वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ६८ · २५ श्लोकाःSarga 68 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ६८ · १ ॥
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् । ६.६८.१ ॥

kumbhakarṇaṁ hataṁ dṛṣṭvā rāghaveṇa mahātmanā ।
rākṣasā rākṣasendrāya rāvaṇāya nyavedayan ।
6.68.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २ ॥
राजन् कालसङ्काशः संयुक्तः कालकर्मणा । विद्राव्य वानरीं सेनां भक्षयित्वा वानरान् । ६.६८.२ ॥

rājan sa kālasaṅkāśaḥ saṁyuktaḥ kālakarmaṇā ।
vidrāvya vānarīṁ senāṁ bhakṣayitvā ca vānarān ।
6.68.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ३ ॥
प्रतपित्वा मुहूर्तं प्रशान्तो राम तेजसा । कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् । ६.६८.३ ॥

pratapitvā muhūrtaṁ ca praśānto rāma tejasā ।
kāyenārdhapraviṣṭena samudraṁ bhīmadarśanam ।
6.68.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ४ ॥
निकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु । रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः । ६.६८.४ ॥

nikṛttakaṇṭhorubhujo vikṣaran rudhiraṁ bahu ।
ruddhvā dvāraṁ śarīreṇa laṅkāyāḥ parvatopamaḥ ।
6.68.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ५ ॥
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः । लगण्डभूतो विकृतो दावदग्ध इव द्रुमः । ६.६८.५ ॥

kumbhakarṇastava bhrātā kākutsthaśarapīḍitaḥ ।
lagaṇḍabhūto vikṛto dāvadagdha iva drumaḥ ।
6.68.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ६ ॥
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् । रावणः शोकसन्तप्तो मुमोह पपात च । ६.६८.६ ॥

taṁ śrutvā nihataṁ saṅkhye kumbhakarṇaṁ mahābalam ।
rāvaṇaḥ śokasantapto mumoha ca papāta ca ।
6.68.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ७ ॥
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ । त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः । ६.६८.७ ॥

pitṛvyaṁ nihataṁ dṛṣṭvā devāntakanarāntakau ।
triśirāścātikāyaśca ruruduḥ śokapīḍitāḥ ।
6.68.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ८ ॥
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा । महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः । ६.६८.८ ॥

bhrātaraṁ nihataṁ dṛṣṭvā rāmeṇākliṣṭakarmaṇā ।
mahodaramahāpārśvau śokākrāntau babhūvatuḥ ।
6.68.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ९ ॥
ततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः । कुम्भकर्णवधाद्दीनो विललाप रावणः । ६.६८.९ ॥

tataḥ kṛcchrāt samāsādya sañjñāṁ rākṣasapuṅgavaḥ ।
kumbhakarṇavadhāddīno vilalāpa sa rāvaṇaḥ ।
6.68.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १० ॥
हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल । त्वं मां विहाय वै दैवाद्यातो ऽसि यमसादनम् । ६.६८.१० ॥

hā vīra ripudarpaghna kumbhakarṇa mahābala ।
tvaṁ māṁ vihāya vai daivādyāto 'si yamasādanam ।
6.68.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · ११ ॥
मम शल्यमनुद्धत्य बान्धवानां महाबल । शत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि । ६.६८.११ ॥

mama śalyamanuddhatya bāndhavānāṁ mahābala ।
śatrusainyaṁ pratāpyaikastvaṁ māṁ santyajya gacchasi ।
6.68.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १२ ॥
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः । पतितो यं समाश्रित्य बिभेमि सुरासुरात् । ६.६८.१२ ॥

idānīṁ khalvahaṁ nāsmi yasya me dakṣiṇo bhujaḥ ।
patito yaṁ samāśritya na bibhemi surāsurāt ।
6.68.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १३ ॥
कथमेवंविधो वीरो देवदानवदर्पहा । कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः । ६.६८.१३ ॥

kathamevaṁvidho vīro devadānavadarpahā ।
kālāgnirudrapratimo raṇe rāmeṇa vai hataḥ ।
6.68.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १४ ॥
यस्य ते वज्रनिष्पेषो कुर्याद्व्यसनं सदा । कथं रामबाणार्तः प्रसुप्तो ऽसि महीतले । ६.६८.१४ ॥

yasya te vajraniṣpeṣo na kuryādvyasanaṁ sadā ।
sa kathaṁ rāmabāṇārtaḥ prasupto 'si mahītale ।
6.68.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १५ ॥
एते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः । निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः । ६.६८.१५ ॥

ete devagaṇāḥ sārdhamṛṣṭibhirgagane sthitāḥ ।
nihataṁ tvāṁ raṇe dṛṣṭvā ninadanti praharṣitāḥ ।
6.68.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १६ ॥
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः । आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः । ६.६८.१६ ॥

dhruvamadyaiva saṁhṛṣṭā labdhalakṣāḥ plavaṅgamāḥ ।
ārokṣyanti hi durgāṇi laṅkādvārāṇi sarvaśaḥ ।
6.68.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १७ ॥
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया । कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः । ६.६८.१७ ॥

rājyena nāsti me kāryaṁ kiṁ kariṣyāmi sītayā ।
kumbhakarṇavihīnasya jīvite nāsti me ratiḥ ।
6.68.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १८ ॥
यद्यहं भ्रातृहन्तारं हन्मि युधि राघवम् । ननु मे मरणं श्रेयो चेदं व्यर्थजीवितम् । ६.६८.१८ ॥

yadyahaṁ bhrātṛhantāraṁ na hanmi yudhi rāghavam ।
nanu me maraṇaṁ śreyo na cedaṁ vyarthajīvitam ।
6.68.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · १९ ॥
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम । नहि भ्रातऽन् समुत्सृज्य क्षणं जीवितुमुत्सहे । ६.६८.१९ ॥

adyaiva taṁ gamiṣyāmi deśaṁ yatrānujo mama ।
nahi bhrāta'n samutsṛjya kṣaṇaṁ jīvitumutsahe ।
6.68.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २० ॥
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् । कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि । ६.६८.२० ॥

devā hi māṁ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam ।
kathamindraṁ jayiṣyāmi kumbhakarṇa hate tvayi ।
6.68.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २१ ॥
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् । यदज्ञानान्मया तस्य गृहीतं महात्मनः । ६.६८.२१ ॥

tadidaṁ māmanuprāptaṁ vibhīṣaṇavacaḥ śubham ।
yadajñānānmayā tasya na gṛhītaṁ mahātmanaḥ ।
6.68.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २२ ॥
विभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः । विनाशो ऽयं समुत्पन्नो मां व्रीडयति दारुणः । ६.६८.२२ ॥

vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ ।
vināśo 'yaṁ samutpanno māṁ vrīḍayati dāruṇaḥ ।
6.68.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २३ ॥
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः । यन्मया धार्मिकः श्रीमान् निरस्तो विभीषणः । ६.६८.२३ ॥

tasyāyaṁ karmaṇaḥ prāpto vipāko mama śokadaḥ ।
yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ ।
6.68.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २४ ॥
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् । न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा । ६.६८.२४ ॥

iti bahuvidhamākulāntarātmā kṛpaṇamatīva vilapya kumbhakarṇam ।
nyapatadatha daśānano bhṛśārtastamanujamindraripuṁ hataṁ viditvā ।
6.68.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६८ · २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टषष्टितमः सर्गः । ६८ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe aṣṭaṣaṣṭitamaḥ sargaḥ ।
68 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.