वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४७ · २३ श्लोकाःSarga 47 · 23 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४७ · १ ॥
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः । ६.४७.१ ॥

pratipraviṣṭe laṅkāṁ tu kṛtārthe rāvaṇātmaje ।
rāghavaṁ parivāryārtā rarakṣurvānararṣabhāḥ ।
6.47.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · २ ॥
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः । जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः । ६.४७.२ ॥

hanumānaṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ ।
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ ।
jāmbavānṛṣabhaḥ skandho rambhaḥ śatavaliḥ pṛthuḥ ।
6.47.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ३ ॥
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः । वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं वानराः । तृणेष्वपि चेष्टत्सु राक्षसा इति मेनिरे । ६.४७.३ ॥

vyūḍhānīkāśca yattāśca drumānādāya sarvataḥ ।
vīkṣamāṇā diśaḥ sarvāstiryagūrdhvaṁ ca vānarāḥ ।
tṛṇeṣvapi ca ceṣṭatsu rākṣasā iti menire ।
6.47.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ४ ॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् । आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा । ६.४७.४ ॥

rāvaṇaścāpi saṁhṛṣṭo visṛjyendrajitaṁ sutam ।
ājuhāva tataḥ sītārakṣiṇī rākṣasīstadā ।
6.47.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ५ ॥
राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः । ६.४७.५ ॥

rākṣasyastrijaṭā caiva śāsanāt samupasthitāḥ ।
6.47.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ६ ॥
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः । ६.४७.६ ॥

tā uvāca tato hṛṣṭo rākṣasī rākṣasādhipaḥ ।
6.47.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ७ ॥
हताविन्द्रजिता ऽख्यात वैदेह्या रामलक्ष्मणौ । पुष्पकं समारोप्य दर्शयध्वं हतौ रणे । ६.४७.७ ॥

hatāvindrajitā ' 'khyāta vaidehyā rāmalakṣmaṇau ।
puṣpakaṁ ca samāropya darśayadhvaṁ hatau raṇe ।
6.47.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ८ ॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सो ऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि । ६.४७.८ ॥

yadāśrayādavaṣṭabdhā neyaṁ māmupatiṣṭhati ।
so 'syā bharttā saha bhrātrā nirasto raṇamūrdhani ।
6.47.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ९ ॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता । ६.४७.९ ॥

nirviśaṅkā nirudvignā nirapekṣā ca maithilī ।
māmupasthāsyate sītā sarvābharaṇabhūṣitā ।
6.47.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १० ॥
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती । निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् । ६.४७.१० ॥

adya kālavaśaṁ prāptaṁ raṇe rāmaṁ salakṣmaṇam ।
avekṣya vinivṛttāśā cānyāṁ gatimapaśyatī ।
nirapekṣā viśālākṣī māmupasthāsyate svayam ।
6.47.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · ११ ॥
तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः । राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् । ६.४७.११ ॥

tasya tadvacanaṁ ca śrutvā rāvaṇasya durātmanaḥ ।
rākṣasyastāstathetyuktvā jagmurvai yatra puṣpakam ।
6.47.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १२ ॥
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया । अशोकवनिकास्थां तां मैथिलीं समुपानयन् । ६.४७.१२ ॥

tataḥ puṣpakamādāya rākṣasyo rāvaṇājñayā ।
aśokavanikāsthāṁ tāṁ maithilīṁ samupānayan ।
6.47.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १३ ॥
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् । सीतामारोपयामासुर्विमानं पुष्पकं तदा । ६.४७.१३ ॥

tāmādāya tu rākṣasyo bhartṛśokaparājitām ।
sītāmāropayāmāsurvimānaṁ puṣpakaṁ tadā ।
6.47.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १४ ॥
ततः पुष्पकमारोप्य सीतां त्रिजटया सह । जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ । ६.४७.१४ ॥

tataḥ puṣpakamāropya sītāṁ trijaṭayā saha ।
jagmurdarśayituṁ tasyai rākṣasyo rāmalakṣmaṇau ।
6.47.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १५ ॥
रावणो ऽकारयल्लङ्कां पताकाध्वजमालिनीम् । प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः । राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे । ६.४७.१५ ॥

rāvaṇo 'kārayallaṅkāṁ patākādhvajamālinīm ।
prāghoṣayata hṛṣṭaśca laṅkāyāṁ rākṣaseśvaraḥ ।
rāghavo lakṣmaṇaścaiva hatāvindrajitā raṇe ।
6.47.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १६ ॥
विमानेनापि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणां तु सर्वं सैन्यं निपातितम् । ६.४७.१६ ॥

vimānenāpi sītā tu gatvā trijaṭayā saha ।
dadarśa vānarāṇāṁ tu sarvaṁ sainyaṁ nipātitam ।
6.47.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १७ ॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् । वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः । ६.४७.१७ ॥

prahṛṣṭamanasaścāpi dadarśa piśitāśanān ।
vānarāṁścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ ।
6.47.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १८ ॥
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः । लक्ष्मणं चापि रामं विसञ्ज्ञौ शरपीडितौ । ६.४७.१८ ॥

tataḥ sītā dadarśobhau śayānau śaratalpayoḥ ।
lakṣmaṇaṁ cāpi rāmaṁ ca visañjñau śarapīḍitau ।
6.47.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · १९ ॥
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ । सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ । ६.४७.१९ ॥

vidhvastakavacau vīrau vipraviddhaśarāsanau ।
sāyakaiśchinnasarvāṅgau śarastambamayau kṣitau ।
6.47.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · २० ॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ । शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी । ६.४७.२० ॥

tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau ।
śayānau puṇḍarīkākṣau kumārāviva pāvakī ।
6.47.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · २१ ॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ । दुःखार्ता सुभृशं सीता सुचिरं विललाप ह । ६.४७.२१ ॥

śaratalpagatau vīrau tathābhūtau nararṣabhau ।
duḥkhārtā subhṛśaṁ sītā suciraṁ vilalāpa ha ।
6.47.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · २२ ॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा । प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा । ६.४७.२२ ॥

bhartāramanavadyāṅgī lakṣmaṇaṁ cāsitekṣaṇā ।
prekṣya pāṁsuṣu veṣṭantau ruroda janakātmajā ।
6.47.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४७ · २३ ॥
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ । वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद । ६.४७.२३ ॥

sā bāṣpaśokābhihatā samīkṣya tau bhrātarau devasamaprabhāvau ।
vitarkayantī nidhanaṁ tayoḥ sā duḥkhānvitā vākyamidaṁ jagāda ।
6.47.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.