वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ७५ · ७१ श्लोकाःSarga 75 · 71 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ७५ · १ ॥
ततो ऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः । अर्थ्यं विज्ञापयंश्चापि हनुमन्तमिदं वचः । ६.७५.१ ॥

tato 'bravīnmahātejāḥ sugrīvo vānarādhipaḥ ।
arthyaṁ vijñāpayaṁścāpi hanumantamidaṁ vacaḥ ।
6.75.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २ ॥
यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीमुपनिर्हारं रावणो दातुमर्हति । ६.७५.२ ॥

yato hataḥ kumbhakarṇaḥ kumārāśca niṣūditāḥ ।
nedānīmupanirhāraṁ rāvaṇo dātumarhati ।
6.75.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३ ॥
ये ये महाबलाः सन्ति लघवश्च प्लवङ्गमाः । लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः । ६.७५.३ ॥

ye ye mahābalāḥ santi laghavaśca plavaṅgamāḥ ।
laṅkāmabhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ ।
6.75.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४ ॥
ततो ऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे । लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः । ६.७५.४ ॥

tato 'staṁ gata āditye raudre tasminniśāmukhe ।
laṅkāmabhimukhāḥ solkā jagmuste plavagarṣabhāḥ ।
6.75.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५ ॥
उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः । आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः । ६.७५.५ ॥

ulkāhastairharigaṇaiḥ sarvataḥ samabhidrutāḥ ।
ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ ।
6.75.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६ ॥
गोपुराट्टप्रतोलीषु चर्यासु विविधासु च । प्रासादेषु संहृष्टाः ससृजुस्ते हुताशनम् । तेषां गृहसस्राणि ददाह हुतभुक् तदा । ६.७५.६ ॥

gopurāṭṭapratolīṣu caryāsu vividhāsu ca ।
prāsādeṣu ca saṁhṛṣṭāḥ sasṛjuste hutāśanam ।
teṣāṁ gṛhasasrāṇi dadāha hutabhuk tadā ।
6.75.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ७ ॥
प्रासादाः पर्वताकाराः पतन्ति धरणीतले । अगरुर्दह्यते तत्र वर हरिचन्दनम् । ६.७५.७ ॥

prāsādāḥ parvatākārāḥ patanti dharaṇītale ।
agarurdahyate tatra vara ca haricandanam ।
6.75.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ८ ॥
मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् । क्षौमं दह्यते तत्र कौशेयं चापि शोभनम् । ६.७५.८ ॥

mauktikā maṇayaḥ snigdhā vajraṁ cāpi pravālakam ।
kṣaumaṁ ca dahyate tatra kauśeyaṁ cāpi śobhanam ।
6.75.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ९ ॥
आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् । नानाविकृतसंस्थानं वाजिभाण्डपरिच्छदौ । ६.७५.९ ॥

āvikaṁ vividhaṁ caurṇaṁ kāñcanaṁ bhāṇḍamāyudham ।
nānāvikṛtasaṁsthānaṁ vājibhāṇḍaparicchadau ।
6.75.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १० ॥
गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । तनुत्राणि योधानां हस्त्यश्वानां वर्म च । ६.७५.१० ॥

gajagraiveyakakṣyāśca rathabhāṇḍāśca saṁskṛtāḥ ।
tanutrāṇi ca yodhānāṁ hastyaśvānāṁ ca varma ca ।
6.75.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ११ ॥
खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः । रोमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु । ६.७५.११ ॥

khaḍgā dhanūṁṣi jyābāṇāstomarāṅkuśaśaktayaḥ ।
romajaṁ vālajaṁ carma vyāghrajaṁ cāṇḍajaṁ bahu ।
6.75.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १२ ॥
मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः । विविधानस्त्रसंयोगानग्निर्दहति तत्र वै । ६.७५.१२ ॥

muktāmaṇivicitrāṁśca prāsādāṁśca samantataḥ ।
vividhānastrasaṁyogānagnirdahati tatra vai ।
6.75.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १३ ॥
नानाविधान् गृहच्छन्दान् ददाह हुतभूक् तदा । आवासान् राक्षसानां सर्वेषां गृहगर्धिनाम् । ६.७५.१३ ॥

nānāvidhān gṛhacchandān dadāha hutabhūk tadā ।
āvāsān rākṣasānāṁ ca sarveṣāṁ gṛhagardhinām ।
6.75.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १४ ॥
हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम् । शीधुपानचलाक्षाणां मदविह्वलगामिनाम् । ६.७५.१४ ॥

hemacitratanutrāṇāṁ sragdāmāmbaradhāriṇām ।
śīdhupānacalākṣāṇāṁ madavihvalagāminām ।
6.75.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १५ ॥
कान्तालम्बितवस्त्राणां शत्रुसञ्जातमन्युनाम् । गदाशूलासिहस्तानां खादतां पिबतामपि । ६.७५.१५ ॥

kāntālambitavastrāṇāṁ śatrusañjātamanyunām ।
gadāśūlāsihastānāṁ khādatāṁ pibatāmapi ।
6.75.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १६ ॥
शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह । त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः । ६.७५.१६ ॥

śayaneṣu mahārheṣu prasuptānāṁ priyaiḥ saha ।
trastānāṁ gacchatāṁ tūrṇaṁ putrānādāya sarvataḥ ।
6.75.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १७ ॥
तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् । अदहत् पावकस्तत्र जज्वाल पुनःपुनः । ६.७५.१७ ॥

teṣāṁ śatasahasrāṇi tadā laṅkānivāsinām ।
adahat pāvakastatra jajvāla ca punaḥpunaḥ ।
6.75.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १८ ॥
सारवन्ति महार्हाणि गम्भीरगुणवन्ति च । हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च । ६.७५.१८ ॥

sāravanti mahārhāṇi gambhīraguṇavanti ca ।
hemacandrārdhacandrāṇi candraśālonnatāni ca ।
6.75.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · १९ ॥
रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः । मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् । ६.७५.१९ ॥

ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ ।
maṇividrumacitrāṇi spṛśantīva divākaram ।
6.75.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २० ॥
क्रौञ्चबर्हिणवीणानां भूषणानां निस्वनैः । नादितान्यचला भानि वेश्मान्यग्निर्ददाह सः । ६.७५.२० ॥

krauñcabarhiṇavīṇānāṁ bhūṣaṇānāṁ ca nisvanaiḥ ।
nāditānyacalā bhāni veśmānyagnirdadāha saḥ ।
6.75.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २१ ॥
ज्वलनेन परीतानि तोरणानि चकाशिरे । विद्युद्भिरिव नद्धानि मेघजालानि धर्मगे । ६.७५.२१ ॥

jvalanena parītāni toraṇāni cakāśire ।
vidyudbhiriva naddhāni meghajālāni dharmage ।
6.75.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २२ ॥
ज्वलनेन परीतानि निपेतुर्भवनान्यथ । वज्रिवज्रहतानीव शिखराणि महागिरेः । ६.७५.२२ ॥

jvalanena parītāni nipeturbhavanānyatha ।
vajrivajrahatānīva śikharāṇi mahāgireḥ ।
6.75.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २३ ॥
विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः । त्यक्ताभरणसर्वाङ्गा हा हेत्युच्चैर्विचुक्रुशुः । ६.७५.२३ ॥

vimāneṣu prasuptāśca dahyamānā varāṅganāḥ ।
tyaktābharaṇasarvāṅgā hā hetyuccairvicukruśuḥ ।
6.75.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २४ ॥
तानि निर्दह्यमानानि दूरतः प्रचकाशिरे । हिमवच्छिखराणीव दीप्तौषधिवनानि च । ६.७५.२४ ॥

tāni nirdahyamānāni dūrataḥ pracakāśire ।
himavacchikharāṇīva dīptauṣadhivanāni ca ।
6.75.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २५ ॥
हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि । रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः । ६.७५.२५ ॥

harmyāgrairdahyamānaiśca jvālāprajvalitairapi ।
rātrau sā dṛśyate laṅkā puṣpitairiva kiṁśukaiḥ ।
6.75.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २६ ॥
हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः । ६.७५.२६ ॥

hastyadhyakṣairgajairmuktairmuktaiśca turagairapi ।
babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ ।
6.75.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २७ ॥
अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतो ऽपसर्पति । भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते । ६.७५.२७ ॥

aśvaṁ muktaṁ gajo dṛṣṭvā kvacidbhīto 'pasarpati ।
bhīto bhītaṁ gajaṁ dṛṣṭvā kvacidaśvo nivartate ।
6.75.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २८ ॥
लङ्कायां दह्यमानायां शुशुभे महार्णवः । छायासंसक्तसलिलो लोहितोद इवार्णवः । ६.७५.२८ ॥

laṅkāyāṁ dahyamānāyāṁ śuśubhe sa mahārṇavaḥ ।
chāyāsaṁsaktasalilo lohitoda ivārṇavaḥ ।
6.75.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · २९ ॥
सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा । ६.७५.२९ ॥

sā babhūva muhūrtena haribhirdīpitā purī ।
lokasyāsya kṣaye ghore pradīpteva vasundharā ।
6.75.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३० ॥
नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् । ६.७५.३० ॥

nārījanasya dhūmena vyāptasyoccairvineduṣaḥ ।
svano jvalanataptasya śuśruve daśayojanam ।
6.75.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३१ ॥
प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः । सहसा ऽभ्युत्पतन्ति स्म हरयो ऽथ युयुत्सवः । ६.७५.३१ ॥

pradagdhakāyānaparān rākṣasānnirgatān bahiḥ ।
sahasā 'bhyutpatanti sma harayo 'tha yuyutsavaḥ ।
6.75.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३२ ॥
उद्घुष्टं वानराणां राक्षसानां निस्वनः । दिशो दश समुद्रं पृथिवीं चान्वनादयत् । ६.७५.३२ ॥

udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanaḥ ।
diśo daśa samudraṁ ca pṛthivīṁ cānvanādayat ।
6.75.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३३ ॥
विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ । असम्भ्रान्तौ जगृहतुस्तदोभे धनुषी वरे । ६.७५.३३ ॥

viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau ।
asambhrāntau jagṛhatustadobhe dhanuṣī vare ।
6.75.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३४ ॥
ततो विष्फारयानस्य रामस्य धनुरुत्तमम् । बभूव तुमुलः शब्दो राक्षसानां भयावहः । ६.७५.३४ ॥

tato viṣphārayānasya rāmasya dhanuruttamam ।
babhūva tumulaḥ śabdo rākṣasānāṁ bhayāvahaḥ ।
6.75.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३५ ॥
अशोभत तदा रामो धनुर्विष्फारयन् महत् । भगवानिव सङ्क्रुद्धो भवो वेदमयं धनुः । ६.७५.३५ ॥

aśobhata tadā rāmo dhanurviṣphārayan mahat ।
bhagavāniva saṅkruddho bhavo vedamayaṁ dhanuḥ ।
6.75.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३६ ॥
उद्घुष्टं वानराणां राक्षसानां निस्वनम् । ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे । ६.७५.३६ ॥

udghuṣṭaṁ vānarāṇāṁ ca rākṣasānāṁ ca nisvanam ।
jyāśabdastāvubhau śabdāvati rāmasya śuśruve ।
6.75.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३७ ॥
वानरोद्घुष्टघोषश्च राक्षसानां निस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश । ६.७५.३७ ॥

vānarodghuṣṭaghoṣaśca rākṣasānāṁ ca nisvanaḥ ।
jyāśabdaścāpi rāmasya trayaṁ vyāpa diśo daśa ।
6.75.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३८ ॥
तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि । ६.७५.३८ ॥

tasya kārmukamuktaiśca śaraistatpuragopuram ।
kailāsaśṛṅgapratimaṁ vikīrṇamapatadbhuvi ।
6.75.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ३९ ॥
ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च । सन्नाहो राक्षसेन्द्राणां तुमुलः समपद्यत । ६.७५.३९ ॥

tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca ।
sannāho rākṣasendrāṇāṁ tumulaḥ samapadyata ।
6.75.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४० ॥
तेषां सन्नह्यमानानां सिंहनादं कुर्वताम् । शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत । ६.७५.४० ॥

teṣāṁ sannahyamānānāṁ siṁhanādaṁ ca kurvatām ।
śarvarī rākṣasendrāṇāṁ raudrīva samapadyata ।
6.75.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४१ ॥
आदिष्टा वानरेन्द्रास्तु सुग्रीवेण महात्मना । आसन्नद्वारमासाद्य युध्यध्वं प्लवगर्षभाः । ६.७५.४१ ॥

ādiṣṭā vānarendrāstu sugrīveṇa mahātmanā ।
āsannadvāramāsādya yudhyadhvaṁ plavagarṣabhāḥ ।
6.75.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४२ ॥
यश्च वो वितथं कुर्यात्तत्र तत्र ह्युपस्थितः । हन्तव्यो हि सम्प्लुत्य राजशासनदूषकः । ६.७५.४२ ॥

yaśca vo vitathaṁ kuryāttatra tatra hyupasthitaḥ ।
sa hantavyo hi samplutya rājaśāsanadūṣakaḥ ।
6.75.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४३ ॥
तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमासाद्य रावणं मन्युराविशत् । ६.७५.४३ ॥

teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu ।
sthiteṣu dvāramāsādya rāvaṇaṁ manyurāviśat ।
6.75.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४४ ॥
तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश । रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत । ६.७५.४४ ॥

tasya jṛmbhitavikṣepādvyāmiśrā vai diśo daśa ।
rūpavāniva rudrasya manyurgātreṣvadṛśyata ।
6.75.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४५ ॥
निकुम्भं कुम्भं कुम्भकर्णात्मजावुभौ । प्रेषयामास सङ्क्रुद्धो राक्षसैर्बहुभिः सह । ६.७५.४५ ॥

sa nikumbhaṁ ca kumbhaṁ ca kumbhakarṇātmajāvubhau ।
preṣayāmāsa saṅkruddho rākṣasairbahubhiḥ saha ।
6.75.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४६ ॥
यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा । निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् । ६.७५.४६ ॥

yūpākṣaḥ śoṇitākṣaśca prajaṅghaḥ kampanastathā ।
niryayuḥ kaumbhakarṇibhyāṁ saha rāvaṇaśāsanāt ।
6.75.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४७ ॥
शशास चैव तान् सर्वान् राक्षसान् सुमहाबलान् । नादयन् गच्छतात्रैव जयध्वं शीघ्रमेव च । ६.७५.४७ ॥

śaśāsa caiva tān sarvān rākṣasān sumahābalān ।
nādayan gacchatātraiva jayadhvaṁ śīghrameva ca ।
6.75.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४८ ॥
ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनःपुनः । ६.७५.४८ ॥

tatastu coditāstena rākṣasā jvalitāyudhāḥ ।
laṅkāyā niryayurvīrāḥ praṇadantaḥ punaḥpunaḥ ।
6.75.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ४९ ॥
रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः । चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह । ६.७५.४९ ॥

rakṣasāṁ bhūṣaṇasthābhirbhābhiḥ svābhiśca sarvaśaḥ ।
cakruste saprabhaṁ vyoma harayaścāgnibhiḥ saha ।
6.75.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५० ॥
तत्र ताराधिपस्याभा ताराणां तथैव च । तयोराभरणस्था बलयोर्द्यामभासयन् । ६.७५.५० ॥

tatra tārādhipasyābhā tārāṇāṁ ca tathaiva ca ।
tayorābharaṇasthā ca balayordyāmabhāsayan ।
6.75.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५१ ॥
चन्द्राभा भूषणाभा गृहाणां ज्वलतां भा । हरिराक्षससैन्यानि भ्राजयामास सर्वतः । ६.७५.५१ ॥

candrābhā bhūṣaṇābhā ca gṛhāṇāṁ jvalatāṁ ca bhā ।
harirākṣasasainyāni bhrājayāmāsa sarvataḥ ।
6.75.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५२ ॥
तत्र चोर्ध्वं प्रदीप्तानां गृहाणां सागरः पुनः । भाभिः संसक्तपातालश्चलोर्मिः शुशुबे ऽधिकम् । ६.७५.५२ ॥

tatra cordhvaṁ pradīptānāṁ gṛhāṇāṁ sāgaraḥ punaḥ ।
bhābhiḥ saṁsaktapātālaścalormiḥ śuśube 'dhikam ।
6.75.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५३ ॥
पताकाध्वजसंसक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् । ६.७५.५३ ॥

patākādhvajasaṁsaktamuttamāsiparaśvadham ।
bhīmāśvarathamātaṅgaṁ nānāpattisamākulam ।
6.75.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५४ ॥
दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् । तद्राक्षसबलं घोरं भीमविक्रमपौरुषम् । ६.७५.५४ ॥

dīptaśūlagadākhaḍgaprāsatomarakārmukam ।
tadrākṣasabalaṁ ghoraṁ bhīmavikramapauruṣam ।
6.75.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५५ ॥
ददृशो ज्वलितप्रासं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यामिश्रितपरश्वधम् । ६.७५.५५ ॥

dadṛśo jvalitaprāsaṁ kiṅkiṇīśatanāditam ।
hemajālācitabhujaṁ vyāmiśritaparaśvadham ।
6.75.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५६ ॥
व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसम्मोदितमहानिलम् । ६.७५.५६ ॥

vyāghūrṇitamahāśastraṁ bāṇasaṁsaktakārmukam ।
gandhamālyamadhūtsekasammoditamahānilam ।
6.75.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५७ ॥
घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम् । ६.७५.५७ ॥

ghoraṁ śūrajanākīrṇaṁ mahāmbudharanisvanam ।
6.75.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५८ ॥
तद्दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम् । सञ्चचाल प्लवङ्गानां बलमुच्चैर्ननाद च । ६.७५.५८ ॥

taddṛṣṭvā balamāyāntaṁ rākṣasānāṁ sudāruṇam ।
sañcacāla plavaṅgānāṁ balamuccairnanāda ca ।
6.75.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ५९ ॥
जवेनाप्लुत्य पुनस्तद्बलं रक्षसां महत् । अभ्ययात् प्रत्यरिबलं पतङ्गा इव पावकम् । ६.७५.५९ ॥

javenāplutya ca punastadbalaṁ rakṣasāṁ mahat ।
abhyayāt pratyaribalaṁ pataṅgā iva pāvakam ।
6.75.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६० ॥
तेषां भुजपरामर्शव्यामृष्टपरिघाशनि । राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत । ६.७५.६० ॥

teṣāṁ bhujaparāmarśavyāmṛṣṭaparighāśani ।
rākṣasānāṁ balaṁ śreṣṭhaṁ bhūyastaramaśobhata ।
6.75.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६१ ॥
तत्रोन्मत्ता इवोत्पेतुर्हरयो ऽथ युयुत्सवः । तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् । ६.७५.६१ ॥

tatronmattā ivotpeturharayo 'tha yuyutsavaḥ ।
taruśailairabhighnanto muṣṭibhiśca niśācarān ।
6.75.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६२ ॥
तथैवापततां तेषां कपीनामसिभिः शितैः । शिरांसि सहसा जह्नू राक्षसा भीमदर्शनाः । ६.७५.६२ ॥

tathaivāpatatāṁ teṣāṁ kapīnāmasibhiḥ śitaiḥ ।
śirāṁsi sahasā jahnū rākṣasā bhīmadarśanāḥ ।
6.75.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६३ ॥
दशनैर्हृतकर्णाश्च मुष्टिनिष्कीर्णमस्तकाः । शिलाप्रहारभग्नाङ्गा विचेरुस्तत्र राक्षसाः । ६.७५.६३ ॥

daśanairhṛtakarṇāśca muṣṭiniṣkīrṇamastakāḥ ।
śilāprahārabhagnāṅgā vicerustatra rākṣasāḥ ।
6.75.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६४ ॥
तथैवाप्यपरे तेषां कपीनामभिलक्षिताः । प्रवीरानभितो जघ्नू राक्षसानां तरस्विनाम् । ६.७५.६४ ॥

tathaivāpyapare teṣāṁ kapīnāmabhilakṣitāḥ ।
pravīrānabhito jaghnū rākṣasānāṁ tarasvinām ।
6.75.64 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६५ ॥
तथैवाप्यपरे तेषां कपीनामसिभिः शितैः । हरिवीरान्निजघ्नुश्च घोररूपा निशाचराः । ६.७५.६५ ॥

tathaivāpyapare teṣāṁ kapīnāmasibhiḥ śitaiḥ ।
harivīrānnijaghnuśca ghorarūpā niśācarāḥ ।
6.75.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६६ ॥
घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् । गर्हमाणं जगर्हे ऽन्यो दशन्तमपरो ऽदशत् । ६.७५.६६ ॥

ghnantamanyaṁ jaghānānyaḥ pātayantamapātayat ।
garhamāṇaṁ jagarhe 'nyo daśantamaparo 'daśat ।
6.75.66 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६७ ॥
देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः । किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे । ६.७५.६७ ॥

dehītyanyo dadātyanyo dadāmītyaparaḥ punaḥ ।
kiṁ kleśayasi tiṣṭheti tatrānyonyaṁ babhāṣire ।
6.75.67 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६८ ॥
विप्रलम्बितवस्त्रं विमुक्तकवचायुधम् । समुद्यतमहाप्रासं यष्टिशूलासिसङ्कुलम् । प्रावर्तत महारौद्रं युद्धं वानररक्षसाम् । ६.७५.६८ ॥

vipralambitavastraṁ ca vimuktakavacāyudham ।
samudyatamahāprāsaṁ yaṣṭiśūlāsisaṅkulam ।
prāvartata mahāraudraṁ yuddhaṁ vānararakṣasām ।
6.75.68 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ६९ ॥
वानरान् दश सप्तेति राक्षसा जघ्नुराहवे । राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् । ६.७५.६९ ॥

vānarān daśa sapteti rākṣasā jaghnurāhave ।
rākṣasān daśa sapteti vānarāścābhyapātayan ।
6.75.69 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ७० ॥
विस्रस्तकेशवसनं विध्वस्तकवचध्वजम् । बलं राक्षसमालम्ब्य वानराः पर्यवारयन् । ६.७५.७० ॥

visrastakeśavasanaṁ vidhvastakavacadhvajam ।
balaṁ rākṣasamālambya vānarāḥ paryavārayan ।
6.75.70 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ७५ · ७१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चसप्ततितमः सर्गः । ७५ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe pañcasaptatitamaḥ sargaḥ ।
75 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.