वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४६ · ५० श्लोकाःSarga 46 · 50 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४६ · १ ॥
ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः । ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ । ६.४६.१ ॥

tato dyāṁ pṛthivīṁ caiva vīkṣamāṇā vanaukasaḥ ।
dadṛśuḥ santatau bāṇairbhrātarau rāmalakṣmaṇau ।
6.46.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २ ॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे । आजगामाथ तं देशं ससुग्रीवो विभीषणः । ६.४६.२ ॥

vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase ।
ājagāmātha taṁ deśaṁ sasugrīvo vibhīṣaṇaḥ ।
6.46.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३ ॥
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः । तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ । ६.४६.३ ॥

nīladvividamaindāśca suṣeṇakumudāṅgadāḥ ।
tūrṇaṁ hanumatā sārdhamanvaśocanta rāghavau ।
6.46.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४ ॥
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ । शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः । ६.४६.४ ॥

aceṣṭau mandaniśvāsau śoṇitaughapariplutau ।
śarajālācitau stabdhau śayānau śaratalpayoḥ ।
6.46.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ५ ॥
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ । रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ । ६.४६.५ ॥

niśvasantau yathā sarpau niśceṣṭau mandavikramau ।
rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau ।
6.46.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ६ ॥
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ । यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः । ६.४६.६ ॥

tau vīraśayane vīrau śayanau mandaceṣṭitau ।
yūthapaistaiḥ parivṛtau bāṣpavyākulalocanaiḥ ।
6.46.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ७ ॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः । ६.४६.७ ॥

rāghavau patitau dṛṣṭvā śarajālasamāvṛtau ।
babhūvurvyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ ।
6.46.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ८ ॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । चैनं मायया च्छन्नं ददृशू रावणिं रणे । ६.४६.८ ॥

antarikṣaṁ nirīkṣanto diśaḥ sarvāśca vānarāḥ ।
na cainaṁ māyayā cchannaṁ dadṛśū rāvaṇiṁ raṇe ।
6.46.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ९ ॥
तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् । ६.४६.९ ॥

ta tu māyāpraticchannaṁ māyayaiva vibhīṣaṇaḥ ।
vīkṣamāṇo dadarśātha bhrātuḥ putramavasthitam ।
6.46.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १० ॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे । ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः । ६.४६.१० ॥

tamapratimakarmāṇamapratidvandvamāhave ।
dadarśāntarhitaṁ vīraṁ varadānādvibhīṣaṇaḥ ।
6.46.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ११ ॥
तेजसा यशसा चैव विक्रमेण संयुतम् । ६.४६.११ ॥

tejasā yaśasā caiva vikrameṇa ca saṁyutam ।
6.46.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १२ ॥
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च । उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् । ६.४६.१२ ॥

indrajittvātmanaḥ karma tau śayānau samīkṣya ca ।
uvāca paramaprīto harṣayan sarvanairṛtān ।
6.46.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १३ ॥
दूषणस्य हन्तारौ खरस्य महाबलौ । सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ । ६.४६.१३ ॥

dūṣaṇasya ca hantārau kharasya ca mahābalau ।
sāditau māmakairbāṇairbhrātarau rāmalakṣṇau ।
6.46.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १४ ॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् । सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः । ६.४६.१४ ॥

nemau mokṣayituṁ śakyāvetasmādiṣubandhanāt ।
sarvairapi samāgamya sarṣisaṅghaiḥ surāsuraiḥ ।
6.46.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १५ ॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम । अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी । ६.४६.१५ ॥

yatkṛte cintayānasya śokārtasya piturmama ।
aspṛṣṭvā śayanaṁ gātraistriyāmā yāti śarvarī ।
6.46.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १६ ॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला । सो ऽयं मूलहरो ऽनर्थः सर्वेषां निहतो मया । ६.४६.१६ ॥

kṛtsneyaṁ yatkṛte laṅkā nadī varṣāsvivākulā ।
so 'yaṁ mūlaharo 'narthaḥ sarveṣāṁ nihato mayā ।
6.46.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १७ ॥
रामस्य लक्ष्मणस्यापि सर्वेषां वनौकसाम् । विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः । ६.४६.१७ ॥

rāmasya lakṣmaṇasyāpi sarveṣāṁ ca vanaukasām ।
vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ ।
6.46.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १८ ॥
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः । यूथपानपि तान् सर्वांस्ताडयामास रावणिः । ६.४६.१८ ॥

evamuktvā tu tān sarvān rākṣasān paripārśvataḥ ।
yūthapānapi tān sarvāṁstāḍayāmāsa rāvaṇiḥ ।
6.46.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · १९ ॥
नीलं नवभिराहत्य मैन्दं द्विविदं तथा । त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः । ६.४६.१९ ॥

nīlaṁ navabhirāhatya maindaṁ ca dvividaṁ tathā ।
tribhistribhiramitraghnastatāpa pravareṣubhiḥ ।
6.46.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २० ॥
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि । हनूमतो वेगवतो विससर्ज शरान् दश । ६.४६.२० ॥

jāmbavantaṁ maheṣvāso viddhvā bāṇena vakṣasi ।
hanūmato vegavato visasarja śarān daśa ।
6.46.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २१ ॥
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ । द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः । ६.४६.२१ ॥

gavākṣaṁ śarabhaṁ caiva dvāvapyamitatejasau ।
dvābhyāṁ dvābhyāṁ mahāvego vivyādha yudhi rāvaṇiḥ ।
6.46.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २२ ॥
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् । विव्याध बहुभिर्बाणैस्त्वरमाणो ऽथ रावणिः । ६.४६.२२ ॥

golāṅgūleśvaraṁ caiva vāliputramathāṅgadam ।
vivyādha bahubhirbāṇaistvaramāṇo 'tha rāvaṇiḥ ।
6.46.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २३ ॥
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः । ननाद बलवांस्तत्र महासत्त्वः रावणिः । ६.४६.२३ ॥

tān vānaravarān bhittvā śarairagniśikhopamaiḥ ।
nanāda balavāṁstatra mahāsattvaḥ sa rāvaṇiḥ ।
6.46.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २४ ॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा वानरान् । प्रजहास महाबाहुर्वचनं चेदमब्रवीत् । ६.४६.२४ ॥

tānardayitvā bāṇaughaistrāsayitvā ca vānarān ।
prajahāsa mahābāhurvacanaṁ cedamabravīt ।
6.46.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २५ ॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे । सहितौ भ्रातरावेतौ निशामयत राक्षसाः । ६.४६.२५ ॥

śarabandhena ghoreṇa mayā baddhau camūmukhe ।
sahitau bhrātarāvetau niśāmayata rākṣasāḥ ।
6.46.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २६ ॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः । परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः । ६.४६.२६ ॥

evamuktāstu te sarve rākṣasāḥ kūṭayodhinaḥ ।
paraṁ vismayamājagmuḥ karmaṇā tena harṣitāḥ ।
6.46.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २७ ॥
विनेदुश्च महानादान् सर्वतो जलदोपमाः । हतो राम इति ज्ञात्वा रावणिं समपूजयन् । ६.४६.२७ ॥

vineduśca mahānādān sarvato jaladopamāḥ ।
hato rāma iti jñātvā rāvaṇiṁ samapūjayan ।
6.46.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २८ ॥
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ । वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत । ६.४६.२८ ॥

niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau ।
vasudhāyāṁ nirucchvāsau hatāvityanvamanyata ।
6.46.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · २९ ॥
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः । प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् । ६.४६.२९ ॥

harṣeṇa tu samāviṣṭa indrajit samitiñjayaḥ ।
praviveśa purīṁ laṅkāṁ harṣayan sarvarākṣasān ।
6.46.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३० ॥
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते । सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् । ६.४६.३० ॥

rāmalakṣmaṇayorddaṣṭvā śarīre sāyakaiścite ।
sarvāṇi cāṅgopāṅgāni sugrīvaṁ bhayamāviśat ।
6.46.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३१ ॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः । सबाष्पवदनं दीनं शोकव्याकुललोचनम् । ६.४६.३१ ॥

tamuvāca paritrastaṁ vānarendraṁ vibhīṣaṇaḥ ।
sabāṣpavadanaṁ dīnaṁ śokavyākulalocanam ।
6.46.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३२ ॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम् । एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः । ६.४६.३२ ॥

alaṁ trāsena sugrīva bāṣpavego nigṛhyatām ।
evaṁ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ ।
6.46.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३३ ॥
सशेषभाग्यता ऽस्माकं यदि वीर भविष्यति । मोहमेतौ प्रहास्येते महात्मानौ महाबलौ । ६.४६.३३ ॥

saśeṣabhāgyatā 'smākaṁ yadi vīra bhaviṣyati ।
mohametau prahāsyete mahātmānau mahābalau ।
6.46.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३४ ॥
पर्यवस्थापयात्मानमनाथं मां वानर । सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् । ६.४६.३४ ॥

paryavasthāpayātmānamanāthaṁ māṁ ca vānara ।
satyadharmābhiraktānāṁ nāsti mṛtyukṛtaṁ bhayam ।
6.46.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३५ ॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना । सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः । ६.४६.३५ ॥

evamuktvā tatastasya jalaklinnena pāṇinā ।
sugrīvasya śubhe netre pramamārja vibhiṣaṇaḥ ।
6.46.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३६ ॥
ततः सलिलमादाय विद्यया परिजप्य च । सुग्रीवनेत्रे धर्मात्मा ममार्ज विभीषणः । ६.४६.३६ ॥

tataḥ salilamādāya vidyayā parijapya ca ।
sugrīvanetre dharmātmā sa mamārja vibhīṣaṇaḥ ।
6.46.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३७ ॥
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः । अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः । ६.४६.३७ ॥

pramṛjya vadanaṁ tasya kapirājasya dhīmataḥ ।
abravīt kālasamprāptamasambhramamidaṁ vacaḥ ।
6.46.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३८ ॥
कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम् । अतिस्नेहो ऽप्यकाले ऽस्मिन् मरणायोपकल्पते । ६.४६.३८ ॥

na kālaḥ kapirājendra vaiklavyamanuvartitum ।
atisneho 'pyakāle 'smin maraṇāyopakalpate ।
6.46.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ३९ ॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् । हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् । ६.४६.३९ ॥

tasmādutsṛjya vaiklavyaṁ sarvakāryavināśanam ।
hitaṁ rāmapurogāṇāṁ sainyānāmanucintyatām ।
6.46.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४० ॥
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः । लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः । ६.४६.४० ॥

athavā rakṣyatāṁ rāmo yāvat sañjñāviparyayaḥ ।
labdhasañjñau hi kākutsthau bhayaṁ no vyapaneṣyataḥ ।
6.46.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४१ ॥
नैतत् किञ्चन रामस्य रामो मुमूर्षति । ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् । ६.४६.४१ ॥

naitat kiñcana rāmasya na ca rāmo mumūrṣati ।
na hyenaṁ hāsyate lakṣmīrdurlabhā yā gatāyuṣām ।
6.46.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४२ ॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम् । यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् । ६.४६.४२ ॥

tasmādāśvāsayātmānaṁ balaṁ cāśvāsaya svakam ।
yāvat kāryāṇi sarvāṇi punaḥ saṁsthāpayāmyaham ।
6.46.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४३ ॥
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः । कर्णे कर्णे प्रकथिता हरयो हरिसत्तम । ६.४६.४३ ॥

ete hi phullanayanāstrāsādāgatasādhvasāḥ ।
karṇe karṇe prakathitā harayo harisattama ।
6.46.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४४ ॥
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम् । त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् । ६.४६.४४ ॥

māṁ tu dṛṣṭvā pradhāvantamanīkaṁ sampraharṣitum ।
tyajantu harayastrāsaṁ bhuktapūrvāmiva srajam ।
6.46.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४५ ॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः । विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः । ६.४६.४५ ॥

samāśvāsya tu sugrīvaṁ rākṣasendro vibhīṣaṇaḥ ।
vidrutaṁ vānarānīkaṁ tatsamāśvāsayat punaḥ ।
6.46.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४६ ॥
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः । विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् । ६.४६.४६ ॥

indrajittu mahāmāyaḥ sarvasainyasamāvṛtaḥ ।
viveśa nagarīṁ laṅkāṁ pitaraṁ cābhyupāgamat ।
6.46.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४७ ॥
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः । आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ । ६.४६.४७ ॥

tatra rāvaṇamāsīnamabhivādya kṛtāñjaliḥ ।
ācacakṣe priyaṁ pitre nihatau rāmalakṣmaṇau ।
6.46.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४८ ॥
उत्पपात ततो हृष्टः पुत्रं परिषस्वजे । रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ । उपाघ्राय मूर्ध्न्येनं पप्रच्छ प्रीतमानसः । ६.४६.४८ ॥

utpapāta tato hṛṣṭaḥ putraṁ ca pariṣasvaje ।
rāvaṇo rakṣasāṁ madhye śrutvā śatrū nipātitau ।
upāghrāya sa mūrdhnyenaṁ papraccha prītamānasaḥ ।
6.46.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ४९ ॥
पृच्छते यथावृत्तं पित्रे सर्वं न्यवेदयत् । यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ । ६.४६.४९ ॥

pṛcchate ca yathāvṛttaṁ pitre sarvaṁ nyavedayat ।
yathā tau śarabandhena niśceṣṭau niṣprabhau kṛtau ।
6.46.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४६ · ५० ॥
हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य । जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचा ऽभिननन्द पुत्रम् । ६.४६.५० ॥

sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya ।
jahau jvaraṁ dāśaratheḥ samutthitaṁ prahṛṣya vācā 'bhinananda putram ।
6.46.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.