वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ६३ · ५८ श्लोकाःSarga 63 · 58 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ६३ · १ ॥
तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभाषेदं वचनं प्रजहास च । ६.६३.१ ॥

tasya rākṣasarājasya niśamya paridevitam ।
kumbhakarṇo babhāṣedaṁ vacanaṁ prajahāsa ca ।
6.63.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २ ॥
दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभिरक्तेन सो ऽयमासादितस्त्वया । ६.६३.२ ॥

dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye ।
hiteṣvanabhiraktena so 'yamāsāditastvayā ।
6.63.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३ ॥
शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः । निरयेष्वेव पतनं यथा दुष्कृतकर्मणः । ६.६३.३ ॥

śīghraṁ khalvabhyupetaṁ tvāṁ phalaṁ pāpasya karmaṇaḥ ।
nirayeṣveva patanaṁ yathā duṣkṛtakarmaṇaḥ ।
6.63.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४ ॥
प्रथमं वै महाराज कृत्यमेतदचिन्तितम् । केवलं वीर्यदर्पेण नानुबन्धो विचारितः । ६.६३.४ ॥

prathamaṁ vai mahārāja kṛtyametadacintitam ।
kevalaṁ vīryadarpeṇa nānubandho vicāritaḥ ।
6.63.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५ ॥
यः पश्चात् पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चापरकार्याणि वेद नयानयौ । ६.६३.५ ॥

yaḥ paścāt pūrvakāryāṇi kuryādaiśvaryamāsthitaḥ ।
pūrvaṁ cāparakāryāṇi na sa veda nayānayau ।
6.63.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ६ ॥
देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव । ६.६३.६ ॥

deśakālavihīnāni karmāṇi viparītavat ।
kriyamāṇāni duṣyanti havīṁṣyaprayateṣviva ।
6.63.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ७ ॥
त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा सभ्ये वर्तते पथि । ६.६३.७ ॥

trayāṇāṁ pañcadhā yogaṁ karmaṇāṁ yaḥ prapaśyati ।
sacivaiḥ samayaṁ kṛtvā sa sabhye vartate pathi ।
6.63.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ८ ॥
यथागमं यो राजा समयं विचिकीर्षति । बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति । ६.६३.८ ॥

yathāgamaṁ ca yo rājā samayaṁ vicikīrṣati ।
budhyate sacivān buddhyā suhṛdaścānupaśyati ।
6.63.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ९ ॥
धर्ममर्थं कामं सर्वान् वा रक्षसां पते । भजेत पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः । ६.६३.९ ॥

dharmamarthaṁ ca kāmaṁ ca sarvān vā rakṣasāṁ pate ।
bhajeta puruṣaḥ kāle trīṇi dvandvāni vā punaḥ ।
6.63.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १० ॥
त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् । ६.६३.१० ॥

triṣu caiteṣu yacchreṣṭhaṁ śrutvā tannāvabudhyate ।
rājā vā rājamātro vā vyarthaṁ tasya bahuśrutam ।
6.63.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ११ ॥
उपप्रदानं सान्त्वं वा भेदं काले विक्रमम् । योगं रक्षसां श्रेष्ठ तावुभौ नयानयौ । ६.६३.११ ॥

upapradānaṁ sāntvaṁ vā bhedaṁ kāle ca vikramam ।
yogaṁ ca rakṣasāṁ śreṣṭha tāvubhau ca nayānayau ।
6.63.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १२ ॥
काले धर्मार्थकामान् यः सम्मन्त्र्य सचिवैः सह । निषेवेतात्मवान् लोके व्यसनमाप्नुयात् । ६.६३.१२ ॥

kāle dharmārthakāmān yaḥ sammantrya sacivaiḥ saha ।
niṣevetātmavān loke na sa vyasanamāpnuyāt ।
6.63.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १३ ॥
हितानुबन्धमालोच्य कार्याकार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः सचिवैः हि जीवति । ६.६३.१३ ॥

hitānubandhamālocya kāryākāryamihātmanaḥ ।
rājā sahārthatattvajñaiḥ sacivaiḥ sa hi jīvati ।
6.63.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १४ ॥
अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः । ६.६३.१४ ॥

anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ ।
prāgalbhyādvaktumicchanti mantreṣvabhyantarīkṛtāḥ ।
6.63.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १५ ॥
अशास्त्रविदुषां तेषां कार्यमहितं वचः । अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् । ६.६३.१५ ॥

aśāstraviduṣāṁ teṣāṁ na kāryamahitaṁ vacaḥ ।
arthaśāstrānabhijñānāṁ vipulāṁ śriyamicchatām ।
6.63.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १६ ॥
अहितं हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः । अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः । ६.६३.१६ ॥

ahitaṁ ca hitākāraṁ dhārṣṭyājjalpanti ye narāḥ ।
avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ ।
6.63.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १७ ॥
विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः । ६.६३.१७ ॥

vināśayanto bhartāraṁ sahitāḥ śatrubhirbudhaiḥ ।
viparītāni kṛtyāni kārayantīha mantriṇaḥ ।
6.63.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १८ ॥
तान् भर्ता मित्रसङ्काशानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात् सचिवानुपसंहितान् । ६.६३.१८ ॥

tān bhartā mitrasaṅkāśānamitrān mantranirṇaye ।
vyavahāreṇa jānīyāt sacivānupasaṁhitān ।
6.63.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · १९ ॥
चपलस्येह कृत्यानि सहसानुप्रधावतः । छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य स्वमिव द्विजाः । ६.६३.१९ ॥

capalasyeha kṛtyāni sahasānupradhāvataḥ ।
chidramanye prapadyante krauñcasya svamiva dvijāḥ ।
6.63.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २० ॥
यो हि शत्रुमविज्ञाय नात्मानमभिरक्षति । अवाप्नोति हि सो ऽनर्थान् स्थानाच्च व्यवरोप्यते । ६.६३.२० ॥

yo hi śatrumavijñāya nātmānamabhirakṣati ।
avāpnoti hi so 'narthān sthānācca vyavaropyate ।
6.63.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २१ ॥
यदुक्तमिह ते पूर्वं क्रियतामनुजेन च । तदेव नो हितं कार्यं यदिच्छसि तत् कुरु । ६.६३.२१ ॥

yaduktamiha te pūrvaṁ kriyatāmanujena ca ।
tadeva no hitaṁ kāryaṁ yadicchasi ca tat kuru ।
6.63.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २२ ॥
तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिं चैव सञ्चक्रे क्रुद्धश्चैनमभाषत । ६.६३.२२ ॥

tattu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam ।
bhrukuṭiṁ caiva sañcakre kruddhaścainamabhāṣata ।
6.63.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २३ ॥
मान्यो गुरुरिवाचार्यः किं मां त्वमनुशाससि । किमेवं वाक्छ्रमं कृत्वा युक्तं विधीयताम् । ६.६३.२३ ॥

mānyo gururivācāryaḥ kiṁ māṁ tvamanuśāsasi ।
kimevaṁ vākchramaṁ kṛtvā yuktaṁ vidhīyatām ।
6.63.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २४ ॥
विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कथाः । ६.६३.२४ ॥

vibhramāccittamohādvā balavīryāśrayeṇa vā ।
nābhipannamidānīṁ yadvyarthāstasya punaḥ kathāḥ ।
6.63.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २५ ॥
अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम् । गतं तु नानुशोचन्ति गतं तु गतमेव हि । ६.६३.२५ ॥

asmin kāle tu yadyuktaṁ tadidānīṁ vidhīyatām ।
gataṁ tu nānuśocanti gataṁ tu gatameva hi ।
6.63.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २६ ॥
ममापनयजं दोषं विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो विक्रमं वा ऽवगच्छसि । यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम् । ६.६३.२६ ॥

mamāpanayajaṁ doṣaṁ vikrameṇa samīkuru ।
yadi khalvasti me sneho vikramaṁ vā 'vagacchasi ।
yadi vā kāryametatte hṛdi kāryatamaṁ matam ।
6.63.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २७ ॥
सुहृद् यो विपन्नार्थं दीनमभ्यवपद्यते । बन्धुर्यो ऽपनीतेषु साहाय्यायोपकल्पते । ६.६३.२७ ॥

sa suhṛd yo vipannārthaṁ dīnamabhyavapadyate ।
sa bandhuryo 'panīteṣu sāhāyyāyopakalpate ।
6.63.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २८ ॥
तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् । रुष्टो ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । ६.६३.२८ ॥

tamathaivaṁ bruvāṇaṁ tu vacanaṁ dhīradāruṇam ।
ruṣṭo 'yamiti vijñāya śanaiḥ ślakṣṇamuvāca ha ।
6.63.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · २९ ॥
अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् । कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् । ६.६३.२९ ॥

atīva hi samālakṣya bhrātaraṁ kṣubhitendriyam ।
kumbhakarṇaḥ śanairvākyaṁ babhāṣe parisāntvayan ।
6.63.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३० ॥
अलं राक्षसराजेन्द्र सन्तापमुपपद्य ते । रोषं सम्परित्यज्य स्वस्थो भवितुमर्हसि । ६.६३.३० ॥

alaṁ rākṣasarājendra santāpamupapadya te ।
roṣaṁ ca samparityajya svastho bhavitumarhasi ।
6.63.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३१ ॥
नैतन्मनसि कर्तव्यं मयि जीवति पार्थिव । तमहं नाशयिष्यामि यत्कृते परितप्यसे । ६.६३.३१ ॥

naitanmanasi kartavyaṁ mayi jīvati pārthiva ।
tamahaṁ nāśayiṣyāmi yatkṛte paritapyase ।
6.63.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३२ ॥
अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव । बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव । ६.६३.३२ ॥

avaśyaṁ tu hitaṁ vācyaṁ sarvāvasthaṁ mayā tava ।
bandhubhāvādabhihitaṁ bhrātṛsnehācca pārthiva ।
6.63.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३३ ॥
सदृशं यत्तु काले ऽस्मिन् कर्तुं स्निग्धेन बन्धुना । शत्रूणां कदनं पश्य क्रियमाणं मया रणे । ६.६३.३३ ॥

sadṛśaṁ yattu kāle 'smin kartuṁ snigdhena bandhunā ।
śatrūṇāṁ kadanaṁ paśya kriyamāṇaṁ mayā raṇe ।
6.63.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३४ ॥
अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सह भ्रात्रा द्रवन्तीं परवाहिनीम् । ६.६३.३४ ॥

adya paśya mahābāho mayā samaramūrdhani ।
hate rāme saha bhrātrā dravantīṁ paravāhinīm ।
6.63.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३५ ॥
अद्य रामस्य तद् दृष्ट्वा मया ऽनीतं रणाच्छिरः । सुखी भव महाबाहो सीता भवतु दुःखिता । ६.६३.३५ ॥

adya rāmasya tad dṛṣṭvā mayā ' 'nītaṁ raṇācchiraḥ ।
sukhī bhava mahābāho sītā bhavatu duḥkhitā ।
6.63.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३६ ॥
अद्य रामस्य पश्यन्तु निधनं सुमहत् प्रियम् । लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः । ६.६३.३६ ॥

adya rāmasya paśyantu nidhanaṁ sumahat priyam ।
laṅkāyāṁ rākṣasāḥ sarve ye te nihatabāndhavāḥ ।
6.63.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३७ ॥
अद्य शोकपरीतानां स्वबन्धुवधकारणात् । शत्रोर्युधि विनाशेन करोम्यास्रप्रमार्जनम् । ६.६३.३७ ॥

adya śokaparītānāṁ svabandhuvadhakāraṇāt ।
śatroryudhi vināśena karomyāsrapramārjanam ।
6.63.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३८ ॥
अद्य पर्वतसङ्काशं ससूर्यमिव तोयदम् । विकीर्णं पश्य समरे सुग्रीवं प्लवगोत्तमम् । ६.६३.३८ ॥

adya parvatasaṅkāśaṁ sasūryamiva toyadam ।
vikīrṇaṁ paśya samare sugrīvaṁ plavagottamam ।
6.63.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ३९ ॥
कथं त्वं राक्षसैरेभिर्मया परिरक्षितः । जिघांसुभिर्दाशरथिं वध्यसे त्वमिहानघ । ६.६३.३९ ॥

kathaṁ tvaṁ rākṣasairebhirmayā ca parirakṣitaḥ ।
jighāṁsubhirdāśarathiṁ vadhyase tvamihānagha ।
6.63.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४० ॥
अथ पूर्वं हते तेन मयि त्वां हन्ति राघवः । नाहमात्मनि सन्तापं गच्छेयं राक्षसाधिप । ६.६३.४० ॥

atha pūrvaṁ hate tena mayi tvāṁ hanti rāghavaḥ ।
nāhamātmani santāpaṁ gaccheyaṁ rākṣasādhipa ।
6.63.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४१ ॥
कामं त्विदानीमपि मां व्यादिश त्वं परन्तप । परः प्रेषणीयस्ते युद्धायातुलविक्रम । ६.६३.४१ ॥

kāmaṁ tvidānīmapi māṁ vyādiśa tvaṁ parantapa ।
na paraḥ preṣaṇīyaste yuddhāyātulavikrama ।
6.63.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४२ ॥
अहमुत्सादयिष्यामि शत्रूंस्तव महाबल । ६.६३.४२ ॥

ahamutsādayiṣyāmi śatrūṁstava mahābala ।
6.63.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४३ ॥
यदि शक्रो यदि यमो यदि पावकमारुतौ । तानहं योधयिष्यामि कुबेरवरुणावपि । ६.६३.४३ ॥

yadi śakro yadi yamo yadi pāvakamārutau ।
tānahaṁ yodhayiṣyāmi kuberavaruṇāvapi ।
6.63.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४४ ॥
गिरिमात्रशरीरस्य शितशूलधरस्य मे । नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरन्दरः । ६.६३.४४ ॥

girimātraśarīrasya śitaśūladharasya me ।
nardatastīkṣṇadaṁṣṭrasya bibhīyācca purandaraḥ ।
6.63.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४५ ॥
अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् । मे प्रतिमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः । ६.६३.४५ ॥

athavā tyaktaśastrasya mṛdnatastarasā ripūn ।
na me pratimukhe sthātuṁ kaścicchakto jijīviṣuḥ ।
6.63.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४६ ॥
नैव शक्त्या गदया नासिना निशितैः शरैः । हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् । ६.६३.४६ ॥

naiva śaktyā na gadayā nāsinā niśitaiḥ śaraiḥ ।
hastābhyāmeva saṁrabdho haniṣyāmyapi vajriṇam ।
6.63.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४७ ॥
यदि मे मुष्टिवेगं राघवो ऽद्य सहिष्यते । ततः पास्यन्ति बाणौघा रुधिरं राघवस्य तु । ६.६३.४७ ॥

yadi me muṣṭivegaṁ sa rāghavo 'dya sahiṣyate ।
tataḥ pāsyanti bāṇaughā rudhiraṁ rāghavasya tu ।
6.63.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४८ ॥
चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति । सो ऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः । ६.६३.४८ ॥

cintayā bādhyase rājan kimarthaṁ mayi tiṣṭhati ।
so 'haṁ śatruvināśāya tava niryātumudyataḥ ।
6.63.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ४९ ॥
मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे । राघवं लक्ष्मणं चैव सुग्रीवं महाबलम् । हनुमन्तं रक्षोघ्नं लङ्का येन प्रदीपिता । ६.६३.४९ ॥

muñca rāmādbhayaṁ rājan haniṣyāmīha saṁyuge ।
rāghavaṁ lakṣmaṇaṁ caiva sugrīvaṁ ca mahābalam ।
hanumantaṁ ca rakṣoghnaṁ laṅkā yena pradīpitā ।
6.63.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५० ॥
हरींश्चापि हनिष्यामि संयुगे समवस्थितान् । असाधारणमिच्छामि तव दातुं महद्यशः । ६.६३.५० ॥

harīṁścāpi haniṣyāmi saṁyuge samavasthitān ।
asādhāraṇamicchāmi tava dātuṁ mahadyaśaḥ ।
6.63.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५१ ॥
यदि चेन्द्राद्भयं राजन् यदि वापि स्वयम्भुवः । ६.६३.५१ ॥

yadi cendrādbhayaṁ rājan yadi vāpi svayambhuvaḥ ।
6.63.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५२ ॥
अपि देवाः शयिष्यन्ते क्रुद्धे मयि महीतले । यमं शमयिष्यामि भक्षयिष्यामि पावकम् । आदित्यं पातयिष्यामि सनक्षत्रं महीतले । ६.६३.५२ ॥

api devāḥ śayiṣyante kruddhe mayi mahītale ।
yamaṁ ca śamayiṣyāmi bhakṣayiṣyāmi pāvakam ।
ādityaṁ pātayiṣyāmi sanakṣatraṁ mahītale ।
6.63.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५३ ॥
शतक्रतुं वधिष्यामि पास्यामि वरुणालयम् । पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । ६.६३.५३ ॥

śatakratuṁ vadhiṣyāmi pāsyāmi varuṇālayam ।
parvatāṁścūrṇayiṣyāmi dārayiṣyāmi medinīm ।
6.63.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५४ ॥
दीर्घकालं प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् । अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । ६.६३.५४ ॥

dīrghakālaṁ prasuptasya kumbhakarṇasya vikramam ।
adya paśyantu bhūtāni bhakṣyamāṇāni sarvaśaḥ ।
6.63.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५५ ॥
नन्विदं त्रिदिवं सर्वमाहारस्य पूर्यते । ६.६३.५५ ॥

nanvidaṁ tridivaṁ sarvamāhārasya na pūryate ।
6.63.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५६ ॥
वधेन ते दाशरथेः सुखार्हं सुखं समाहर्तुमहं व्रजामि । निहत्य रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् । ६.६३.५६ ॥

vadhena te dāśaratheḥ sukhārhaṁ sukhaṁ samāhartumahaṁ vrajāmi ।
nihatya rāmaṁ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān ।
6.63.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५७ ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः । मया ऽद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति । ६.६३.५७ ॥

ramasva kāmaṁ piba cāgryavāruṇīṁ kuruṣva kṛtyāni vinīyatāṁ jvaraḥ ।
mayā 'dya rāme gamite yamakṣayaṁ cirāya sītā vaśagā bhaviṣyati ।
6.63.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६३ · ५८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिषष्टितमः सर्गः । ६३ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe triṣaṣṭitamaḥ sargaḥ ।
63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.