वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ५८ · ६० श्लोकाःSarga 58 · 60 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ५८ · १ ॥
ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः । ६.५८.१ ॥

tataḥ prahastaṁ niryāntaṁ dṛṣṭvā bhīmaparākramam ।
uvāca sasmitaṁ rāmo vibhīṣaṇamarindamaḥ ।
6.58.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २ ॥
एष सुमहाकायो बलेन महता वृतः । आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् । ६.५८.२ ॥

ka eṣa sumahākāyo balena mahatā vṛtaḥ ।
ācakṣva me mahābāho vīryavantaṁ niśācaram ।
6.58.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३ ॥
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः । ६.५८.३ ॥

rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ ।
6.58.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४ ॥
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः । लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः । वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे । ६.५८.४ ॥

eṣa senāpatistasya prahasto nāma rākṣasaḥ ।
laṅkāyāṁ rākṣasendrasya tribhāgabalasaṁvṛtaḥ ।
vīryavānastravicchūraḥ prakhyātaśca parākrame ।
6.58.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५ ॥
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् । ६.५८.५ ॥

tataḥ prahastaṁ niryāntaṁ bhīmaṁ bhīmaparākramam ।
garjantaṁ sumahākāyaṁ rākṣasairabhisaṁvṛtam ।
6.58.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ६ ॥
ददर्श महती सेना वानराणां बलीयसाम् । अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् । ६.५८.६ ॥

dadarśa mahatī senā vānarāṇāṁ balīyasām ।
atisañjātaroṣāṇāṁ prahastamabhigarjatām ।
6.58.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ७ ॥
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च । गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः । ६.५८.७ ॥

khaḍgaśaktyṛṣṭibāṇāśca śūlāni musalāni ca ।
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ ।
6.58.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ८ ॥
धनूंषि विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् । ६.५८.८ ॥

dhanūṁṣi ca vicitrāṇi rākṣasānāṁ jayaiṣiṇām ।
pragṛhītānyaśobhanta vānarānabhidhāvatām ।
6.58.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ९ ॥
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः । शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः । ६.५८.९ ॥

jagṛhuḥ pādapāṁścāpi puṣpitān vānararṣabhāḥ ।
śilāśca vipulā dīrghā yoddhukāmāḥ plavaṅgamāḥ ।
6.58.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १० ॥
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं शरवृष्टिं वर्षताम् । ६.५८.१० ॥

teṣāmanyonyamāsādya saṅgrāmaḥ sumahānabhūt ।
bahūnāmaśmavṛṣṭiṁ ca śaravṛṣṭiṁ ca varṣatām ।
6.58.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ११ ॥
बहवो राक्षसा युद्धे बहून् वानरयूथपान् । वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् । ६.५८.११ ॥

bahavo rākṣasā yuddhe bahūn vānarayūthapān ।
vānarā rākṣasāṁścāpi nijaghnurbahavo bahūn ।
6.58.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १२ ॥
शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः । परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः । ६.५८.१२ ॥

śūlaiḥ pramathitāḥ kecit kecicca paramāyudhaiḥ ।
parighairāhatāḥ kecit kecicchinnāḥ paraśvadhaiḥ ।
6.58.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १३ ॥
निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले । विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः । ६.५८.१३ ॥

nirucchvāsāḥ kṛtāḥ kecit patitā dharaṇītale ।
vibhinnahṛdayāḥ kecidiṣusandhānasanditāḥ ।
6.58.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १४ ॥
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि । वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः । ६.५८.१४ ॥

keciddvidhā kṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi ।
vānarā rākṣasaiḥ śūlaiḥ pārśvataścāvadāritāḥ ।
6.58.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १५ ॥
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः । पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले । ६.५८.१५ ॥

vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ ।
pādapairgiriśṛṅgaiśca sampiṣṭā vasudhātale ।
6.58.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १६ ॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् । वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः । ६.५८.१६ ॥

vajrasparśatalairhastairmuṣṭibhiśca hatā bhṛśam ।
vaimuḥ śoṇitamāsyebhyo viśīrṇadaśanekṣaṇāḥ ।
6.58.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १७ ॥
आर्तस्वनं स्वनतां सिंहनादं नर्दताम् । बभूव तुमुलः शब्दो हरीणां रक्षसां युधि । ६.५८.१७ ॥

ārtasvanaṁ ca svanatāṁ siṁhanādaṁ ca nardatām ।
babhūva tumulaḥ śabdo harīṇāṁ rakṣasāṁ yudhi ।
6.58.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १८ ॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः । विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् । ६.५८.१८ ॥

vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ ।
vivṛttanayanāḥ krūrāścakruḥ karmāṇyabhītavat ।
6.58.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · १९ ॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः । ६.५८.१९ ॥

narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ ।
ete prahastasacivāḥ sarve jaghnurvanaukasaḥ ।
6.58.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २० ॥
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् । द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् । ६.५८.२० ॥

teṣāmāpatatāṁ śīghraṁ nighnatāṁ cāpi vānarān ।
dvivido giriśṛṅgeṇa jaghānaikaṁ narāntakam ।
6.58.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २१ ॥
दुर्मुखः पुनरुत्थाय कपिः विपुलद्रुमम् । राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् । ६.५८.२१ ॥

durmukhaḥ punarutthāya kapiḥ sa vipuladrumam ।
rākṣasaṁ kṣiprahastastu samunnatamapothayat ।
6.58.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २२ ॥
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम् । पातयामास तेजस्वी महानादस्य वक्षसि । ६.५८.२२ ॥

jāmbavāṁstu susaṅkruddhaḥ pragṛhya mahatīṁ śilām ।
pātayāmāsa tejasvī mahānādasya vakṣasi ।
6.58.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २३ ॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् । वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे । ६.५८.२३ ॥

atha kumbhahanustatra tāreṇāsādya vīryavān ।
vṛkṣeṇābhihato mūrdhni prāṇān santyājayadraṇe ।
6.58.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २४ ॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् । ६.५८.२४ ॥

amṛṣyamāṇastatkarma prahasto rathamāsthitaḥ ।
cakāra kadanaṁ ghoraṁ dhanuṣpāṇirvanaukasām ।
6.58.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २५ ॥
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा । क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः । ६.५८.२५ ॥

āvarta iva sañjajñe ubhayoḥ senayostadā ।
kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ ।
6.58.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २६ ॥
महता हि शरौघेण प्रहस्तो युद्धकोविदः । अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे । ६.५८.२६ ॥

mahatā hi śaraugheṇa prahasto yuddhakovidaḥ ।
ardayāmāsa saṅkruddho vānarān paramāhave ।
6.58.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २७ ॥
वानराणां शरीरैश्च राक्षसानां मेदिनी । बभूव निचिता घोरा पतितैरिव पर्वतैः । ६.५८.२७ ॥

vānarāṇāṁ śarīraiśca rākṣasānāṁ ca medinī ।
babhūva nicitā ghorā patitairiva parvataiḥ ।
6.58.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २८ ॥
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते । सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः । ६.५८.२८ ॥

sā mahī rudhiraugheṇa pracchannā samprakāśate ।
sañchannā mādhave māsi palāśairiva puṣpitaiḥ ।
6.58.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · २९ ॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् । शोणितौघमहातोयां यमसागरगमिनीम् । ६.५८.२९ ॥

hatavīraughavaprāṁ tu bhagnāyudhamahādrumām ।
śoṇitaughamahātoyāṁ yamasāgaragaminīm ।
6.58.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३० ॥
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् । भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् । ६.५८.३० ॥

yakṛtplīhamahāpaṅkāṁ vinikīrṇāntraśaivalām ।
bhinnakāyaśiromīnāmaṅgāvayavaśādvalām ।
6.58.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३१ ॥
गृध्रहंसगणाकीर्णां कङ्कसारससेविताम् । मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम् । तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् । ६.५८.३१ ॥

gṛdhrahaṁsagaṇākīrṇāṁ kaṅkasārasasevitām ।
medaḥphenasamākīrṇāmārtastanitanisvanām ।
tāṁ kāpuruṣadustārāṁ yuddhabhūmimayīṁ nadīm ।
6.58.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३२ ॥
नदीमिव घनापाये हंससारससेविताम् । राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् । ६.५८.३२ ॥

nadīmiva ghanāpāye haṁsasārasasevitām ।
rākṣasāḥ kapimukhyāśca terustāṁ dustarāṁ nadīm ।
6.58.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३३ ॥
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः । ६.५८.३३ ॥

yathā padmarajodhvastāṁ nalinīṁ gajayūthapāḥ ।
6.58.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३४ ॥
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम् । ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् । ६.५८.३४ ॥

tataḥ sṛjantaṁ bāṇaughān prahastaṁ syandane sthitam ।
dadarśa tarasā nīlo vinighnantaṁ plavaṅgamān ।
6.58.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३५ ॥
उद्धूत इव वायुः खे महदभ्रबलं बलात् । समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः । रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे । ६.५८.३५ ॥

uddhūta iva vāyuḥ khe mahadabhrabalaṁ balāt ।
samīkṣyābhidrutaṁ yuddhe prahasto vāhinīpatiḥ ।
rathenādityavarṇena nīlamevābhidudruve ।
6.58.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३६ ॥
धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे । नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः । ६.५८.३६ ॥

sa dhanurdhanvināṁ śreṣṭho vikṛṣya paramāhave ।
nīlāya vyasṛjadbāṇān prahasto vāhinīpatiḥ ।
6.58.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३७ ॥
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः । महीं जग्मुर्महावेगा रुषिता इव पन्नगाः । ६.५८.३७ ॥

te prāpya viśikhā nīlaṁ vinirbhidya samāhitāḥ ।
mahīṁ jagmurmahāvegā ruṣitā iva pannagāḥ ।
6.58.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३८ ॥
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः । तं परमदुर्धर्षमापतन्तं महाकपिः । ६.५८.३८ ॥

nīlaḥ śarairabhihato niśitairjvalanopamaiḥ ।
sa taṁ paramadurdharṣamāpatantaṁ mahākapiḥ ।
6.58.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ३९ ॥
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् । ६.५८.३९ ॥

prahastaṁ tāḍayāmāsa vṛkṣamutpāṭya vīryavān ।
6.58.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४० ॥
तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः । ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ । ६.५८.४० ॥

sa tenābhihataḥ kruddho nadan rākṣasapuṅgavaḥ ।
vavarṣa śaravarṣāṇi plavaṅgānāṁ camūpatau ।
6.58.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४१ ॥
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः । अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः । ६.५८.४१ ॥

tasya bāṇagaṇān ghorān rākṣasasya mahābalaḥ ।
apārayan vārayituṁ pratyagṛhṇānnimīlitaḥ ।
6.58.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४२ ॥
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् । एवमेव प्रहस्तस्य शरवर्षं दुरासदम् । निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् । ६.५८.४२ ॥

yathaiva govṛṣo varṣaṁ śāradaṁ śīghramāgatam ।
evameva prahastasya śaravarṣaṁ durāsadam ।
nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam ।
6.58.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४३ ॥
रोषितः शरवर्षेण सालेन महता महान् । प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् । ६.५८.४३ ॥

roṣitaḥ śaravarṣeṇa sālena mahatā mahān ।
prajaghāna hayānnīlaḥ prahastasya manojavān ।
6.58.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४४ ॥
ततः चापमुद्गृह्य प्रहस्तस्य महाबलः । बभञ्ज तरसा नीलो ननाद पुनःपुनः । ६.५८.४४ ॥

tataḥ sa cāpamudgṛhya prahastasya mahābalaḥ ।
babhañja tarasā nīlo nanāda ca punaḥpunaḥ ।
6.58.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४५ ॥
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः । प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे । ६.५८.४५ ॥

vidhanustu kṛtastena prahasto vāhinīpatiḥ ।
pragṛhya musalaṁ ghoraṁ syandanādavapupluve ।
6.58.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४६ ॥
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ । स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ । ६.५८.४६ ॥

tāvubhau vāhinīmukhyau jātavairau tarasvinau ।
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau ।
6.58.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४७ ॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् । सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ । ६.५८.४७ ॥

ullikhantau sutīkṣṇābhirdaṁṣṭrābhiritaretaram ।
siṁhaśārdūlasadṛśau siṁhaśārdūlaceṣṭitau ।
6.58.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४८ ॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ । काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ । ६.५८.४८ ॥

vikrāntavijayau vīrau samareṣvanivartinau ।
kāṅkṣamāṇau yaśaḥ prāptuṁ vṛtravāsavayoḥ samau ।
6.58.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ४९ ॥
आजघान तदा नीलं ललाटे मुसलेन सः । प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् । ६.५८.४९ ॥

ājaghāna tadā nīlaṁ lalāṭe musalena saḥ ।
prahastaḥ paramāyattastasya susrāva śoṇitam ।
6.58.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५० ॥
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् । प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः । ६.५८.५० ॥

tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum ।
prahastasyorasi kruddho visasarja mahākapiḥ ।
6.58.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५१ ॥
तमचिन्त्य प्रहारं प्रगृह्य मुसलं महत् । अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् । ६.५८.५१ ॥

tamacintya prahāraṁ sa pragṛhya musalaṁ mahat ।
abhidudrāva balinaṁ balānnīlaṁ plavaṅgamam ।
6.58.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५२ ॥
तमुग्रवेगं संरब्धमापतन्तं महाकपिः । ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् । ६.५८.५२ ॥

tamugravegaṁ saṁrabdhamāpatantaṁ mahākapiḥ ।
tataḥ samprekṣya jagrāha mahāvego mahāśilām ।
6.58.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५३ ॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः । प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् । ६.५८.५३ ॥

tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ ।
prahastasya śilāṁ nīlo mūrdhni tūrṇamapātayat ।
6.58.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५४ ॥
सा तेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा । ६.५८.५४ ॥

sā tena kapimukhyena vimuktā mahatī śilā ।
bibheda bahudhā ghorā prahastasya śirastadā ।
6.58.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५५ ॥
गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः । पपात सहसा भूमौ छिन्नमूल इव द्रुमः । ६.५८.५५ ॥

sa gatāsurgataśrīko gatasattvo gatendriyaḥ ।
papāta sahasā bhūmau chinnamūla iva drumaḥ ।
6.58.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५६ ॥
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् । शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा । ६.५८.५६ ॥

prabhinnaśirasastasya bahu susrāva śoṇitam ।
śarīrādapi susrāva gireḥ prasravaṇaṁ yathā ।
6.58.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५७ ॥
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् । रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह । ६.५८.५७ ॥

hate prahaste nīlena tadakampyaṁ mahadbalam ।
rakṣasāmaprahṛṣṭānāṁ laṅkāmabhijagāma ha ।
6.58.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५८ ॥
शेकुः समरे स्थातुं निहते वाहिनीपतौ । सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा । ६.५८.५८ ॥

na śekuḥ samare sthātuṁ nihate vāhinīpatau ।
setubandhaṁ samāsādya vikīrṇaṁ salilaṁ yathā ।
6.58.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ५९ ॥
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः । रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः । प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव ते ऽभवन् । ६.५८.५९ ॥

hate tasmiṁścamūmukhye rākṣasāste nirudyamāḥ ।
rakṣaḥpatigṛhaṁ gatvā dhyānamūkatvamāsthitāḥ ।
prāptāḥ śokārṇavaṁ tīvraṁ nissañjñā iva te 'bhavan ।
6.58.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५८ · ६० ॥
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन प्रहृष्टरूपस्तु बभूव यूथपः । ६.५८.६० ॥

tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā ।
sametya rāmeṇa salakṣmaṇena ca prahṛṣṭarūpastu babhūva yūthapaḥ ।
6.58.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.