वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ८३ · ४५ श्लोकाःSarga 83 · 45 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ८३ · १ ॥
राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह । ६.८३.१ ॥

rāghavaścāpi vipulaṁ taṁ rākṣasavanaukasām ।
śrutvā saṅgrāmanirghoṣaṁ jāmbavantamuvāca ha ।
6.83.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २ ॥
सौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः । ६.८३.२ ॥

saumya nūnaṁ hanumatā kriyate karma duṣkaram ।
śrūyate hi yathā bhīmaḥ sumahānāyudhasvanaḥ ।
6.83.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३ ॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः । ६.८३.३ ॥

tadgaccha kuru sāhāyyaṁ svabalenābhisaṁvṛtaḥ ।
kṣipramṛkṣapate tasya kapiśreṣṭhasya yudhyataḥ ।
6.83.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४ ॥
ऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः । आगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः । ६.८३.४ ॥

ṛkṣārājastathoktastu svenānīkena saṁvṛtaḥ ।
āgacchat paścimaṁ dvāraṁ hanumān yatra vānaraḥ ।
6.83.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ५ ॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् । ६.८३.५ ॥

athāyāntaṁ hanūmantaṁ dadarśarkṣapatiḥ pathi ।
vānaraiḥ kṛtasaṅgrāmaiḥ śvasadbhirabhisaṁvṛtam ।
6.83.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ६ ॥
दृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । नीलमेघनिभं भीमं सन्निवार्य न्यवर्तत । ६.८३.६ ॥

dṛṣṭvā pathi hanūmāṁśca tadṛkṣabalamudyatam ।
nīlameghanibhaṁ bhīmaṁ sannivārya nyavartata ।
6.83.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ७ ॥
तेन हरिसैन्येन सन्निकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् । ६.८३.७ ॥

sa tena harisainyena sannikarṣaṁ mahāyaśāḥ ।
śīghramāgamya rāmāya duḥkhito vākyamabravīt ।
6.83.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ८ ॥
समरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः । जघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः । ६.८३.८ ॥

samare yuddhyamānānāmasmākaṁ prekṣatāṁ puraḥ ।
jaghāna rudatīṁ sītāmindrijidrāvaṇātmajaḥ ।
6.83.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ९ ॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णो ऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः । ६.८३.९ ॥

udbhrāntacittastāṁ dṛṣṭvā viṣaṇṇo 'hamarindama ।
tadahaṁ bhavato vṛttaṁ vijñāpayitumāgataḥ ।
6.83.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १० ॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः । ६.८३.१० ॥

tasya tadvacanaṁ śrutvā rāghavaḥ śokamūrcchitaḥ ।
nipapāta tadā bhūmau chinnamūla iva drumaḥ ।
6.83.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ११ ॥
तं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः । ६.८३.११ ॥

taṁ bhūmau devasaṅkāśaṁ patitaṁ prekṣya rāghavam ।
abhipetuḥ samutpatya sarvataḥ kapisattamāḥ ।
6.83.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १२ ॥
असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमनासाद्यं सहसा ऽग्निमिवोच्छिखम् । ६.८३.१२ ॥

asiñcan salilaiścainaṁ padmotpalasugandhibhiḥ ।
pradahantamanāsādyaṁ sahasā 'gnimivocchikham ।
6.83.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १३ ॥
तं लक्ष्मणो ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् । ६.८३.१३ ॥

taṁ lakṣmaṇo 'tha bāhubhyāṁ pariṣvajya suduḥkhitaḥ ।
uvāca rāmamasvasthaṁ vākyaṁ hetvarthasaṁyutam ।
6.83.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १४ ॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । अनर्थेभ्यो शक्नोति त्रातुं धर्मो निरर्थकः । ६.८३.१४ ॥

śubhe vartmani tiṣṭhantaṁ tvāmārya vijitendriyam ।
anarthebhyo na śaknoti trātuṁ dharmo nirarthakaḥ ।
6.83.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १५ ॥
भूतानां स्थावराणां जङ्गमानां दर्शनम् । यथा ऽस्ति तथा धर्मस्तेन नास्तीति मे मतिः । ६.८३.१५ ॥

bhūtānāṁ sthāvarāṇāṁ ca jaṅgamānāṁ ca darśanam ।
yathā 'sti na tathā dharmastena nāstīti me matiḥ ।
6.83.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १६ ॥
यथैव स्थावरं व्यक्तं जङ्गमं तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो विपद्यते । ६.८३.१६ ॥

yathaiva sthāvaraṁ vyaktaṁ jaṅgamaṁ ca tathāvidham ।
nāyamarthastathā yuktastvadvidho na vipadyate ।
6.83.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १७ ॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् । ६.८३.१७ ॥

yadyadharmo bhavedbhūto rāvaṇo narakaṁ vrajet ।
bhavāṁśca dharmayukto vai naivaṁ vyasanamāpnuyāt ।
6.83.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १८ ॥
तस्य व्यसनाभावाद् व्यसनं गते त्वयि । धर्मो भवत्यधर्मश्च परस्परविरोधिनौ । ६.८३.१८ ॥

tasya ca vyasanābhāvād vyasanaṁ ca gate tvayi ।
dharmo bhavatyadharmaśca parasparavirodhinau ।
6.83.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · १९ ॥
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः । ६.८३.१९ ॥

dharmeṇopalabheddharmamadharmaṁ cāpyadharmataḥ ।
yadyadharmeṇa yujyeyuryeṣvadharmaḥ pratiṣṭhitaḥ ।
6.83.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २० ॥
यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् । ६.८३.२० ॥

yadi dharmeṇa yujyerannādharmarucayo janāḥ ।
dharmeṇa caratāṁ dharmastathā caiṣāṁ phalaṁ bhavet ।
6.83.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २१ ॥
यस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ । ६.८३.२१ ॥

yasmādarthā vivardhante yeṣvadharmaḥ patiṣṭhitaḥ ।
kliśyante dharmaśīlāśca tasmādetau nirarthakau ।
6.83.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २२ ॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्म हतो ऽधर्मः हतः कं वधिष्यति । ६.८३.२२ ॥

vadhyante pāpakarmāṇo yadyadharmeṇa rāghava ।
vadhakarma hato 'dharmaḥ sa hataḥ kaṁ vadhiṣyati ।
6.83.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २३ ॥
अथवा विहितेनायं हन्यते हन्ति वा परम् । विधिरालिप्यते तेन पापेन कर्मणा । ६.८३.२३ ॥

athavā vihitenāyaṁ hanyate hanti vā param ।
vidhirālipyate tena na sa pāpena karmaṇā ।
6.83.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २४ ॥
अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन । ६.८३.२४ ॥

adṛṣṭapratikāreṇa tvavyaktenāsatā satā ।
kathaṁ śakyaṁ paraṁ prāptuṁ dharmeṇārivikarśana ।
6.83.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २५ ॥
यदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन । त्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते । ६.८३.२५ ॥

yadi sat syāt satāṁ mukhya nāsat syāttava kiñcana ।
tvayā yadīdṛśaṁ prāptaṁ tasmāt sannopapadyate ।
6.83.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २६ ॥
अथवा दुर्बलः क्लीबो बलं धर्मो ऽनुवर्तते । दुर्बलो हृतमर्यादो सेव्य इति मे मतिः । ६.८३.२६ ॥

athavā durbalaḥ klībo balaṁ dharmo 'nuvartate ।
durbalo hṛtamaryādo na sevya iti me matiḥ ।
6.83.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २७ ॥
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले । ६.८३.२७ ॥

balasya yadi ceddharmo guṇabhūtaḥ parākrame ।
dharmamutsṛjya vartasva yathā dharme tathā bale ।
6.83.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २८ ॥
अथ चेत् सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं बद्धस्त्वया पिता । ६.८३.२८ ॥

atha cet satyavacanaṁ dharmaḥ kila parantapa ।
anṛtastvayyakaruṇaḥ kiṁ na baddhastvayā pitā ।
6.83.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · २९ ॥
यदि धर्मो भवेद्भूतो अधर्मो वा परन्तप । स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः । ६.८३.२९ ॥

yadi dharmo bhavedbhūto adharmo vā parantapa ।
na sma hatvā muniṁ vajrī kuryādijyāṁ śatakratuḥ ।
6.83.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३० ॥
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः । ६.८३.३० ॥

adharmasaṁśrito dharmo vināśayati rāghava ।
sarvametadyathākāmaṁ kākutstha kurute naraḥ ।
6.83.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३१ ॥
मम चेदं मतं तात धर्मो ऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा । ६.८३.३१ ॥

mama cedaṁ mataṁ tāta dharmo 'yamiti rāghava ।
dharmamūlaṁ tvayā chinnaṁ rājyamutsṛjatā tadā ।
6.83.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३२ ॥
अर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः । ६.८३.३२ ॥

arthebhyo hi vivṛddhebhyaḥ saṁvṛttebhyastatastataḥ ।
kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ ।
6.83.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३३ ॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा । ६.८३.३३ ॥

arthena hi viyuktasya puruṣasyālpatejasaḥ ।
vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā ।
6.83.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३४ ॥
सो ऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमारभते कर्तुं ततो दोषः प्रवर्तते । ६.८३.३४ ॥

so 'yamarthaṁ parityajya sukhakāmaḥ sukhaidhitaḥ ।
pāpamārabhate kartuṁ tato doṣaḥ pravartate ।
6.83.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३५ ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः पुमान् लोके यस्यार्थाः पण्डितः । ६.८३.३५ ॥

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ ।
yasyārthāḥ sa pumān loke yasyārthāḥ sa ca paṇḍitaḥ ।
6.83.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३६ ॥
यस्यार्थाः विक्रान्तो यस्यार्थाः बुद्धिमान् । यस्यार्थाः महाभागो यस्यार्थाः महागुणः । ६.८३.३६ ॥

yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān ।
yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ ।
6.83.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३७ ॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता । ६.८३.३७ ॥

arthasyaite parityāge doṣāḥ pravyāhṛtā mayā ।
rājyamutsṛjatā vīra yena buddhistvayā kṛtā ।
6.83.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३८ ॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता । ६.८३.३८ ॥

yasyārthā dharmakāmārthāstasya sarvaṁ pradakṣiṇam ।
adhanenārthakāmena nārthaḥ śakyo vicinvatā ।
6.83.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ३९ ॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप । ६.८३.३९ ॥

harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ ।
arthādetāni sarvāṇi pravartante narādhipa ।
6.83.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४० ॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । ते ऽर्थास्त्वयि दृश्यन्ते दुर्दिनेषु यथा ग्रहाः । ६.८३.४० ॥

yeṣāṁ naśyatyayaṁ lokaścaratāṁ dharmacāriṇām ।
te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ ।
6.83.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४१ ॥
त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते । रक्षसा ऽपहृता भार्या प्राणैः प्रियतरा तव । ६.८३.४१ ॥

tvayi pravrajite vīra gurośca vacane sthite ।
rakṣasā 'pahṛtā bhāryā prāṇaiḥ priyatarā tava ।
6.83.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४२ ॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव । ६.८३.४२ ॥

tadadya vipulaṁ vīra duḥkhamindrajitā kṛtam ।
karmaṇā vyapaneṣyāmi tasmāduttiṣṭha rāghava ।
6.83.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४३ ॥
उत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत । किमात्मानं महात्मानमात्मानं नावबुध्यसे । ६.८३.४३ ॥

uttiṣṭha naraśārdūla dīrghavāho dṛḍhavrata ।
kimātmānaṁ mahātmānamātmānaṁ nāvabudhyase ।
6.83.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४४ ॥
अयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः । सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् । ६.८३.४४ ॥

ayamanagha tavoditaḥ priyārthaṁ janakasutānidhanaṁ nirīkṣya ruṣṭaḥ ।
sahayagajarathāṁ sarākṣasendrāṁ bhṛśamiṣubhirvinipātayāmi laṅkām ।
6.83.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८३ · ४५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्यशीतितमः सर्गः । ८३ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe tryaśītitamaḥ sargaḥ ।
83 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.