वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ५० · ६५ श्लोकाःSarga 50 · 65 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ५० · १ ॥
अथोवाच महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले । ६.५०.१ ॥

athovāca mahātejā harirājo mahābalaḥ ।
kimiyaṁ vyathitā senā mūḍhavāteva naurjale ।
6.50.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २ ॥
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रो ऽङ्गदो ऽब्रवीत् । ६.५०.२ ॥

sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt ।
6.50.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३ ॥
त्वं पश्यसि रामं लक्ष्मणं महाबलम् । शरजालाचितौ वीरावुभौ दशरथात्मजौ । शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ । ६.५०.३ ॥

na tvaṁ paśyasi rāmaṁ ca lakṣmaṇaṁ ca mahābalam ।
śarajālācitau vīrāvubhau daśarathātmajau ।
śaratalpe mahātmānau śayānau rudhirokṣitau ।
6.50.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४ ॥
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम् । नानिमित्तमिदं मन्ये भवितव्यं भयेन तु । ६.५०.४ ॥

athābravīdvānarendraḥ sugrīvaḥ putramaṅgadam ।
nānimittamidaṁ manye bhavitavyaṁ bhayena tu ।
6.50.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५ ॥
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः । प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः । ६.५०.५ ॥

viṣaṇṇavadanā hyete tyaktapraharaṇā diśaḥ ।
prapalāyanti harayastrāsādutphullalocanāḥ ।
6.50.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६ ॥
अन्योन्यस्य लज्जन्ते निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च । ६.५०.६ ॥

anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ ।
viprakarṣanti cānyonyaṁ patitaṁ laṅghayanti ca ।
6.50.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ७ ॥
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः । सुग्रीवं वर्धयामास राघवं निरैक्षत । ६.५०.७ ॥

etasminnantare vīro gadāpāṇirvibhīṣaṇaḥ ।
sugrīvaṁ vardhayāmāsa rāghavaṁ ca niraikṣata ।
6.50.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ८ ॥
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम् । ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह । ६.५०.८ ॥

vibhīṣaṇaṁ taṁ sugrīvo dṛṣṭvā vānarabhīṣaṇam ।
ṛkṣarājaṁ samīpasthaṁ jāmbavantamuvāca ha ।
6.50.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ९ ॥
विभीषणो ऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः । विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया । ६.५०.९ ॥

vibhīṣaṇo 'yaṁ samprapto yaṁ dṛṣṭvā vānararṣabhāḥ ।
vidravanti paritrastā rāvaṇātmajaśaṅkayā ।
6.50.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १० ॥
शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान् । प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् । ६.५०.१० ॥

śīghrametān susantrastān bahudhā vipradhāvitān ।
praryavasthāpayākhyāhi vibhīṣaṇamupasthitam ।
6.50.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ११ ॥
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः । वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः । ६.५०.११ ॥

sugrīveṇaivamuktastu jāmbavānṛkṣapārthivaḥ ।
vānarān sāntvayāmāsa sannirudhya pradhāvataḥ ।
6.50.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १२ ॥
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः । ऋक्षराजवचः श्रुत्वा तं दृष्ट्वा विभीषणम् । ६.५०.१२ ॥

te nivṛttāḥ punaḥ sarve vānarāstyaktasambhramāḥ ।
ṛkṣarājavacaḥ śrutvā taṁ ca dṛṣṭvā vibhīṣaṇam ।
6.50.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १३ ॥
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम् । लक्ष्मणस्य धर्मात्मा बभूव व्यथितेन्द्रियः । ६.५०.१३ ॥

vibhīṣaṇastu rāmasya dṛṣṭvā gātraṁ śaraiścitam ।
lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ ।
6.50.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १४ ॥
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च । शोकसम्पीडितमना रुरोद विललाप च । ६.५०.१४ ॥

jalaklinnena hastena tayornetre pramṛjya ca ।
śokasampīḍitamanā ruroda vilalāpa ca ।
6.50.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १५ ॥
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ । इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः । ६.५०.१५ ॥

imau tau sattvasampannau vikrāntau priyasaṁyugau ।
imāmavasthāṁ gamitau rākṣasaiḥ kūṭayodhibhiḥ ।
6.50.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १६ ॥
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ । ६.५०.१६ ॥

bhrātuḥ putreṇa me tena duṣputreṇa durātmanā ।
rākṣasyā jihmayā buddhyā cālitāvṛjuvikramau ।
6.50.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १७ ॥
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ । वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव । ६.५०.१७ ॥

śarairimāvalaṁ viddhau rudhireṇa samukṣitau ।
vasudhāyāmimau suptau dṛśyete śalyakāviva ।
6.50.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १८ ॥
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया । तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ । ६.५०.१८ ॥

yayorvīryamupāśritya pratiṣṭhā kāṅkṣitā mayā ।
tāvubhau dehanāśāya prasuptau puruṣarṣabhau ।
6.50.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · १९ ॥
जीवन्नद्य विपन्नो ऽस्मि नष्टराज्यमनोरथः । प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः । ६.५०.१९ ॥

jīvannadya vipanno 'smi naṣṭarājyamanorathaḥ ।
prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ ।
6.50.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २० ॥
एवं विलपमानं तं परिष्वज्य विभीषणम् । सुग्रीवः सत्त्वसम्पन्नो हरिराजो ऽब्रवीदिदम् । ६.५०.२० ॥

evaṁ vilapamānaṁ taṁ pariṣvajya vibhīṣaṇam ।
sugrīvaḥ sattvasampanno harirājo 'bravīdidam ।
6.50.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २१ ॥
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः । रावणः सह पुत्रेण सकामं नेह लप्स्यते । ६.५०.२१ ॥

rājyaṁ prāpsyasi dharmajña laṅkāyāṁ nātra saṁśayaḥ ।
rāvaṇaḥ saha putreṇa sakāmaṁ neha lapsyate ।
6.50.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २२ ॥
रुजा पीडितावेतावुभौ राघवलक्ष्मणौ । त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे । ६.५०.२२ ॥

na rujā pīḍitāvetāvubhau rāghavalakṣmaṇau ।
tyaktvā mohaṁ vadhiṣyete sagaṇaṁ rāvaṇaṁ raṇe ।
6.50.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २३ ॥
तमेनं सान्त्वयित्वा तु समाश्वास्य राक्षसम् । सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह । ६.५०.२३ ॥

tamenaṁ sāntvayitvā tu samāśvāsya ca rākṣasam ।
suṣeṇaṁ śvaśuraṁ pārśve sugrīvastamuvāca ha ।
6.50.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २४ ॥
सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ । गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ । ६.५०.२४ ॥

saha śūrairharigaṇairlabdhasañjñāvarindamau ।
gaccha tvaṁ bhrātarau gṛhya kiṣkindhāṁ rāmalakṣmaṇau ।
6.50.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २५ ॥
अहं तु रावणं हत्वा सपुत्रं सहबान्धवम् । मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम् । श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् । ६.५०.२५ ॥

ahaṁ tu rāvaṇaṁ hatvā saputraṁ sahabāndhavam ।
maithilīmānayiṣyāmi śakro naṣṭāmiva śriyam ।
śrutvaitadvānarendrasya suṣeṇo vākyamabravīt ।
6.50.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २६ ॥
दैवासुरं महद्युद्धमनुभूतं सुदारुणम् । तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः । ६.५०.२६ ॥

daivāsuraṁ mahadyuddhamanubhūtaṁ sudāruṇam ।
tadā sma dānavā devān śarasaṁsparśakovidāḥ ।
6.50.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २७ ॥
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः । ६.५०.२७ ॥

nijaghnuḥ śastraviduṣaśchādayanto muhurmuhuḥ ।
6.50.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २८ ॥
तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः । विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति । ६.५०.२८ ॥

tānārtānnaṣṭasañjñāṁśca parāsūṁśca bṛhaspatiḥ ।
vidyābhirmantrayuktābhiroṣadhībhiścikitsati ।
6.50.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · २९ ॥
तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम् । जवेन वानराः शीघ्रं सम्पातिपनसादयः । हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः । ६.५०.२९ ॥

tānyauṣadhānyānayituṁ kṣīrodaṁ yāntu sāgaram ।
javena vānarāḥ śīghraṁ sampātipanasādayaḥ ।
harayastu vijānanti pārvatīstā mahauṣadhīḥ ।
6.50.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३० ॥
सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् । ६.५०.३० । .५०.२ । सम्पातिपनसादयः । चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे । अमृतं यत्र मथितं तत्र ते परमौषधी । ६.५०.३१ ॥

sañjīvakaraṇīṁ divyāṁ viśalyāṁ devanirmitām ।
6.50.30 ।
.50.2 ।
sampātipanasādayaḥ ।
candraśca nāma droṇaśca kṣīrode sāgarottame ।
amṛtaṁ yatra mathitaṁ tatra te paramauṣadhī ।
6.50.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३१ ॥
अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु । ६.५०.३२ ॥

ayaṁ vāyusuto rājan hanumāṁstatra gacchatu ।
6.50.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३२ ॥
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः । पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् । ६.५०.३३ ॥

etasminnantare vāyurmeghāṁścāpi savidyutaḥ ।
paryasyan sāgare toyaṁ kampayanniva medinīm ।
6.50.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३३ ॥
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः । निपेतुर्भिन्नविटपाः समूला लवणाम्भसि । ६.५०.३४ ॥

mahatā pakṣavātena sarvadvīpamahādrumāḥ ।
nipeturbhinnaviṭapāḥ samūlā lavaṇāmbhasi ।
6.50.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३४ ॥
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः । शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् । ६.५०.३५ ॥

abhavan pannagāstrastā bhoginastatravāsinaḥ ।
śīghraṁ sarvāṇi yādāṁsi jagmuśca lavaṇārṇavam ।
6.50.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३५ ॥
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम् ॥

tato muhūrtādgaruḍaṁ vainateyaṁ mahābalam ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३६ ॥
वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् । ६.५०.३६ ॥

vānarā dadṛśuḥ sarvejvalantamiva pāvakam ।
6.50.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३७ ॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः । यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ । ६.५०.३७ ॥

tamāgatamabhiprekṣya nāgāste vipradudruvuḥ ।
yaistau satpuruṣau baddhau śarabhūtairmahābalau ।
6.50.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३८ ॥
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः । विममर्श पाणिभ्यां मुखे चन्द्रसमप्रभे । ६.५०.३८ ॥

tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinanditaḥ ।
vimamarśa ca pāṇibhyāṁ mukhe candrasamaprabhe ।
6.50.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ३९ ॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः । सुवर्णे तनू स्निग्धे तयोराशु बभूवतुः । ६.५०.३९ ॥

vainateyena saṁspṛṣṭāstayoḥ saṁruruhurvraṇāḥ ।
suvarṇe ca tanū snigdhe tayorāśu babhūvatuḥ ।
6.50.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४० ॥
तेजो वीर्यं बलं चौज उत्साहश्च महागुणः । प्रदर्शनं बुद्धिश्च स्मृतिश्च द्विगुणं तयोः । ६.५०.४० ॥

tejo vīryaṁ balaṁ cauja utsāhaśca mahāguṇaḥ ।
pradarśanaṁ ca buddhiśca smṛtiśca dviguṇaṁ tayoḥ ।
6.50.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४१ ॥
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ । उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह । ६.५०.४१ ॥

tāvutthāpya mahāvīryau garuḍo vāsavopamau ।
ubhau tau sasvaje hṛṣṭau rāmaścainamuvāca ha ।
6.50.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४२ ॥
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत् । आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ । ६.५०.४२ ॥

bhavatprasādādvyasanaṁ rāvaṇiprabhavaṁ mahat ।
āvāmiha vyatikrāntau pūrvavadbalinau kṛtau ।
6.50.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४३ ॥
यथा तातं दशरथं यथा ऽजं पितामहम् । तथा भवन्तमासाद्य हृदयं मे प्रसीदति । ६.५०.४३ ॥

yathā tātaṁ daśarathaṁ yathā 'jaṁ ca pitāmaham ।
tathā bhavantamāsādya hṛdayaṁ me prasīdati ।
6.50.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४४ ॥
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः । वसानो विरजे वस्त्रे दिव्याभरणभूषितः । ६.५०.४४ ॥

ko bhavān rūpasampanno divyasraganulepanaḥ ।
vasāno viraje vastre divyābharaṇabhūṣitaḥ ।
6.50.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४५ ॥
तमुवाच महातेजा वैनतेयो महाबलः । पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः । ६.५०.४५ ॥

tamuvāca mahātejā vainateyo mahābalaḥ ।
patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ ।
6.50.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४६ ॥
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः । गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् । ६.५०.४६ ॥

ahaṁ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ ।
garutmāniha samprāpto yuvābhyāṁ sāhyakāraṇāt ।
6.50.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४७ ॥
असुरा वा महावीर्या दानवा वा महाबलाः । सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् । ६.५०.४७ ॥

asurā vā mahāvīryā dānavā vā mahābalāḥ ।
surāścāpi sagandharvāḥ puraskṛtya śatakratum ।
6.50.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४८ ॥
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम् । मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा । ६.५०.४८ ॥

nemaṁ mokṣayituṁ śaktāḥ śarabandhaṁ sudāruṇam ।
māyābalādindrajitā nirmitaṁ krūrakarmaṇā ।
6.50.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ४९ ॥
एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः । रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः । ६.५०.४९ ॥

ete nāgāḥ kādraveyā stīkṣṇadaṁṣṭrā viṣolbaṇāḥ ।
rakṣomāyāprabhāvena śarā bhūtvā tvadāśritāḥ ।
6.50.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५० ॥
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना । ६.५०.५० ॥

sabhāgyaścāsi dharmajña rāma satyaparākrama ।
lakṣmaṇena saha bhrātrā samare ripughātinā ।
6.50.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५१ ॥
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणो ऽहमागतः । सहसा युवयोः स्नेहात् सखित्वमनुपालयन् । ६.५०.५१ ॥

imaṁ śrutvā tu vṛttāntaṁ tvaramāṇo 'hamāgataḥ ।
sahasā yuvayoḥ snehāt sakhitvamanupālayan ।
6.50.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५२ ॥
मोक्षितौ महाघोरादस्मात् सायकबन्धनात् । अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि । ६.५०.५२ ॥

mokṣitau ca mahāghorādasmāt sāyakabandhanāt ।
apramādaśca kartavyo yuvābhyāṁ nityameva hi ।
6.50.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५३ ॥
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः । शूराणां शुद्धभावानां भवतामार्जवं बलम् । ६.५०.५३ ॥

prakṛtyā rākṣasāḥ sarve saṅgrāme kūṭayodhinaḥ ।
śūrāṇāṁ śuddhabhāvānāṁ bhavatāmārjavaṁ balam ।
6.50.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५४ ॥
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे । एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः । ६.५०.५४ ॥

tanna viśvasitavyaṁ vo rākṣasānāṁ raṇājire ।
etenaivopamānena nityaṁ jihmā hi rākṣasāḥ ।
6.50.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५५ ॥
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः । परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे । ६.५०.५५ ॥

evamuktvā tato rāmaṁ suparṇaḥ sumahābalaḥ ।
pariṣvajya suhṛt snigdhamāpraṣṭumupacakrame ।
6.50.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५६ ॥
सखे राघव धर्मज्ञ रिपूणामपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् । ६.५०.५६ ॥

sakhe rāghava dharmajña ripūṇāmapi vatsala ।
abhyanujñātumicchāmi gamiṣyāmi yathāgatam ।
6.50.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५७ ॥
कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि । ६.५०.५७ ॥

na ca kautūhalaṁ kāryaṁ sakhitvaṁ prati rāghava ।
kṛtakarmā raṇe vīraḥ sakhitvamanuvetsyasi ।
6.50.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५८ ॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं रिपुं हत्वा सीतां समुपलप्स्यसे । ६.५०.५८ ॥

bālavṛddhāvaśeṣāṁ tu laṅkāṁ kṛtvā śarormibhiḥ ।
rāvaṇaṁ ca ripuṁ hatvā sītāṁ samupalapsyase ।
6.50.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ५९ ॥
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः । रामं विरुजं कृत्वा मध्ये तेषां वनौकसाम् । ६.५०.५९ ॥

ityevamuktvā vacanaṁ suparṇaḥ śīghravikramaḥ ।
rāmaṁ ca virujaṁ kṛtvā madhye teṣāṁ vanaukasām ।
6.50.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६० ॥
प्रदक्षिणं ततः कृत्वा परिष्वज्य वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा । ६.५०.६० ॥

pradakṣiṇaṁ tataḥ kṛtvā pariṣvajya ca vīryavān ।
jagāmākāśamāviśya suparṇaḥ pavano yathā ।
6.50.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६१ ॥
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा । ६.५०.६१ ॥

virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ ।
siṁhanādāṁstadā nedurlāṅgūlān dudhuvustadā ।
6.50.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६२ ॥
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन् । दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् । ६.५०.६२ ॥

tato bherīḥ samājaghnurmṛdaṅgāṁścāpyanādayan ।
dadhmuḥ śaṅkhān samprahṛṣṭāḥ kṣvelantyapi yathāpuram ।
6.50.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६३ ॥
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः । द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः । ६.५०.६३ ॥

āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ ।
drumānutpāṭya vividhāṁstasthuḥ śatasahasraśaḥ ।
6.50.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६४ ॥
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः । ६.५०.६४ ॥

visṛjanto mahānādāṁstrāsayanto niśācarān ।
laṅkādvāraṇyupājagmuryoddhukāmāḥ plavaṅgamāḥ ।
6.50.64 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ५० · ६५ ॥
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे । ६.५०.६५ ॥

tatastu bhīmastumulo ninādo babhūva śākhāmṛgayūthapānām ।
kṣaye nidāghasya yathā ghanānāṁ nādaḥ subhīmo nadatāṁ niśīthe ।
6.50.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.