वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४९ · ३३ श्लोकाःSarga 49 · 33 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४९ · १ ॥
घोरेण शरबन्धेन बद्धौ दशरथात्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ । ६.४९.१ ॥

ghoreṇa śarabandhena baddhau daśarathātmajau ।
niśvasantau yathā nāgau śayānau rudhirokṣitau ।
6.49.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २ ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः । परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः । ६.४९.२ ॥

sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ ।
parivārya mahātmānau tasthuḥ śokapariplutāḥ ।
6.49.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ३ ॥
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितो ऽपि सन् । ६.४९.३ ॥

etasminnantare rāmaḥ pratyabudhyata vīryavān ।
sthiratvāt sattvayogācca śaraiḥ sandānito 'pi san ।
6.49.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ४ ॥
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः । ६.४९.४ ॥

tato dṛṣṭvā sarudhiraṁ viṣaṇṇaṁ gāḍhamarpitam ।
bhrātaraṁ dīnavadanaṁ paryadevayadāturaḥ ।
6.49.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ५ ॥
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा । शयानं यो ऽद्य पश्यामि भ्रातरं युधि निर्जितम् । ६.४९.५ ॥

kiṁ nu me sītayā kāryaṁ kiṁ kāryaṁ jīvitena vā ।
śayānaṁ yo 'dya paśyāmi bhrātaraṁ yudhi nirjitam ।
6.49.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ६ ॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता । लक्ष्मणसमो भ्राता सचिवः साम्परायिकः । ६.४९.६ ॥

śakyā sītāsamā nārī martyaloke vicinvatā ।
na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ ।
6.49.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ७ ॥
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम् । यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः । ६.४९.७ ॥

parityakṣyāmyahaṁ prāṇaṁ vānarāṇāṁ tu paśyatām ।
yadi pañcatvamāpannaḥ sumitrānandavardhanaḥ ।
6.49.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ८ ॥
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् । कथमम्भां सुमित्रां पुत्रदर्शनलालसाम् । ६.४९.८ ॥

kiṁ nu vakṣyāmi kausalyāṁ mātaraṁ kiṁ nu kaikayīm ।
kathamambhāṁ sumitrāṁ ca putradarśanalālasām ।
6.49.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ९ ॥
विवत्सां वेपमानां क्रोशन्तीं कुररीमिव । कथमाश्वासयिष्यामि यदा यास्यामि तं विना । ६.४९.९ ॥

vivatsāṁ vepamānāṁ ca krośantīṁ kurarīmiva ।
kathamāśvāsayiṣyāmi yadā yāsyāmi taṁ vinā ।
6.49.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १० ॥
कथं वक्ष्यामि शत्रुघ्नं भरतं यशस्विनम् । ६.४९.१० ॥

kathaṁ vakṣyāmi śatrughnaṁ bharataṁ ca yaśasvinam ।
6.49.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ११ ॥
मया सह वनं यातो विना तेन गतः पुनः । उपालम्भं शक्ष्यामि सोढुं बत सुमित्रया । ६.४९.११ ॥

mayā saha vanaṁ yāto vinā tena gataḥ punaḥ ।
upālambhaṁ na śakṣyāmi soḍhuṁ bata sumitrayā ।
6.49.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १२ ॥
इहैव देहं त्यक्ष्यामि हि जीवितुमुत्सहे । ६.४९.१२ ॥

ihaiva dehaṁ tyakṣyāmi na hi jīvitumutsahe ।
6.49.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १३ ॥
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ । लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् । ६.४९.१३ ॥

dhiṅmāṁ duṣkṛtakarmāṇamanāryaṁ yatkṛte hyasau ।
lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat ।
6.49.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १४ ॥
त्वं नित्यं विषण्णं मामाश्वासयसि लक्ष्मण । गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् । ६.४९.१४ ॥

tvaṁ nityaṁ sa viṣaṇṇaṁ māmāśvāsayasi lakṣmaṇa ।
gatāsurnādya śaknoṣi māmārtamabhibhāṣitum ।
6.49.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १५ ॥
येनाद्य निहता युद्धे राक्षसा विनिपातिताः । तस्यमेव क्षितौ वीरः शेते निहतः परैः । ६.४९.१५ ॥

yenādya nihatā yuddhe rākṣasā vinipātitāḥ ।
tasyameva kṣitau vīraḥ sa śete nihataḥ paraiḥ ।
6.49.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १६ ॥
शयानः शरतल्पे ऽस्मिन् स्वशोणितपरिप्लुतः । शरजालैश्चितो भाति भास्करो ऽस्तमिव व्रजन् । ६.४९.१६ ॥

śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ ।
śarajālaiścito bhāti bhāskaro 'stamiva vrajan ।
6.49.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १७ ॥
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् । रुजा चाब्रुवतो ऽप्यस्य दृष्टिरागेण सूच्यते । ६.४९.१७ ॥

bāṇābhihatamarmatvānna śaknotyabhibhāṣitum ।
rujā cābruvato 'pyasya dṛṣṭirāgeṇa sūcyate ।
6.49.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १८ ॥
यथैव मां वनं यान्तमनुयातो महाद्युतिः । अहमप्यनुयास्यामि तथैवैनं यमक्षयम् । ६.४९.१८ ॥

yathaiva māṁ vanaṁ yāntamanuyāto mahādyutiḥ ।
ahamapyanuyāsyāmi tathaivainaṁ yamakṣayam ।
6.49.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · १९ ॥
इष्टबन्धुजनो नित्यं मां नित्यमनुव्रतः । इमामद्य गतो ऽवस्थां ममानार्यस्य दुर्नयैः । ६.४९.१९ ॥

iṣṭabandhujano nityaṁ māṁ ca nityamanuvrataḥ ।
imāmadya gato 'vasthāṁ mamānāryasya durnayaiḥ ।
6.49.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २० ॥
सुरुष्टेनापि वीरेण लक्ष्मणेन संस्मरे । परुषं विप्रियं वापि श्रावितं तु कदाचन । ६.४९.२० ॥

suruṣṭenāpi vīreṇa lakṣmaṇena na saṁsmare ।
paruṣaṁ vipriyaṁ vāpi śrāvitaṁ tu kadācana ।
6.49.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २१ ॥
विससर्जैकवेगेन पञ्चबाणशतानि यः । इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः । ६.४९.२१ ॥

visasarjaikavegena pañcabāṇaśatāni yaḥ ।
iṣvastreṣvadhikastasmāt kārtavīryācca lakṣmaṇaḥ ।
6.49.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २२ ॥
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सो ऽयमुर्व्यां हतः शेते महार्हशयनोचितः । ६.४९.२२ ॥

astrairastrāṇi yo hanyācchakrasyāpi mahātmanaḥ ।
so 'yamurvyāṁ hataḥ śete mahārhaśayanocitaḥ ।
6.49.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २३ ॥
यन्मया कृतो राजा राक्षसानां विभीषणः । तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति संशयः । ६.४९.२३ ॥

yanmayā na kṛto rājā rākṣasānāṁ vibhīṣaṇaḥ ।
tacca mithyāpralaptaṁ māṁ pradhakṣyati na saṁśayaḥ ।
6.49.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २४ ॥
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितो ऽर्हसि । मत्वा हीनं मया राजन् रावणो ऽभिद्रवेद्बली । ६.४९.२४ ॥

asminmuhūrte sugrīva pratiyātumito 'rhasi ।
matvā hīnaṁ mayā rājan rāvaṇo 'bhidravedbalī ।
6.49.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २५ ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः । सागरं तर सुग्रीव नीलेन नलेन च । ६.४९.२५ ॥

aṅgadaṁ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ ।
sāgaraṁ tara sugrīva nīlena ca nalena ca ।
6.49.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २६ ॥
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च । ६.४९.२६ ॥

kṛtaṁ hanumatā kāryaṁ yadanyairduṣkaraṁ raṇe ।
ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca ।
6.49.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २७ ॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च । युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् । ६.४९.२७ ॥

aṅgadena kṛtaṁ karma maindena dvividena ca ।
yuddhaṁ kesariṇā saṅkhye ghoraṁ sampātinā kṛtam ।
6.49.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २८ ॥
गवयेन गवाक्षेण शरभेण गजेन च । अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः । चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः । ६.४९.२८ ॥

gavayena gavākṣeṇa śarabheṇa gajena ca ।
anyaiśca haribhiryuddhaṁ madarthe tyaktajīvitaiḥ ।
na cātikramituṁ śakyaṁ daivaṁ sugrīvamānuṣaiḥ ।
6.49.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · २९ ॥
यत्तु शक्यं वयस्येन सुहृदा परन्तप । कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा । ६.४९.२९ ॥

yattu śakyaṁ vayasyena suhṛdā ca parantapa ।
kṛtaṁ sugrīva tatsarvaṁ bhavatā dharmabhīruṇā ।
6.49.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ३० ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः । अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । ६.४९.३० ॥

mitrakāryaṁ kṛtamidaṁ bhavadbhirvānararṣabhāḥ ।
anujñātā mayā sarve yatheṣṭaṁ gantumarhatha ।
6.49.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ३१ ॥
शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम् । वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः । ६.४९.३१ ॥

śuśruvastasya te sarve vānarāḥ paridevanam ।
vartayāñcakuraśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ ।
6.49.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ३२ ॥
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः । आजगाम गदापाणिस्त्वरितो यत्र राघवः । ६.४९.३२ ॥

tataḥ sarvāṇyanīkāni sthāpayitvā vibhīṣaṇaḥ ।
ājagāma gadāpāṇistvarito yatra rāghavaḥ ।
6.49.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४९ · ३३ ॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् । वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * । ६.४९.३३ ॥

taṁ dṛṣṭvā tvaritaṁ yāntaṁ nīlāñjanacayopamam ।
vānarā dudruvuḥ sarve manyamānāstu rāvaṇim * ।
6.49.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.