वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४८ · ३७ श्लोकाःSarga 48 · 37 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४८ · १ ॥
भर्तारं निहतं दृष्ट्वा लक्ष्मणं महावलम् । विललाप भृशं सीता करुणं शोककर्शिता । ६.४८.१ ॥

bhartāraṁ nihataṁ dṛṣṭvā lakṣmaṇaṁ ca mahāvalam ।
vilalāpa bhṛśaṁ sītā karuṇaṁ śokakarśitā ।
6.48.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २ ॥
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च । ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः । ६.४८.२ ॥

ūcurlakṣaṇino ye māṁ putriṇyavidhaveti ca ।
te 'dya sarve hate rāme jñānino 'nṛtavādinaḥ ।
6.48.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३ ॥
यज्वनो महिषीं ये मामूचुः पत्नीं सत्रिणः । ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः । ६.४८.३ ॥

yajvano mahiṣīṁ ye māmūcuḥ patnīṁ ca satriṇaḥ ।
te 'dya sarve hate rāme jñānino 'nṛtavādinaḥ ।
6.48.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ४ ॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम् । ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः । ६.४८.४ ॥

ūcuḥ saṁśravaṇe ye māṁ dvijāḥ kārtāntikāḥ śubhām ।
te 'dya sarve hate rāme jñānino 'nṛtavādinaḥ ।
6.48.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ५ ॥
वीरपार्थिवपत्नी त्वं ये धन्येति मां विदुः । ते ऽद्य सर्वे हते रामे ज्ञानिनो ऽनृतवादिनः । ६.४८.५ ॥

vīrapārthivapatnī tvaṁ ye dhanyeti ca māṁ viduḥ ।
te 'dya sarve hate rāme jñānino 'nṛtavādinaḥ ।
6.48.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ६ ॥
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः । आधिराज्ये ऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह । ६.४८.६ ॥

imāni khalu padmāni pādayoryaiḥ kila striyaḥ ।
ādhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha ।
6.48.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ७ ॥
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः । नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा । ६.४८.७ ॥

vaidhavyaṁ yānti yairnāryo lakṣaṇairbhāgyadurlabhāḥ ।
nātmanastāni paśyāmi paśyantī hatalakṣaṇā ।
6.48.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ८ ॥
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः । तान्यद्य निहते रामे वितथानि भवन्ति मे । ६.४८.८ ॥

satyanāmāni padmāni strīṇāmuktāni lakṣaṇaiḥ ।
tānyadya nihate rāme vitathāni bhavanti me ।
6.48.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ९ ॥
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम । वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम । ६.४८.९ ॥

keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṅgate mama ।
vṛtte cāromaśe jaṅghe dantāścāviralā mama ।
6.48.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १० ॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू मे चितौ । अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम । ६.४८.१० ॥

śaṅkhe netre karau pādau gulphāvūrū ca me citau ।
anuvṛttanakhāḥ snigdhāḥ samāścāṅgulayo mama ।
6.48.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ११ ॥
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ । मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः । ६.४८.११ ॥

stanau cāviralau pīnau mamemau magnacūcukau ।
magnā cotsaṅginī nābhiḥ pārśvoraskāśca me citāḥ ।
6.48.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १२ ॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च । प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् । ६.४८.१२ ॥

mama varṇo maṇinibho mṛdūnyaṅgaruhāṇi ca ।
pratiṣṭhitāṁ dvādaśabhirmāmūcuḥ śubhalakṣaṇām ।
6.48.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १३ ॥
समग्रयवमच्छिद्रं पाणिपादं वर्णवत् । मन्दस्मितेत्येव मां कन्यालक्षणिनो द्विजाः । ६.४८.१३ ॥

samagrayavamacchidraṁ pāṇipādaṁ ca varṇavat ।
mandasmitetyeva ca māṁ kanyālakṣaṇino dvijāḥ ।
6.48.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १४ ॥
आधिराज्ये ऽभिषेको मे ब्राह्मणैः पतिना सह । कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् । ६.४८.१४ ॥

ādhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha ।
kṛtāntakuśalairuktaṁ tatsarvaṁ vitathīkṛtam ।
6.48.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १५ ॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च । तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ । ६.४८.१५ ॥

śodhayitvā janasthānaṁ pravṛttimupalabhya ca ।
tīrtvā sāgaramakṣobhyaṁ bhrātarau goṣpade hatau ।
6.48.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १६ ॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च । अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् । ६.४८.१६ ॥

nanu vāruṇamāgneyamaindraṁ vāyavyameva ca ।
astraṁ brahmaśiraścaiva rāghavau pratyapadyatām ।
6.48.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १७ ॥
अदृश्यमानेन रणे मायया वासवोपमौ । मम नाथावनाथाया निहतौ रामलक्ष्मणौ । ६.४८.१७ ॥

adṛśyamānena raṇe māyayā vāsavopamau ।
mama nāthāvanāthāyā nihatau rāmalakṣmaṇau ।
6.48.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १८ ॥
हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः । जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः । ६.४८.१८ ॥

na hi dṛṣṭipathaṁ prāpya rāghavasya raṇe ripuḥ ।
jīvan pratinivarteta yadyapi syānmanojavaḥ ।
6.48.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · १९ ॥
कालस्यातिभारो ऽस्ति कृतान्तश्च सुदुर्जयः । यत्र रामः सह भ्रात्रा शेते युधि निपातितः । ६.४८.१९ ॥

na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ ।
yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ ।
6.48.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २० ॥
शोचामि तथा रामं लक्ष्मणं महाबलम् । नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् । ६.४८.२० ॥

na śocāmi tathā rāmaṁ lakṣmaṇaṁ ca mahābalam ।
nātmānaṁ jananīṁ vāpi yathā śvaśrūṁ tapasvinīm ।
6.48.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २१ ॥
सा ऽनुचिन्तयते नित्यं समाप्तव्रतमागतम् । कदा द्रक्ष्यामि सीतां लक्ष्मणं सराघवम् । ६.४८.२१ ॥

sā 'nucintayate nityaṁ samāptavratamāgatam ।
kadā drakṣyāmi sītāṁ ca lakṣmaṇaṁ ca sarāghavam ।
6.48.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २२ ॥
परिदेवयमानां तां राक्षसी त्रिजटा ऽब्रवीत् । ६.४८.२२ ॥

paridevayamānāṁ tāṁ rākṣasī trijaṭā 'bravīt ।
6.48.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २३ ॥
मा विषादं कृथा देवि भर्ता ऽयं तव जीवति । ६.४८.२३ ॥

mā viṣādaṁ kṛthā devi bhartā 'yaṁ tava jīvati ।
6.48.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २४ ॥
कारणानि वक्ष्यामि महान्ति सदृशानि च । यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ । ६.४८.२४ ॥

kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca ।
yathemau jīvato devi bhrātarau rāmalakṣmaṇau ।
6.48.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २५ ॥
नहि कोपपरीतानि हर्षपर्युत्सुकानि च । भवन्ति युधि योधानां मुखानि निहते पतौ । ६.४८.२५ ॥

nahi kopaparītāni harṣaparyutsukāni ca ।
bhavanti yudhi yodhānāṁ mukhāni nihate patau ।
6.48.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २६ ॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः । दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ । ६.४८.२६ ॥

idaṁ vimānaṁ vaidehi puṣpakaṁ nāma nāmataḥ ।
divyaṁ tvāṁ dhārayennaivaṁ yadyetau gatajīvitau ।
6.48.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २७ ॥
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा । सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले । ६.४८.२७ ॥

hatavīrapradhānāṁ hi hatautsāhā nirudyamā ।
senā bhramati saṅkhyeṣu hatakarṇeva naurjale ।
6.48.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २८ ॥
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी । सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ । ६.४८.२८ ॥

iyaṁ punarasambhrāntā nirudvignā tarasvinī ।
senā rakṣati kākutsthau mayā prītyā niveditau ।
6.48.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · २९ ॥
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः । अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते । ६.४८.२९ ॥

sā tvaṁ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ ।
ahatau paśya kākutsthau snehādetad bravīmi te ।
6.48.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३० ॥
अनृतं नोक्तपूर्वं मे वक्ष्ये कदाचन । चारित्रसुखशीलत्वात् प्रविष्टा ऽसि मनो मम । ६.४८.३० ॥

anṛtaṁ noktapūrvaṁ me na ca vakṣye kadācana ।
cāritrasukhaśīlatvāt praviṣṭā 'si mano mama ।
6.48.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३१ ॥
नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः । तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव । इदं सुमहच्चिह्नं शनैः पश्यस्व मैथिलि । ६.४८.३१ ॥

nemau śakyau raṇe jetuṁ sendrairapi surāsuraiḥ ।
tādṛśaṁ darśanaṁ dṛṣṭvā mayā cāveditaṁ tava ।
idaṁ ca sumahaccihnaṁ śanaiḥ paśyasva maithili ।
6.48.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३२ ॥
निस्सञ्ज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते । प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम् । दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् । ६.४८.३२ ॥

nissañjñāvapyubhāvetau naiva lakṣmīrviyujyate ।
prāyeṇa gatasattvānāṁ puruṣāṇāṁ gatāyuṣām ।
dṛśyamāneṣu vaktreṣu paraṁ bhavati vaikṛtam ।
6.48.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३३ ॥
त्यज शोकं मोहं दुःखं जनकात्मजे । रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् । ६.४८.३३ ॥

tyaja śokaṁ ca mohaṁ ca duḥkhaṁ ca janakātmaje ।
rāmalakṣmaṇayorarthe nādya śakyamajīvitum ।
6.48.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३४ ॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा । कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली । ६.४८.३४ ॥

śrutvā tu vacanaṁ tasyāḥ sītā surasutopamā ।
kṛtāñjaliruvācedamevamastviti maithilī ।
6.48.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३५ ॥
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम् । दीना त्रिजटया सीता लङ्कामेव प्रवेशिता । ६.४८.३५ ॥

vimānaṁ puṣpakaṁ tattu sannivartya manojavam ।
dīnā trijaṭayā sītā laṅkāmeva praveśitā ।
6.48.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३६ ॥
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा । अशोकवनिकामेव राक्षसीभिः प्रवेशिता । ६.४८.३६ ॥

tatastrijaṭayā sārdhaṁ puṣpakādavaruhya sā ।
aśokavanikāmeva rākṣasībhiḥ praveśitā ।
6.48.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४८ · ३७ ॥
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम् । सम्प्रेक्ष्य सञ्चिन्त्य राजपुत्रौ परं विषादं समुपाजगाम । ६.४८.३७ ॥

praviśya sītā bahuvṛkṣaṣaṇḍāṁ tāṁ rākṣasendrasya vihārabhūmim ।
samprekṣya sañcintya ca rājaputrau paraṁ viṣādaṁ samupājagāma ।
6.48.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.