वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ८१ · ३७ श्लोकाःSarga 81 · 37 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ८१ · १ ॥
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सन्निवृत्याहवात्तस्मात् संविवेश पुरं ततः । ६.८१.१ ॥

vijñāya tu manastasya rāghavasya mahātmanaḥ ।
sannivṛtyāhavāttasmāt saṁviveśa puraṁ tataḥ ।
6.81.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २ ॥
सो ऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः । ६.८१.२ ॥

so 'nusmṛtya vadhaṁ teṣāṁ rākṣasānāṁ tarasvinām ।
krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ ।
6.81.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३ ॥
पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः । ६.८१.३ ॥

sa paścimena dvāreṇa niryayau rākṣasairvṛtaḥ ।
indrajittu mahāvīryaḥ paulastyo devakaṇṭakaḥ ।
6.81.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ४ ॥
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा । ६.८१.४ ॥

indrajittu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau ।
raṇāyābhyudyatau vīrau māyāṁ prāduṣkarottadā ।
6.81.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ५ ॥
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः । बलेन महता ऽवृत्य तस्या वधमरोचयत् । ६.८१.५ ॥

indrajittu rathe sthāpya sītāṁ māyāmayīṁ tataḥ ।
balena mahatā ' 'vṛtya tasyā vadhamarocayat ।
6.81.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ६ ॥
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ । ६.८१.६ ॥

mohanārthaṁ tu sarveṣāṁ buddhiṁ kṛtvā sudurmatiḥ ।
hantuṁ sītāṁ vyavasito vānarābhimukho yayau ।
6.81.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ७ ॥
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः । उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः । ६.८१.७ ॥

taṁ dṛṣṭvā tvabhiniryāntaṁ nagaryāḥ kānanaukasaḥ ।
utpeturabhisaṅkruddhāḥ śilāhastā yuyutsavaḥ ।
6.81.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ८ ॥
हनुमान् पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् । ६.८१.८ ॥

hanumān puratasteṣāṁ jagāma kapikuñjaraḥ ।
pragṛhya sumahacchṛṅgaṁ parvatasya durāsadam ।
6.81.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ९ ॥
ददर्श हतानन्दां सीतामिन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् । ६.८१.९ ॥

sa dadarśa hatānandāṁ sītāmindrajito rathe ।
ekaveṇīdharāṁ dīnāmupavāsakṛśānanām ।
6.81.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १० ॥
परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् । ६.८१.१० ॥

parikliṣṭaikavasanāmamṛjāṁ rāghavapriyām ।
rajomalābhyāmāliptaiḥ sarvagātrairvarastriyam ।
6.81.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ११ ॥
तां निरीक्ष्य मुहूर्तं तु मैथिलीत्यध्यवस्य तु । बभूवाचिरदृष्टा हि तेन सा जनकात्मजा । ६.८१.११ ॥

tāṁ nirīkṣya muhūrtaṁ tu maithilītyadhyavasya tu ।
babhūvāciradṛṣṭā hi tena sā janakātmajā ।
6.81.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १२ ॥
तां दीनां मलदिग्धाङ्गीं रथस्थां दृश्य मैथिलीम् । बाष्पपर्याकुलमुखो हनुमान् व्यथितो ऽभवत् । ६.८१.१२ ॥

tāṁ dīnāṁ maladigdhāṅgīṁ rathasthāṁ dṛśya maithilīm ।
bāṣpaparyākulamukho hanumān vyathito 'bhavat ।
6.81.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १३ ॥
अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनीम् । सीतां रथस्थितां दृष्ट्वा राक्षसेन्द्रसुताश्रिताम् । किं समर्थितमस्येति चिन्तयन् महाकपिः । ६.८१.१३ ॥

abravīttāṁ tu śokārtāṁ nirānandāṁ tapasvinīm ।
sītāṁ rathasthitāṁ dṛṣṭvā rākṣasendrasutāśritām ।
kiṁ samarthitamasyeti cintayan sa mahākapiḥ ।
6.81.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १४ ॥
सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् । ६.८१.१४ ॥

saha tairvānaraśreṣṭhairabhyadhāvata rāvaṇim ।
6.81.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १५ ॥
तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्च्छितः । कृत्वा विकोशं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् । ६.८१.१५ ॥

tadvānarabalaṁ dṛṣṭvā rāvaṇiḥ krodhamūrcchitaḥ ।
kṛtvā vikośaṁ nistriṁśaṁ mūrdhni sītāṁ parāmṛśat ।
6.81.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १६ ॥
तां स्त्रियं पश्यतां तेषां ताडयामास रावणिः । क्रोशन्तीं राम रामेति मायया योजितां रथे । ६.८१.१६ ॥

tāṁ striyaṁ paśyatāṁ teṣāṁ tāḍayāmāsa rāvaṇiḥ ।
krośantīṁ rāma rāmeti māyayā yojitāṁ rathe ।
6.81.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १७ ॥
गृहीतमूर्धजां दृष्ट्वा हनुमान् दैन्यमागतः । शोकजं वारि नैत्राभ्यामसृजन्मारुतात्मजः । ६.८१.१७ ॥

gṛhītamūrdhajāṁ dṛṣṭvā hanumān dainyamāgataḥ ।
śokajaṁ vāri naitrābhyāmasṛjanmārutātmajaḥ ।
6.81.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १८ ॥
तां दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् । अब्रवीत् परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् । ६.८१.१८ ॥

tāṁ dṛṣṭvā cārusarvāṅgīṁ rāmasya mahiṣīṁ priyām ।
abravīt paruṣaṁ vākyaṁ krodhādrakṣodhipātmajam ।
6.81.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · १९ ॥
दुरात्मन्नात्मनाशाय केशपक्षे परामृशः । ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः । ६.८१.१९ ॥

durātmannātmanāśāya keśapakṣe parāmṛśaḥ ।
brahmarṣīṇāṁ kule jāto rākṣasīṁ yonimāśritaḥ ।
6.81.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २० ॥
धिक् त्वां पापसमाचारं यस्य ते मतिरीदृशी । ६.८१.२० ॥

dhik tvāṁ pāpasamācāraṁ yasya te matirīdṛśī ।
6.81.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २१ ॥
नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम । अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण । ६.८१.२१ ॥

nṛśaṁsānārya durvṛtta kṣudra pāpaparākrama ।
anāryasyedṛśaṁ karma ghṛṇā te nāsti nirghṛṇa ।
6.81.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २२ ॥
च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली । किं तवैषा ऽपराद्धा हि यदेनां हन्तुमिच्छसि । ६.८१.२२ ॥

cyutā gṛhācca rājyācca rāmahastācca maithilī ।
kiṁ tavaiṣā 'parāddhā hi yadenāṁ hantumicchasi ।
6.81.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २३ ॥
सीतां हत्वा चिरं जीविष्यसि कथञ्चन । वधार्ह कर्मणा ऽनेन मम हस्तगतो ह्यसि । ६.८१.२३ ॥

sītāṁ ca hatvā na ciraṁ jīviṣyasi kathañcana ।
vadhārha karmaṇā 'nena mama hastagato hyasi ।
6.81.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २४ ॥
ये स्त्रीघातिनां लोका लोकवध्येषु कुत्सिताः । इह जिवितमुत्सृज्य प्रेत्य तान् प्रतिपत्स्यसे । ६.८१.२४ ॥

ye ca strīghātināṁ lokā lokavadhyeṣu kutsitāḥ ।
iha jivitamutsṛjya pretya tān pratipatsyase ।
6.81.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २५ ॥
इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः । अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति । ६.८१.२५ ॥

iti bruvāṇo hanumān sāyudhairharibhirvṛtaḥ ।
abhyadhāvata saṅkruddho rākṣasendrasutaṁ prati ।
6.81.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २६ ॥
आपतन्तं महावीर्यं तदनीकं वनौकसाम् । रक्षसां भीमवेगानामनीकं तु न्यवारयत् । ६.८१.२६ ॥

āpatantaṁ mahāvīryaṁ tadanīkaṁ vanaukasām ।
rakṣasāṁ bhīmavegānāmanīkaṁ tu nyavārayat ।
6.81.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २७ ॥
तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् । हरिश्रेष्ठं हनूमन्तमिन्द्रजित् प्रत्युवाच ह । ६.८१.२७ ॥

sa tāṁ bāṇasahasreṇa vikṣobhya harivāhinīm ।
hariśreṣṭhaṁ hanūmantamindrajit pratyuvāca ha ।
6.81.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २८ ॥
सुग्रीवस्त्वं रामश्च यन्निमित्तमिहागताः । तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः । ६.८१.२८ ॥

sugrīvastvaṁ ca rāmaśca yannimittamihāgatāḥ ।
tāṁ haniṣyāmi vaidehīmadyaiva tava paśyataḥ ।
6.81.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · २९ ॥
इमां हत्वा ततो रामं लक्ष्मणं त्वां वानर । सुग्रीवं वधिष्यामि तं चानार्यं विभीषणम् । ६.८१.२९ ॥

imāṁ hatvā tato rāmaṁ lakṣmaṇaṁ tvāṁ ca vānara ।
sugrīvaṁ ca vadhiṣyāmi taṁ cānāryaṁ vibhīṣaṇam ।
6.81.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३० ॥
हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम । पीडाकरममित्राणां यत् स्यात् कर्तव्यमेव तत् । ६.८१.३० ॥

na hantavyāḥ striyaśceti yadbravīṣi plavaṅgama ।
pīḍākaramamitrāṇāṁ yat syāt kartavyameva tat ।
6.81.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३१ ॥
तमेवमुक्त्वा रुदतीं सीतां मायामयीं तदा । शितधारेण खड्गेन निजघानेन्द्रजित् स्वयम् । ६.८१.३१ ॥

tamevamuktvā rudatīṁ sītāṁ māyāmayīṁ tadā ।
śitadhāreṇa khaḍgena nijaghānendrajit svayam ।
6.81.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३२ ॥
यज्ञोपवीतमार्गेण भिन्ना तेन तपस्विनी । सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना । तामिन्द्रजित्स्वयं हत्वा हनुमन्तमुवाच ह । ६.८१.३२ ॥

yajñopavītamārgeṇa bhinnā tena tapasvinī ।
sā pṛthivyāṁ pṛthuśroṇī papāta priyadarśanā ।
tāmindrajitsvayaṁ hatvā hanumantamuvāca ha ।
6.81.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३३ ॥
मया रामस्य पश्येमां कोपेन निषूदिताम् । एषा विशस्ता वैदेही विफलो वः परिश्रमः । ६.८१.३३ ॥

mayā rāmasya paśyemāṁ kopena ca niṣūditām ।
eṣā viśastā vaidehī viphalo vaḥ pariśramaḥ ।
6.81.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३४ ॥
ततः खड्गेन महता हत्वा तामिन्द्रिजित् स्वयम् । हृष्टः रथमास्थाय विननाद महास्वनम् । ६.८१.३४ ॥

tataḥ khaḍgena mahatā hatvā tāmindrijit svayam ।
hṛṣṭaḥ sa rathamāsthāya vinanāda mahāsvanam ।
6.81.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३५ ॥
वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तहुर्गं संश्रितस्य च । ६.८१.३५ ॥

vānarāḥ śuśruvuḥ śabdamadūre pratyavasthitāḥ ।
vyāditāsyasya nadatastahurgaṁ saṁśritasya ca ।
6.81.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३६ ॥
तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः सहसा प्रदुद्रुवुः । ६.८१.३६ ॥

tathā tu sītāṁ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ ।
taṁ hṛṣṭarūpaṁ samudīkṣya vānarā viṣaṇṇarūpāḥ sahasā pradudruvuḥ ।
6.81.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ८१ · ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकाशीतितमः सर्गः । ८१ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ekāśītitamaḥ sargaḥ ।
81 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.