वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ६० · ९९ श्लोकाःSarga 60 · 99 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ६० · १ ॥
प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः । ६.६०.१ ॥

sa praviśya purīṁ laṅkāṁ rāmabāṇabhayārditaḥ ।
bhagnadarpastadā rājā babhūva vyathitendriyaḥ ।
6.60.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २ ॥
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतो ऽभवद्राजा राघवेण महात्मना । ६.६०.२ ॥

mātaṅga iva siṁhena garuḍeneva pannagaḥ ।
abhibhūto 'bhavadrājā rāghaveṇa mahātmanā ।
6.60.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३ ॥
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः । ६.६०.३ ॥

brahmadaṇḍaprakāśānāṁ vidyutsadṛśavarcasām ।
smaran rāghavabāṇānāṁ vivyathe rākṣaseśvaraḥ ।
6.60.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४ ॥
काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् । ६.६०.४ ॥

sa kāñcanamayaṁ divyamāśritya paramāsanam ।
viprekṣamāṇo rakṣāṁsi rāvaṇo vākyamabravīt ।
6.60.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५ ॥
सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः । यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः । ६.६०.५ ॥

sarvaṁ tat khalu me moghaṁ yattaptaṁ paramaṁ tapaḥ ।
yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ ।
6.60.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६ ॥
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा । ६.६०.६ ॥

idaṁ tadbrahmaṇo ghoraṁ vākyaṁ māmabhyupasthitam ।
mānuṣebhyo vijānīhi bhayaṁ tvamiti tattathā ।
6.60.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७ ॥
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो याचितम् । ६.६०.७ ॥

devadānavagandharvairyakṣarākṣasapannagaiḥ ।
avadhyatvaṁ mayā prāptaṁ mānuṣebhyo na yācitam ।
6.60.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८ ॥
विदितं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा । ६.६०.८ ॥

viditaṁ mānuṣaṁ manye rāmaṁ daśarathātmajam ।
ikṣvākukulanāthena anaraṇyena yatpurā ।
6.60.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९ ॥
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् । निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते । ६.६०.९ ॥

utpatsyate hi madvaṁśe puruṣo rākṣasādhama ।
yastvāṁ saputraṁ sāmātyaṁ sabalaṁ sāśvasārathim ।
nihaniṣyati saṅgrāme tvāṁ kulādhama durmate ।
6.60.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १० ॥
शप्तो ऽहं वेदवत्या यदा सा धर्षिता पुरा । सेयं सीता महाभागा जाता जनकनन्दिनी । ६.६०.१० ॥

śapto 'haṁ vedavatyā ca yadā sā dharṣitā purā ।
seyaṁ sītā mahābhāgā jātā janakanandinī ।
6.60.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ११ ॥
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका । यथोक्तास्तपसा प्राप्तं मिथ्या ऋषिभाषितम् । ६.६०.११ ॥

umā nandīśvaraścāpi rambhā varuṇakanyakā ।
yathoktāstapasā prāptaṁ na mithyā ṛṣibhāṣitam ।
6.60.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १२ ॥
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ । राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु । ६.६०.१२ ॥

etadevābhyupāgamya yatnaṁ kartumihārhatha ।
rākṣasāścāpi tiṣṭhantu caryāgopuramūrddhasu ।
6.60.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १३ ॥
चाप्रतिमगाम्भीरो देवदानवदर्पहा । ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् । ६.६०.१३ ॥

sa cāpratimagāmbhīro devadānavadarpahā ।
brahmaśāpābhibhūtastu kumbhakarṇo vibodhyatām ।
6.60.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १४ ॥
पराजितमात्मानं प्रहस्तं निषूदितम् । ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः । ६.६०.१४ ॥

sa parājitamātmānaṁ prahastaṁ ca niṣūditam ।
jñātvā rakṣobalaṁ bhīmamādideśa mahābalaḥ ।
6.60.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १५ ॥
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् । निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् । ६.६०.१५ ॥

dvāreṣu yatnaḥ kriyatāṁ prākāraścādhiruhyatām ।
nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām ।
6.60.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १६ ॥
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः । नव षट् सप्त चाष्टौ मासान् स्वपिति राक्षसः । ६.६०.१६ ॥

sukhaṁ svapiti niścintaḥ kālopahatacetanaḥ ।
nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ ।
6.60.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १७ ॥
मन्त्रयित्वा प्रसुप्तो ऽयमितस्तु नवमे ऽहनि । तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् । ६.६०.१७ ॥

mantrayitvā prasupto 'yamitastu navame 'hani ।
taṁ tu bodhayata kṣipraṁ kumbhakarṇaṁ mahābalam ।
6.60.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १८ ॥
तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम् । वानरान् राजपुत्रौ क्षिप्रमेव वधिष्यति । ६.६०.१८ ॥

sa tu saṅkhye mahābāhuḥ kakudaḥ sarvarakṣasām ।
vānarān rājaputrau ca kṣiprameva vadhiṣyati ।
6.60.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · १९ ॥
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम् । कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः । ६.६०.१९ ॥

eṣa ketuḥ paraḥ saṅkhye mukhyo vai sarvarakṣasām ।
kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ ।
6.60.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २० ॥
रामेण हि निरस्तस्य सङ्ग्रामे ऽस्मिन् सुदारुणे । भविष्यति मे शोकः कुम्भकर्णे विबोधिते । ६.६०.२० ॥

rāmeṇa hi nirastasya saṅgrāme 'smin sudāruṇe ।
bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite ।
6.60.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २१ ॥
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि । ईद्दशे व्यसने प्राप्ते यो साह्याय कल्पते । ६.६०.२१ ॥

kiṁ kariṣyāmyahaṁ tena śakratulyabalena hi ।
īddaśe vyasane prāpte yo na sāhyāya kalpate ।
6.60.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २२ ॥
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः । जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् । ६.६०.२२ ॥

te tu tadvacanaṁ śrutvā rākṣasendrasya rākṣasāḥ ।
jagmuḥ paramasambhrāntāḥ kumbhakarṇaniveśanam ।
6.60.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २३ ॥
ते रावणसमादिष्टा मांसशोणितभोजनाः । गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः । ६.६०.२३ ॥

te rāvaṇasamādiṣṭā māṁsaśoṇitabhojanāḥ ।
gandhamālyāṁstathā bhakṣyānādāya sahasā yayuḥ ।
6.60.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २४ ॥
तां प्रविश्य महाद्वारां सर्वतो योजनायताम् । कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् । ६.६०.२४ ॥

tāṁ praviśya mahādvārāṁ sarvato yojanāyatām ।
kumbhakarṇaguhāṁ ramyāṁ sarvagandhapravāhinīm ।
6.60.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २५ ॥
कुम्भकर्णस्य निश्वासादवधूता महाबलाः । प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् । ६.६०.२५ ॥

kumbhakarṇasya niśvāsādavadhūtā mahābalāḥ ।
pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśurguhām ।
6.60.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २६ ॥
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम् । ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् । ६.६०.२६ ॥

tāṁ praviśya guhāṁ ramyāṁ śubhāṁ kāñcanakuṭṭimām ।
dadṛśurnairṛtavyāghraṁ śayānaṁ bhīmadarśanam ।
6.60.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २७ ॥
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् । कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् । ६.६०.२७ ॥

te tu taṁ vikṛtaṁ suptaṁ vikīrṇamiva parvatam ।
kumbhakarṇaṁ mahānidraṁ sahitāḥ pratyabodhayan ।
6.60.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २८ ॥
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम् । त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् । ६.६०.२८ ॥

ūrdhvaromāñcitatanuṁ śvasantamiva pannagam ।
trāsayantaṁ mahāśvāsaiḥ śayānaṁ bhīmadarśanam ।
6.60.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · २९ ॥
भीमनासापुटं तं तु पातालविपुलाननम् । शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् । ६.६०.२९ ॥

bhīmanāsāpuṭaṁ taṁ tu pātālavipulānanam ।
śayyāyāṁ nyastasarvāṅgaṁ medorudhiragandhinam ।
6.60.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३० ॥
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम् । ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् । ६.६०.३० ॥

kāñcanāṅgadanaddhāṅgaṁ kirīṭinamarindamam ।
dadṛśurnairṛtavyāghraṁ kumbhakarṇaṁ mahābalam ।
6.60.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३१ ॥
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा । मांसानां मेरुसङ्काशं राशिं परमतर्पणम् । ६.६०.३१ ॥

tataścakrurmahātmānaḥ kumbhakarṇāgratastadā ।
māṁsānāṁ merusaṅkāśaṁ rāśiṁ paramatarpaṇam ।
6.60.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३२ ॥
मृगाणां महिषाणां वराहाणां सञ्चयान् । चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् । ६.६०.३२ ॥

mṛgāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca sañcayān ।
cakurnairṛtaśārdūlā rāśimannasya cādbhutam ।
6.60.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३३ ॥
ततः शोणितकुम्भांश्च मद्यानि विविधानि च । ६.६०.३३ ॥

tataḥ śoṇitakumbhāṁśca madyāni vividhāni ca ।
6.60.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३४ ॥
पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः । लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् । ६.६०.३४ ॥

purastāt kumbhakarṇasya cakustridaśaśatravaḥ ।
lilipuśca parārdhyena candanena parantapam ।
6.60.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३५ ॥
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः । धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् । ६.६०.३५ ॥

divyairācchādayāmāsurmālyairgandhaiḥ sugandhibhiḥ ।
dhūpaṁ sugandhaṁ sasṛjustuṣṭuvuśca parantapam ।
6.60.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३६ ॥
जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः । शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान् । तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः । ६.६०.३६ ॥

jaladā iva conneduryātudhānāstatastataḥ ।
śaṅkhānāpūrayāmāsuḥ śaśāṅkasadṛśaprabhān ।
tumulaṁ yugapaccāpi vineduścāpyamarṣitāḥ ।
6.60.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३७ ॥
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः । कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् । ६.६०.३७ ॥

nedurāsphoṭayāmāsuścikṣipuste niśācarāḥ ।
kumbhakarṇavibodhārthaṁ cakruste vipulaṁ svanam ।
6.60.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३८ ॥
सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम् । दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः । ६.६०.३८ ॥

saśaṅkhabherīpaṇavapraṇādamāsphoṭitakṣvelitasiṁhanādam ।
diśo dravantastridivaṁ kirantaḥ śrutvā vihaṅgāḥ sahasā nipetuḥ ।
6.60.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ३९ ॥
यदा भृशार्तैर्निनदैर्महात्मा कुम्भकर्णो बुबुधे प्रसुप्तः । ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च । ६.६०.३९ ॥

yadā bhṛśārtairninadairmahātmā na kumbhakarṇo bubudhe prasuptaḥ ।
tato musuṇṭhīrmusalāni sarve rakṣogaṇāste jagṛhurgadāśca ।
6.60.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४० ॥
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च । सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः । ६.६०.४० ॥

taṁ śailaśṛṅgairmusalairgadābhirvṛkṣaistalairmudgaramuṣṭibhiśca ।
sukhaprasuptaṁ bhuvi kumbhakarṇaṁ rakṣāṁsyudagrāṇi tadā nijaghnuḥ ।
6.60.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४१ ॥
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः । राक्षसा बलवन्तो ऽपि स्थातुं नाशक्नुवन् पुरः । ६.६०.४१ ॥

tasya niḥśvāsavātena kumbhakarṇasya rakṣasaḥ ।
rākṣasā balavanto 'pi sthātuṁ nāśaknuvan puraḥ ।
6.60.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४२ ॥
ततः परिहिता गाढं राक्षसा भीमविक्रमाः । ६.६०.४२ ॥

tataḥ parihitā gāḍhaṁ rākṣasā bhīmavikramāḥ ।
6.60.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४३ ॥
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा । दशराक्षससाहस्रा युगपत् पर्यवादयन् । ६.६०.४३ ॥

mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṁstadā ।
daśarākṣasasāhasrā yugapat paryavādayan ।
6.60.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४४ ॥
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन् । अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः । ६.६०.४४ ॥

nīlāñjanacayākārāste tu taṁ pratyabodhayan ।
abhighnanto nadantaśca naiva saṁvivide tu saḥ ।
6.60.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४५ ॥
यदा चैनं शेकुस्ते प्रतिबोधयितुं तदा । ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् । ६.६०.४५ ॥

yadā cainaṁ na śekuste pratibodhayituṁ tadā ।
tato gurutaraṁ yatnaṁ dāruṇaṁ samupākraman ।
6.60.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४६ ॥
अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः । भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् । ६.६०.४६ ॥

aśvānuṣṭrān kharānnāgān jaghnurdaṇḍakaśāṅkuśaiḥ ।
bherīśaṅkhamṛdaṅgāṁśca sarvaprāṇairavādayan ।
6.60.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४७ ॥
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः । मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः । ६.६०.४७ ॥

nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṅkaraiḥ ।
mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ ।
6.60.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४८ ॥
तेन शब्देन महता लङ्का समभिपूरिता । सपर्वतवना सर्वा सो ऽपि नैव प्रबुध्यते । ६.६०.४८ ॥

tena śabdena mahatā laṅkā samabhipūritā ।
saparvatavanā sarvā so 'pi naiva prabudhyate ।
6.60.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ४९ ॥
ततः सहस्रं भेरीणां युगपत् समहन्यत । मृष्टकाञ्चनकोणानामासक्तानां समन्ततः । ६.६०.४९ ॥

tataḥ sahasraṁ bherīṇāṁ yugapat samahanyata ।
mṛṣṭakāñcanakoṇānāmāsaktānāṁ samantataḥ ।
6.60.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५० ॥
एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते । शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः । महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः । ६.६०.५० ॥

evamapyatinidrastu yadā naiva prabudhyate ।
śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ ।
mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ ।
6.60.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५१ ॥
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् । ६.६०.५१ ॥

tadrakṣo bodhayiṣyantaścakruranye parākramam ।
6.60.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५२ ॥
स्ततः क्रुद्धा निशाचराः । अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम् । केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च । ६.६०.५२ ॥

stataḥ kruddhā niśācarāḥ ।
anye bherīḥ samājaghnuranye cakrurmahāsvanam ।
keśānanye pralulupuḥ karṇāvanye daśanti ca ।
6.60.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५३ ॥
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः । कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः । ६.६०.५३ ॥

udakumbhaśatānyanye samasiñcanta karṇayoḥ ।
na kumbhakarṇaḥ paspande mahānidrāvaśaṁ gataḥ ।
6.60.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५४ ॥
अन्ये बलिनस्तस्य कूटमुद्गरपाणयः । मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् । ६.६०.५४ ॥

anye ca balinastasya kūṭamudgarapāṇayaḥ ।
mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān ।
6.60.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५५ ॥
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः । वध्यमानो महाकायो प्राबुध्यत राक्षसः । ६.६०.५५ ॥

rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ ।
vadhyamāno mahākāyo na prābudhyata rākṣasaḥ ।
6.60.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५६ ॥
वारणानां सहस्रं तु शरीरे ऽस्य प्रधावितम् । कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत । ६.६०.५६ ॥

vāraṇānāṁ sahasraṁ tu śarīre 'sya pradhāvitam ।
kumbhakarṇastato buddhaḥ sparśaṁ paramabudhyata ।
6.60.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५७ ॥
पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात । ६.६०.५७ ॥

sa pātyamānairgiriśṛṅgavṛkṣairacintayaṁstān vipulān prahārān ।
nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta ।
6.60.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५८ ॥
नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ । विवृत्य वक्त्रं वडवामुखाभं निशाचरो ऽसौ विकृतं जजृम्भे । ६.६०.५८ ॥

sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau ।
vivṛtya vaktraṁ vaḍavāmukhābhaṁ niśācaro 'sau vikṛtaṁ jajṛmbhe ।
6.60.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ५९ ॥
तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः । ६.६०.५९ ॥

tasya jājṛmbhamāṇasya vaktraṁ pātālasannibham ।
dadṛśe meruśṛṅgāgre divākara ivoditaḥ ।
6.60.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६० ॥
जृम्भमाणो ऽतिबलः प्रतिबुद्धो निशाचरः । निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः । ६.६०.६० ॥

sa jṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ ।
niḥśvāsaścāsya sañjajñe parvatādiva mārutaḥ ।
6.60.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६१ ॥
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ । तपान्ते सबलाकस्य मेघस्येव विवर्षतः । ६.६०.६१ ॥

rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau ।
tapānte sabalākasya meghasyeva vivarṣataḥ ।
6.60.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६२ ॥
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्ताविव महाग्रहौ । ६.६०.६२ ॥

tasya dīptāgnisadṛśe vidyutsadṛśavarcasī ।
dadṛśāte mahānetre dīptāviva mahāgrahau ।
6.60.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६३ ॥
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान् महिषांश्चैव बभक्ष महाबलः । ६.६०.६३ ॥

tatastvadarśayan sarvān bhakṣyāṁśca vividhān bahūn ।
varāhān mahiṣāṁścaiva sa babhakṣa mahābalaḥ ।
6.60.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६४ ॥
अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन् । मेदःकुम्भांश्च मद्यं पपौ शक्ररिपुस्तदा । ६.६०.६४ ॥

adan bubhukṣito māṁsaṁ śoṇitaṁ tṛṣitaḥ piban ।
medaḥkumbhāṁśca madyaṁ ca papau śakraripustadā ।
6.60.64 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६५ ॥
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः । शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् । ६.६०.६५ ॥

tatastṛpta iti jñātvā samutpeturniśācarāḥ ।
śirobhiśca praṇamyainaṁ sarvataḥ paryavārayan ।
6.60.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६६ ॥
निद्राविश ऽदनेत्रस्तु कलुषीकृतलोचनः । चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् । ६.६०.६६ ॥

nidrāviśa 'danetrastu kaluṣīkṛtalocanaḥ ।
cārayan sarvato dṛṣṭiṁ tān dadarśa niśācarān ।
6.60.66 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६७ ॥
सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः । बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् । ६.६०.६७ ॥

sa sarvān sāntvayāmāsa nairṛtānnairṛtarṣabhaḥ ।
bodhanād vismitaścāpi rākṣasānidamabravīt ।
6.60.67 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६८ ॥
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः । कच्चित् सुकुशलं राज्ञो भयवानेष वा किम् । ६.६०.६८ ॥

kimarthamahamādṛtya bhavadbhiḥ pratibodhitaḥ ।
kaccit sukuśalaṁ rājño bhayavāneṣa vā na kim ।
6.60.68 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ६९ ॥
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः । ६.६०.६९ ॥

athavā dhruvamanyebhyo bhayaṁ paramupasthitam ।
yadarthamevaṁ tvaritairbhavadbhiḥ pratibodhitaḥ ।
6.60.69 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७० ॥
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । पातयिष्ये महेन्द्रं वा शातयिष्ये तथा ऽनलम् । ६.६०.७० ॥

adya rākṣasarājasya bhayamutpāṭayāmyaham ।
pātayiṣye mahendraṁ vā śātayiṣye tathā 'nalam ।
6.60.70 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७१ ॥
ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् । ६.६०.७१ ॥

na hyalpakāraṇe suptaṁ bodhayiṣyati māṁ guruḥ ।
tadākhyātārthatattvena matprabodhanakāraṇam ।
6.60.71 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७२ ॥
एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह । ६.६०.७२ ॥

evaṁ bruvāṇaṁ saṁrabdhaṁ kumbhakarṇaṁ mahābalam ।
yūpākṣaḥ sacivo rājñaḥ kṛtāñjaliruvāca ha ।
6.60.72 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७३ ॥
नो दैवकृतं किञ्चिद्भयमस्ति कदाचन । मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते । ६.६०.७३ ॥

na no daivakṛtaṁ kiñcidbhayamasti kadācana ।
mānuṣānno bhayaṁ rājaṁstumulaṁ samprabādhate ।
6.60.73 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७४ ॥
दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन् भयमस्मानुपस्थितम् । ६.६०.७४ ॥

na daityadānavebhyo vā bhayamasti hi tādṛśam ।
yādṛśaṁ mānuṣaṁ rājan bhayamasmānupasthitam ।
6.60.74 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७५ ॥
वानरैः पर्वताकारैर्लङ्केयं परिवारिता । सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् । ६.६०.७५ ॥

vānaraiḥ parvatākārairlaṅkeyaṁ parivāritā ।
sītāharaṇasantaptādrāmānnastumulaṁ bhayam ।
6.60.75 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७६ ॥
एकेन वानरेणेयं पूर्वं दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः । ६.६०.७६ ॥

ekena vānareṇeyaṁ pūrvaṁ dagdhā mahāpurī ।
kumāro nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ ।
6.60.76 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७७ ॥
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः । मृतेति संयुगे मुक्तो रामेणादित्यतेजसा । ६.६०.७७ ॥

svayaṁ rakṣodhipaścāpi paulastyo devakaṇṭakaḥ ।
mṛteti saṁyuge mukto rāmeṇādityatejasā ।
6.60.77 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७८ ॥
यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः । कृतः इह रामेण विमुक्तः प्राणसंशयात् । ६.६०.७८ ॥

yanna daivaiḥ kṛto rājā nāpi daityairna dānavaiḥ ।
kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṁśayāt ।
6.60.78 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ७९ ॥
यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् । कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् । ६.६०.७९ ॥

sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam ।
kumbhakarṇo vivṛttākṣo yūpākṣamidamabravīt ।
6.60.79 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८० ॥
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् । ६.६०.८० ॥

sarvamadyaiva yūpākṣa harisainyaṁ salakṣmaṇam ।
rāghavaṁ ca raṇe hatvā paścāddrakṣyāmi rāvaṇam ।
6.60.80 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८१ ॥
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् । ६.६०.८१ ॥

rākṣasāṁstarpayiṣyāmi harīṇāṁ māṁsaśoṇitaiḥ ।
rāmalakṣmaṇayoścāpi svayaṁ pāsyāmi śoṇitam ।
6.60.81 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८२ ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे । ६.६०.८२ ॥

tattasya vākyaṁ bruvato niśamya sagarvitaṁ roṣavivṛddhadoṣam ।
mahodaro nairṛtayodhamukhyaḥ kṛtāñjalirvākyamidaṁ babhāṣe ।
6.60.82 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८३ ॥
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च । पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि । ६.६०.८३ ॥

rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca ।
paścādapi mahābāho śatrūn yudhi vijeṣyasi ।
6.60.83 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८४ ॥
महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः । ६.६०.८४ ॥

mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ ।
kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ ।
6.60.84 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८५ ॥
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् । ६.६०.८५ ॥

taṁ samutthāpya bhīmākṣaṁ bhīmarūpaparākramam ।
rākṣasāstvaritā jagmurdaśagrīvaniveśanam ।
6.60.85 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८६ ॥
ततो गत्वा दशग्रीवमासीनं परमासने । ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः । ६.६०.८६ ॥

tato gatvā daśagrīvamāsīnaṁ paramāsane ।
ūcurbaddhāñjalipuṭāḥ sarve eva niśācarāḥ ।
6.60.86 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८७ ॥
प्रबुद्धः कुम्भकर्णो ऽयं भ्राता ते राक्षसर्षभ । कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् । ६.६०.८७ ॥

prabuddhaḥ kumbhakarṇo 'yaṁ bhrātā te rākṣasarṣabha ।
kathaṁ tatraiva niryātu drakṣyasyenamihāgatam ।
6.60.87 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८८ ॥
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायं पूज्यताम् । ६.६०.८८ ॥

rāvaṇastvabravīddhṛṣṭo rākṣasāṁstānupasthitān ।
draṣṭumenamihecchāmi yathānyāyaṁ ca pūjyatām ।
6.60.88 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ८९ ॥
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः । कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः । ६.६०.८९ ॥

tathetyuktvā tu te sarve punarāgamya rākṣasāḥ ।
kumbhakarṇamidaṁ vākyamūcū rāvaṇacoditāḥ ।
6.60.89 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९० ॥
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः । गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय । ६.६०.९० ॥

draṣṭuṁ tvāṁ kāṅkṣate rājā sarvarākṣasapuṅgavaḥ ।
gamane kriyatāṁ buddhirbhrātaraṁ sampraharṣaya ।
6.60.90 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९१ ॥
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह । ६.६०.९१ ॥

kumbhakarṇastu durdharṣo bhrāturājñāya śāsanam ।
tathetyuktvā mahābāhuḥ śayanādutpapāta ha ।
6.60.91 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९२ ॥
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः । पिपासुस्त्वरयामास पानं बलसमीरणम् । ६.६०.९२ ॥

prakṣālya vadanaṁ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ ।
pipāsustvarayāmāsa pānaṁ balasamīraṇam ।
6.60.92 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९३ ॥
ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया । मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् । ६.६०.९३ ॥

tataste tvaritāstasya rākṣasā rāvaṇājñayā ।
madyakumbhāṁśca vividhān kṣipramevopahārayan ।
6.60.93 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९४ ॥
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः । कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः । ६.६०.९४ ॥

pītvā ghaṭasahasre dve gamanāyopacakrame ।
īṣatsamutkaṭo mattastejobalasamanvitaḥ ।
kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ ।
6.60.94 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९५ ॥
भ्रातुः भवनं गच्छन् रक्षोगणसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् । ६.६०.९५ ॥

bhrātuḥ sa bhavanaṁ gacchan rakṣogaṇasamanvitaḥ ।
kumbhakarṇaḥ padanyāsairakampayata medinīm ।
6.60.95 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९६ ॥
राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः । जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः । ६.६०.९६ ॥

sa rājamārgaṁ vapuṣā prakāśayan sahasraraśmirdharaṇīmivāṁśubhiḥ ।
jagāma tatrāñjalimālayā vṛtaḥ śatakraturgehamiva svayambhuvaḥ ।
6.60.96 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९७ ॥
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः । दृष्ट्वा ऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः । ६.६०.९७ ॥

taṁ rājamārgasthamamitraghātinaṁ vanaukasaste sahasā bahiḥ sthitāḥ ।
dṛṣṭvā 'prameyaṁ giriśṛṅgakalpaṁ vitatrasuste hariyūthapālāḥ ।
6.60.97 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९८ ॥
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति । केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म । ६.६०.९८ ॥

keciccharaṇyaṁ śaraṇaṁ sma rāmaṁ vrajanti kecidvyathitāḥ patanti ।
keciddiśaḥ sma vyathitāḥ prayānti kecidbhayārtā bhuvi śerate sma ।
6.60.98 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ६० · ९९ ॥
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः । ६.६०.९९ ॥

tamadriśṛṅgapratimaṁ kirīṭinaṁ spṛśantamādityamivātmatejasā ।
vanaukasaḥ prekṣya vivṛddhamadbhutaṁ bhayārditā dudruvire tatastataḥ ।
6.60.99 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.