जाम्बवानपि तैः सर्वैः स्वयूथैरपि संवृतः । अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् । ६.९०.२१ ॥

jāmbavānapi taiḥ sarvaiḥ svayūthairapi saṁvṛtaḥ ।
aśmabhistāḍayāmāsa nakhairdantaiśca rākṣasān ।
6.90.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २२ ॥
निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः । परिवव्रुभयं त्यक्त्वा तमनेकविधायुधाः । ६.९०.२२ ॥

nighnantamṛkṣādhipatiṁ rākṣasāste mahābalāḥ ।
parivavrubhayaṁ tyaktvā tamanekavidhāyudhāḥ ।
6.90.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २३ ॥
शरैः परशुभिस्तीक्ष्णैः पट्टिशैर्यष्टितोमरैः । जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् । ६.९०.२३ ॥

śaraiḥ paraśubhistīkṣṇaiḥ paṭṭiśairyaṣṭitomaraiḥ ।
jāmbavantaṁ mṛdhe jaghnurnighnantaṁ rākṣasīṁ camūm ।
6.90.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २४ ॥
सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । देवासुराणां क्रुद्धानां यथा भीमो महास्वनः । ६.९०.२४ ॥

sa samprahārastumulaḥ sañjajñe kapirakṣasām ।
devāsurāṇāṁ kruddhānāṁ yathā bhīmo mahāsvanaḥ ।
6.90.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २५ ॥
हनुमानपि सङ्क्रुद्धः सालमुत्पाट्य वीर्यवान् । रक्षसां कदनं चक्रे समासाद्य सहस्रशः । ६.९०.२५ ॥

hanumānapi saṅkruddhaḥ sālamutpāṭya vīryavān ।
rakṣasāṁ kadanaṁ cakre samāsādya sahasraśaḥ ।
6.90.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २६ ॥
दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि । लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत । ६.९०.२६ ॥

sa dattvā tumulaṁ yuddhaṁ pitṛvyasyendrajidyudhi ।
lakṣmaṇaṁ paravīraghnaṁ punarevābhyadhāvata ।
6.90.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २७ ॥
तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ । शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् । ६.९०.२७ ॥

tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau ।
śaraughānabhivarṣantau jaghnatustau parasparam ।
6.90.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २८ ॥
अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ । ६.९०.२८ ॥

abhīkṣṇamantardadhatuḥ śarajālairmahābalau ।
candrādityāvivoṣṇānte yathā meghaistarasvinau ।
6.90.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · २९ ॥
ह्यादानं सन्धानं धनुषो वा परिग्रहः । विप्रमोक्षो बाणानां विकर्षो विग्रहः । ६.९०.२९ ॥

na hyādānaṁ na sandhānaṁ dhanuṣo vā parigrahaḥ ।
na vipramokṣo bāṇānāṁ na vikarṣo na vigrahaḥ ।
6.90.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३० ॥
मुष्टिप्रतिसन्धानं लक्ष्यप्रतिपादनम् । अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् । ६.९०.३० ॥

na muṣṭipratisandhānaṁ na lakṣyapratipādanam ।
adṛśyata tayostatra yudhyatoḥ pāṇilāghavāt ।
6.90.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३१ ॥
चापवेगविनिर्मुक्तबाणजालैः समन्ततः । अन्तरिक्षे हि सञ्छन्ने रूपाणि चकाशिरे । ६.९०.३१ ॥

cāpavegavinirmuktabāṇajālaiḥ samantataḥ ।
antarikṣe hi sañchanne na rūpāṇi cakāśire ।
6.90.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३२ ॥
लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् । अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे । ६.९०.३२ ॥

lakṣmaṇo rāvaṇiṁ prāpya rāvaṇiścāpi lakṣmaṇam ।
avyavasthā bhavatyugrā tābhyāmanyonyavigrahe ।
6.90.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३३ ॥
ताभ्यामुभाभ्यां तरसा विसृष्टैर्विशिखैः शितैः । निरन्तरमिवाकाशं बभूव तमसावृतम् । ६.९०.३३ ॥

tābhyāmubhābhyāṁ tarasā visṛṣṭairviśikhaiḥ śitaiḥ ।
nirantaramivākāśaṁ babhūva tamasāvṛtam ।
6.90.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३४ ॥
तैः पतद्भिश्च बहुभिस्तयोः शरशतैः शितैः । दिशश्च प्रदिशश्चैव बभूवुः शरसङ्कुलाः । ६.९०.३४ ॥

taiḥ patadbhiśca bahubhistayoḥ śaraśataiḥ śitaiḥ ।
diśaśca pradiśaścaiva babhūvuḥ śarasaṅkulāḥ ।
6.90.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३५ ॥
तमसा संवृतं सर्वमासीद्भीमतरं महत् । अस्तं गते सहस्रांशौ संवृतं तमसेव हि । ६.९०.३५ ॥

tamasā saṁvṛtaṁ sarvamāsīdbhīmataraṁ mahat ।
astaṁ gate sahasrāṁśau saṁvṛtaṁ tamaseva hi ।
6.90.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३६ ॥
रुधिरौघमहानद्यः प्रावर्तन्त सहस्रशः । क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिस्वनम् । ६.९०.३६ ॥

rudhiraughamahānadyaḥ prāvartanta sahasraśaḥ ।
kravyādā dāruṇā vāgbhiścikṣipurbhīmanisvanam ।
6.90.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३७ ॥
तदानीं ववौ वायुर्न जज्वाल पावकः । स्वस्त्यस्तु लोकेभ्य इति जजल्पुश्च महर्षयः । ६.९०.३७ ॥

na tadānīṁ vavau vāyurna ca jajvāla pāvakaḥ ।
svastyastu lokebhya iti jajalpuśca maharṣayaḥ ।
6.90.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३८ ॥
सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः । ६.९०.३८ ॥

sampetuścātra samprāptā gandharvāḥ saha cāraṇaiḥ ।
6.90.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ३९ ॥
अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् । शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् । ६.९०.३९ ॥

atha rākṣasasiṁhasya kṛṣṇān kanakabhūṣaṇān ।
śaraiścaturbhiḥ saumitrirvivyādha caturo hayān ।
6.90.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४० ॥
ततो ऽपरेण भल्लेन शितेन निशितेन च । सम्पूर्णायतमुक्तेन सुपत्रेण सुवर्चसा । ६.९०.४० ॥

tato 'pareṇa bhallena śitena niśitena ca ।
sampūrṇāyatamuktena supatreṇa suvarcasā ।
6.90.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४१ ॥
महेन्द्राशनिकल्पेन सुतस्य विचरिष्यतः । तेन बाणाशनिना तलशब्दानुनादिना । ६.९०.४१ ॥

mahendrāśanikalpena sutasya vicariṣyataḥ ।
sa tena bāṇāśaninā talaśabdānunādinā ।
6.90.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४२ ॥
लाघवाद्राघवः श्रीमान् शिरः कायादपाहरत् । ६.९०.४२ ॥

lāghavādrāghavaḥ śrīmān śiraḥ kāyādapāharat ।
6.90.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४३ ॥
यन्तरि महातेजा हते मन्दोदरीसुतः । ६.९०.४३ ॥

sa yantari mahātejā hate mandodarīsutaḥ ।
6.90.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४४ ॥
स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत् । तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि । ६.९०.४४ ॥

svayaṁ sārathyamakarot punaśca dhanuraspṛśat ।
tadadbhutamabhūttatra sāmarthyaṁ paśyatāṁ yudhi ।
6.90.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४५ ॥
हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः । धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् । ६.९०.४५ ॥

hayeṣu vyagrahastaṁ taṁ vivyādha niśitaiḥ śaraiḥ ।
dhanuṣyatha punarvyagre hayeṣu mumuce śarān ।
6.90.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४६ ॥
छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः । अर्दयामास बाणौघैर्विचरन्तमभीतवत् । ६.९०.४६ ॥

chidreṣu teṣu bāṇeṣu saumitriḥ śīghravikramaḥ ।
ardayāmāsa bāṇaughairvicarantamabhītavat ।
6.90.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४७ ॥
निहतं सारथिं दृष्ट्वा समरे रावणात्मजः । प्रजहौ समरोद्धर्षं विषण्णः बभूव ह । ६.९०.४७ ॥

nihataṁ sārathiṁ dṛṣṭvā samare rāvaṇātmajaḥ ।
prajahau samaroddharṣaṁ viṣaṇṇaḥ sa babhūva ha ।
6.90.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४८ ॥
विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः । ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् । ६.९०.४८ ॥

viṣaṇṇavadanaṁ dṛṣṭvā rākṣasaṁ hariyūthapāḥ ।
tataḥ paramasaṁhṛṣṭā lakṣmaṇaṁ cābhyapūjayan ।
6.90.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ४९ ॥
ततः प्रमाथी शरभो रभसो गन्धमादनः । अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः । ६.९०.४९ ॥

tataḥ pramāthī śarabho rabhaso gandhamādanaḥ ।
amṛṣyamāṇāścatvāraścakrurvegaṁ harīśvarāḥ ।
6.90.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५० ॥
ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः । चतुर्षु समहावीर्या निपेतुर्भीमविक्रमाः । ६.९०.५० ॥

te cāsya hayamukhyeṣu tūrṇamutplutya vānarāḥ ।
caturṣu samahāvīryā nipeturbhīmavikramāḥ ।
6.90.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५१ ॥
तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः । मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत । ६.९०.५१ ॥

teṣāmadhiṣṭhitānāṁ tairvānaraiḥ parvatopamaiḥ ।
mukhebhyo rudhiraṁ raktaṁ hayānāṁ samavartata ।
6.90.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५२ ॥
ते हया मथिता भग्ना व्यसवो धरणीं गताः । ते निहत्य हयांस्तस्य प्रमथ्य महारथम् । ६.९०.५२ ॥

te hayā mathitā bhagnā vyasavo dharaṇīṁ gatāḥ ।
te nihatya hayāṁstasya pramathya ca mahāratham ।
6.90.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५३ ॥
पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः । हताश्वादवप्लुत्य रथान्मथितसारथेः । शरवर्षेण सौमित्रिमभ्यधावत रावणिः । ६.९०.५३ ॥

punarutpatya vegena tasthurlakṣmaṇapārśvataḥ ।
sa hatāśvādavaplutya rathānmathitasāratheḥ ।
śaravarṣeṇa saumitrimabhyadhāvata rāvaṇiḥ ।
6.90.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५४ ॥
ततो महेन्द्रप्रतिमः लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः । सृजन्तमाजौ निशितान् शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् । ६.९०.५४ ॥

tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṁ taṁ niśitaiḥ śarottamaiḥ ।
sṛjantamājau niśitān śarottamān bhṛśaṁ tadā bāṇagaṇairnyavārayat ।
6.90.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ९० · ५५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवतितमः सर्गः । ९० ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe navatitamaḥ sargaḥ ।
90 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.