वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४४ · ४१ श्लोकाःSarga 44 · 41 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४४ · १ ॥
युद्ध्यतामेव तेषां तु तदा वानररक्षसाम् । रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी । ६.४४.१ ॥

yuddhyatāmeva teṣāṁ tu tadā vānararakṣasām ।
ravirastaṁ gato rātriḥ pravṛttā prāṇahāriṇī ।
6.44.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २ ॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् । सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् । ६.४४.२ ॥

anyonyaṁ baddhavairāṇāṁ ghorāṇāṁ jayamicchatām ।
sampravṛttaṁ niśāyuddhaṁ tadā vānararakṣasām ।
6.44.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३ ॥
राक्षसो ऽसीति हरयो हरिश्चासीति राक्षसाः । अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे । ६.४४.३ ॥

rākṣaso 'sīti harayo hariścāsīti rākṣasāḥ ।
anyonyaṁ samare jaghnustasmiṁstamasi dāruṇe ।
6.44.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ४ ॥
जहि दारय चैहीति कथं विद्रवसीति च । एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे । ६.४४.४ ॥

jahi dāraya caihīti kathaṁ vidravasīti ca ।
evaṁ sutumulaḥ śabdastasmiṁstamasi śuśruve ।
6.44.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ५ ॥
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः । सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव । ६.४४.५ ॥

kālāḥ kāñcanasannāhāstasmiṁstamasi rākṣasāḥ ।
samprādṛśyanta śailendrā dīptauṣadhivanā iva ।
6.44.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ६ ॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः । परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् । ६.४४.६ ॥

tasmiṁstamasi duṣpāre rākṣasāḥ krodhamūrcchitāḥ ।
paripeturmahāvegā bhakṣayantaḥ plavaṅgamān ।
6.44.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ७ ॥
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान् । आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् । ६.४४.७ ॥

te hayān kāñcanāpīḍān dhvajāṁścāgniśikhopamān ।
āplutya daśanaistīkṣṇairbhīmakopā vyadārayan ।
6.44.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ८ ॥
वानरा बलिनो युद्धे ऽक्षोभयन् राक्षसीं चमूम् । कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान् । चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः । ६.४४.८ ॥

vānarā balino yuddhe 'kṣobhayan rākṣasīṁ camūm ।
kuñjarān kuñjarārohān patākādhvajino sthān ।
cakarṣuśca dadaṁśuśca daśanaiḥ krodhamūrcchitāḥ ।
6.44.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ९ ॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः । दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः । ६.४४.९ ॥

lakṣmaṇaścāpi rāmaśca śarairāśīviṣopamaiḥ ।
dṛśyādṛśyāni rakṣāṁsi pravarāṇi nijaghnatuḥ ।
6.44.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १० ॥
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् । रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः । ६.४४.१० ॥

turaṅgakhuravidhvastaṁ rathanemisamutthitam ।
rurodha karṇanetrāṇi yuddhyatāṁ dharaṇīrajaḥ ।
6.44.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ११ ॥
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे । रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः । ६.४४.११ ॥

vartamāne mahāghore saṅgrāme romaharṣaṇe ।
rudhirodā mahāghorā nadyastatra prasusruvuḥ ।
6.44.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १२ ॥
ततो भेरीमृदङ्गानां पणवानां निस्वनः । शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः । ६.४४.१२ ॥

tato bherīmṛdaṅgānāṁ paṇavānāṁ ca nisvanaḥ ।
śaṅkhaveṇusvanonmiśraḥ sambabhūvādbhutopamaḥ ।
6.44.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १३ ॥
हतानां स्तनमानानां राक्षसानां निस्वनः । शस्तानां वानराणां सम्बभूवातिदारुणः । ६.४४.१३ ॥

hatānāṁ stanamānānāṁ rākṣasānāṁ ca nisvanaḥ ।
śastānāṁ vānarāṇāṁ ca sambabhūvātidāruṇaḥ ।
6.44.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १४ ॥
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः । निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः । ६.४४.१४ ॥

hatairvānaravīraiśca śaktiśūlaparaśvadhaiḥ ।
nihataiḥ parvatāgraiśca rākṣasaiḥ kāmarūpibhiḥ ।
6.44.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १५ ॥
शस्त्रपुष्पोपहारा तत्रासीद्युद्धमेदिनी । दुर्ज्ञेया दुर्निवेशा शोणितास्रावकर्दमा । ६.४४.१५ ॥

śastrapuṣpopahārā ca tatrāsīdyuddhamedinī ।
durjñeyā durniveśā ca śoṇitāsrāvakardamā ।
6.44.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १६ ॥
सा बभूव निशा घोरा हरिराक्षसहारिणी । कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा । ६.४४.१६ ॥

sā babhūva niśā ghorā harirākṣasahāriṇī ।
kālarātrīva bhūtānāṁ sarveṣāṁ duratikramā ।
6.44.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १७ ॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे । राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः । ६.४४.१७ ॥

tataste rākṣasāstatra tasmiṁstamasi dāruṇe ।
rāmamevābhyavartanta saṁsṛṣṭāḥ śaravṛṣṭibhiḥ ।
6.44.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १८ ॥
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम् । उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे । ६.४४.१८ ॥

teṣāmāpatatāṁ śabdaḥ kruddhānāmapi garjatām ।
udvarta iva saptānāṁ samudrāṇāṁ praśuśruve ।
6.44.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · १९ ॥
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान् । निमेषान्तरमात्रेण शितैरग्निशिखोपमैः । ६.४४.१९ ॥

teṣāṁ rāmaḥ śaraiṣṣaṅbhiṣṣaḍ jaghāna niśācarān ।
nimeṣāntaramātreṇa śitairagniśikhopamaiḥ ।
6.44.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २० ॥
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ । वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ । ६.४४.२० ॥

yamaśatruśca durdharṣo mahāpārśvamahodarau ।
vajradaṁṣṭro mahākāyastau cobhau śukasāraṇau ।
6.44.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २१ ॥
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः । युद्धादपसृतास्तत्र सावशेषायुषो ऽभवन् । ६.४४.२१ ॥

te tu rāmeṇa bāṇaughaiḥ sarve marmasu tāḍitāḥ ।
yuddhādapasṛtāstatra sāvaśeṣāyuṣo 'bhavan ।
6.44.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २२ ॥
तत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः । दिशश्चकार विमलाः प्रदिशश्च महाबलः । ६.४४.२२ ॥

tatra kāñcanacitrāṅgaiḥ śarairagniśikhopamaiḥ ।
diśaścakāra vimalāḥ pradiśaśca mahābalaḥ ।
6.44.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २३ ॥
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः । ते ऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् । ६.४४.२३ ॥

ye tvanye rākṣasā bhīmā rāmasyābhimukhe sthitāḥ ।
te 'pi naṣṭāḥ samāsādya pataṅga iva pāvakam ।
6.44.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २४ ॥
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः । बभूव रजनी चित्रा खद्योतैरिव शारदी । ६.४४.२४ ॥

suvarṇapuṅkhairviśikhaiḥ sampatadbhiḥ sahasraśaḥ ।
babhūva rajanī citrā khadyotairiva śāradī ।
6.44.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २५ ॥
राक्षसानां निनदैर्हरीणां चापि निस्वनैः । सा बभूव निशा घोरा भूयो घोरतरा तदा । ६.४४.२५ ॥

rākṣasānāṁ ca ninadairharīṇāṁ cāpi nisvanaiḥ ।
sā babhūva niśā ghorā bhūyo ghoratarā tadā ।
6.44.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २६ ॥
तेन शब्देन महता प्रवृद्धेन समन्ततः । त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः । ६.४४.२६ ॥

tena śabdena mahatā pravṛddhena samantataḥ ।
trikūṭaḥ kandarākīrṇaḥ pravyāharadivācalaḥ ।
6.44.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २७ ॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः । सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् । ६.४४.२७ ॥

golāṅgūlā mahākāyāstamasā tulyavarcasaḥ ।
sampariṣvajya bāhubhyāṁ bhakṣayan rajanīcarān ।
6.44.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २८ ॥
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः । रावणिं निजघानाशु सारथिं हयानपि । ६.४४.२८ ॥

aṅgadastu raṇe śatruṁ nihantuṁ samupasthitaḥ ।
rāvaṇiṁ nijaghānāśu sārathiṁ ca hayānapi ।
6.44.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · २९ ॥
वर्तमाने तदा घोरे सङ्ग्रामे भृशदारुणे । इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः । अङ्गदेन महाकायस्तत्रैवान्तरधीयत । ६.४४.२९ ॥

vartamāne tadā ghore saṅgrāme bhṛśadāruṇe ।
indrajittu rathaṁ tyaktvā hatāśvo hatasārathiḥ ।
aṅgadena mahākāyastatraivāntaradhīyata ।
6.44.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३० ॥
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः । तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ । ६.४४.३० ॥

tatkarma vāliputrasya sarve devāḥ saharṣibhiḥ ।
tuṣṭuvuḥ pūjanārhasya tau cobhau rāmalakṣmaṇau ।
6.44.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३१ ॥
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि । तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् । ६.४४.३१ ॥

prabhāvaṁ sarvabhūtāni vidurindrajito yudhi ।
tena te taṁ mahātmānaṁ tuṣṭā dṛṣṭvā pradharṣitam ।
6.44.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३२ ॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः । साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् । ६.४४.३२ ॥

tataḥ prahṛṣṭāḥ kapayaḥ sasugrīvavibhīṣaṇāḥ ।
sādhu sādhviti neduśca dṛṣṭvā śatruṁ pradharṣitam ।
6.44.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३३ ॥
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा । संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् । ६.४४.३३ ॥

indrajittu tadā tena nirjito bhīmakarmaṇā ।
saṁyuge vāliputreṇa krodhaṁ cakre sudāruṇam ।
6.44.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३४ ॥
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् । ६.४४.३४ ॥

etasminnantare rāmo vānarān vākyamabravīt ।
6.44.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३५ ॥
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः । ६.४४.३५ ॥

sarve bhavantastiṣṭhantu kapirājena saṅgatāḥ ।
6.44.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३६ ॥
ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् । भवतामर्थसिद्ध्यर्थं कालेन समागतः । अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः । ६.४४.३६ ॥

sa brahmaṇā dattavarastrailokyaṁ bādhate bhṛśam ।
bhavatāmarthasiddhyarthaṁ kālena sa samāgataḥ ।
adyaiva kṣamitavyaṁ me bhavanto vigatajvarāḥ ।
6.44.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३७ ॥
सो ऽन्तर्धानगतः पापो रावणी रणकर्कशः । अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः । ६.४४.३७ ॥

so 'ntardhānagataḥ pāpo rāvaṇī raṇakarkaśaḥ ।
adṛśyo niśitān bāṇān mumocāśanivarcasaḥ ।
6.44.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३८ ॥
रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः । बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः । ६.४४.३८ ॥

sa rāmaṁ lakṣmaṇaṁ caiva ghorairnāgamayaiḥ śaraiḥ ।
bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ ।
6.44.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ३९ ॥
मायया संवृतस्तत्र मोहयन् राघवौ युधि । अदृश्यः सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ । ६.४४.३९ ॥

māyayā saṁvṛtastatra mohayan rāghavau yudhi ।
adṛśyaḥ sarvabhūtānāṁ kūṭayodhī niśācaraḥ ।
babandha śarabandhena bhrātarau rāmalakṣmaṇau ।
6.44.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ४० ॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः । सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः । ६.४४.४० ॥

tau tena puruṣavyāghrau kruddhenāśīviṣaiḥ śaraiḥ ।
sahasā nihatau vīrau tadā praikṣanta vānarāḥ ।
6.44.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४४ · ४१ ॥
प्रकाशरूपस्तु यदा शक्तस्तौ बाधितुं राक्षसराजपुत्रः । मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा । ६.४४.४१ ॥

prakāśarūpastu yadā na śaktastau bādhituṁ rākṣasarājaputraḥ ।
māyāṁ prayoktuṁ samupājagāma babandha tau rājasutau mahātmā ।
6.44.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.