वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४२ · ४७ श्लोकाःSarga 42 · 47 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४२ · १ ॥
ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः । ६.४२.१ ॥

tataste rākṣasāstatra gatvā rāvaṇamandiram ।
nyavedayan purīṁ ruddhāṁ rāmeṇa saha vānaraiḥ ।
6.42.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २ ॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं कृत्वा प्रासादं सो ऽध्यरोहत । ६.४२.२ ॥

ruddhāṁ tu nagarīṁ śrutvā jātakrodho niśācaraḥ ।
vidhānaṁ dviguṇaṁ kṛtvā prāsādaṁ so 'dhyarohata ।
6.42.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३ ॥
ददर्शावृतां लङ्कां सशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः । ६.४२.३ ॥

sa dadarśāvṛtāṁ laṅkāṁ saśailavanakānanām ।
asaṅkhyeyairharigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ ।
6.42.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४ ॥
दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरो ऽभवत् । ६.४२.४ ॥

sa dṛṣṭvā vānaraiḥ sarvāṁ vasudhāṁ kavalīkṛtām ।
kathaṁ kṣapayitavyāḥ syuriti cintāparo 'bhavat ।
6.42.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ५ ॥
चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शायतलोचनः । ६.४२.५ ॥

sa cintayitvā suciraṁ dhairyamālambya rāvaṇaḥ ।
rāghavaṁ hariyūthāṁśca dadarśāyatalocanaḥ ।
6.42.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ६ ॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् । ६.४२.६ ॥

rāghavaḥ saha sainyena mudito nāma pupluve ।
laṅkāṁ dadarśa guptāṁ vai sarvato rākṣasairvṛtām ।
6.42.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ७ ॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा । ६.४२.७ ॥

dṛṣṭvā dāśarathirlaṅkāṁ citradhvajapatākinīm ।
jagāma sahasā sītāṁ dūyamānena cetasā ।
6.42.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ८ ॥
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी । ६.४२.८ ॥

atra sā mṛgaśāvākṣī matkṛte janakātmajā ।
pīḍyate śokasantaptā kṛśā sthaṇḍilaśāyinī ।
6.42.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ९ ॥
पीड्यमानां धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे । ६.४२.९ ॥

pīḍyamānāṁ sa dharmātmā vaidehīmanucintayan ।
kṣipramājñāpayāmāsa vānarān dviṣatāṁ vadhe ।
6.42.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १० ॥
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा । सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् । ६.४२.१० ॥

evamukte tu vacane rāmeṇākliṣṭakarmaṇā ।
saṅgharṣamāṇāḥ plavagāḥ siṁhanādairanādayan ।
6.42.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ११ ॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा । इति स्म दधिरे सर्वे मनांसि हरियूथपाः । ६.४२.११ ॥

śikharairvikirāmaināṁ laṅkāṁ muṣṭibhireva vā ।
iti sma dadhire sarve manāṁsi hariyūthapāḥ ।
6.42.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १२ ॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च । तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः । ६.४२.१२ ॥

udyamya giriśṛṅgāṇi śikharāṇi mahānti ca ।
tarūṁścotpāṭya vividhāṁstiṣṭhanti hariyūthapāḥ ।
6.42.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १३ ॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः । राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा । ६.४२.१३ ॥

prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ ।
rāghavapriyakāmārthaṁ laṅkāmāruruhustadā ।
6.42.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १४ ॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः । लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः । ६.४२.१४ ॥

te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ ।
laṅkāmevābhyavartanta sālatālaśilāyudhāḥ ।
6.42.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १५ ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः । प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च । ६.४२.१५ ॥

te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṅgamāḥ ।
prākārāgrāṇyaraṇyāni mamanthustoraṇāni ca ।
6.42.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १६ ॥
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः । पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः । ६.४२.१६ ॥

parikhāḥ pūrayanti sma prasannasalilāyutāḥ ।
pāṁsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ ।
6.42.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १७ ॥
ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः । कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा । ६.४२.१७ ॥

tataḥ sahasrayūthāśca koṭīyūthāśca vānarāḥ ।
koṭīśatayutāścānye laṅkāmāruruhustadā ।
6.42.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १८ ॥
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः । कैलासशिखराभाणि गोपुराणि प्रमथ्य च । ६.४२.१८ ॥

kāñcanāni pramṛdnantastoraṇāni plavaṅgamāḥ ।
kailāsaśikharābhāṇi gopurāṇi pramathya ca ।
6.42.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · १९ ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । लङ्कां तामभिधावन्ति महावारणसन्निभाः । ६.४२.१९ ॥

āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ ।
laṅkāṁ tāmabhidhāvanti mahāvāraṇasannibhāḥ ।
6.42.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २० ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः । ६.४२.२० ॥

jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ ।
rājā jayati sugrīvo rāghaveṇābhipālitaḥ ।
6.42.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २१ ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः । अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः । ६.४२.२१ ॥

ityevaṁ ghoṣayantaśca garjantaśca plavaṅgamāḥ ।
abhyadhāvanta laṅkāyāḥ prākāraṁ kāmarūpiṇaḥ ।
6.42.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २२ ॥
वीरबाहुः सुबाहुश्च नलश्च वनगोचरः । निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः । एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् । ६.४२.२२ ॥

vīrabāhuḥ subāhuśca nalaśca vanagocaraḥ ।
nipīḍyopaniviṣṭāste prākāraṁ hariyūthapāḥ ।
etasminnantare cakruḥ skandhāvāraniveśanam ।
6.42.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २३ ॥
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः । आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः । ६.४२.२३ ॥

pūrvadvāraṁ tu kumudaḥ koṭībhirdaśabhirvṛtaḥ ।
āvṛtya balavāṁstasthau haribhirjitakāśibhiḥ ।
6.42.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २४ ॥
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः । पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः । ६.४२.२४ ॥

sāhāyyārthaṁ tu tasyaiva niviṣṭaḥ praghaso hariḥ ।
panasaśca mahābāhurvānarairbahubhirvṛtaḥ ।
6.42.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २५ ॥
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः । आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः । ६.४२.२५ ॥

dakṣiṇaṁ dvāramāgamya vīraḥ śatavaliḥ kapiḥ ।
āvṛtya balavāṁstasthau viṁśatyā koṭibhirvṛtaḥ ।
6.42.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २६ ॥
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः । आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः । ६.४२.२६ ॥

suṣeṇaḥ paścimadvāraṁ gatastārāpitā hariḥ ।
āvṛtya balavāṁstasthau ṣaṣṭikoṭibhirāvṛtaḥ ।
6.42.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २७ ॥
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह । आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः । ६.४२.२७ ॥

uttaraṁ dvāramāsādya rāmaḥ saumitriṇā saha ।
āvṛtya balavāṁstasthau sugrīvaśca harīśvaraḥ ।
6.42.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २८ ॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः । वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः । ६.४२.२८ ॥

golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ ।
vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ ।
6.42.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · २९ ॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः । वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः । ६.४२.२९ ॥

ṛkṣāṇāṁ bhīmavegānāṁ dhūmraḥ śatrunibarhaṇaḥ ।
vṛtaḥ koṭyā mahāvīryastastho rāmasya pārśvataḥ ।
6.42.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३० ॥
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः । वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः । ६.४२.३० ॥

sannaddhastu mahāvīryo gadāpāṇirvibhīṣaṇaḥ ।
vṛto yattaistu sacivaistasthau tatra mahābalaḥ ।
6.42.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३१ ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः । समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् । ६.४२.३१ ॥

gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ ।
samantāt paridhāvanto rarakṣurharivāhinīm ।
6.42.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३२ ॥
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः । निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा । ६.४२.३२ ॥

tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ ।
niryāṇaṁ sarvasainyānāṁ drutamājñāpayattadā ।
6.42.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३३ ॥
एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम् । सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः । ६.४२.३३ ॥

etacchutvā tato vākyaṁ rāvaṇasya mukhodgatam ।
sahasā bhīmanirghoṣamudghuṣṭaṁ rajanīcaraiḥ ।
6.42.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३४ ॥
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः । हेमकोणाहता भीमा राक्षसानां समन्ततः । ६.४२.३४ ॥

tataḥ pracoditā bheryaścandrapāṇḍarapuṣkarāḥ ।
hemakoṇāhatā bhīmā rākṣasānāṁ samantataḥ ।
6.42.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३५ ॥
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः । राक्षसानां सुघोराणां मुखमारुतपूरिताः । ६.४२.३५ ॥

vineduśca mahāghoṣāḥ śaṅkhāḥ śatasahasraśaḥ ।
rākṣasānāṁ sughorāṇāṁ mukhamārutapūritāḥ ।
6.42.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३६ ॥
ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः । विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः । ६.४२.३६ ॥

te babhuḥ śubhanīlāṅgāḥ saśaṅkā rajanīcarāḥ ।
vidyunmaṇḍalasannaddhāḥ sabalākā ivāmbudāḥ ।
6.42.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३७ ॥
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः । समये पूर्यमाणस्य वेगा इव महोदधेः । ६.४२.३७ ॥

niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ ।
samaye pūryamāṇasya vegā iva mahodadheḥ ।
6.42.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३८ ॥
ततो वानरसैन्येन मुक्तो नादः समन्ततः । मलयः पूरितो येन सानुप्रस्थकन्दरः । ६.४२.३८ ॥

tato vānarasainyena mukto nādaḥ samantataḥ ।
malayaḥ pūrito yena sa sānuprasthakandaraḥ ।
6.42.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ३९ ॥
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं सागरं चैव नादयन् । ६.४२.३९ ॥

śaṅkhadundubhisaṅghuṣṭaḥ siṁhanādastarasvinām ।
pṛthivīṁ cāntarikṣaṁ ca sāgaraṁ caiva nādayan ।
6.42.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४० ॥
गजानां बृंहितैः सार्धं हयानां हेषितैरपि । रथानां नेमिघोषैश्च रक्षसां वदनस्वनः । ६.४२.४० ॥

gajānāṁ bṛṁhitaiḥ sārdhaṁ hayānāṁ heṣitairapi ।
rathānāṁ nemighoṣaiśca rakṣasāṁ vadanasvanaḥ ।
6.42.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४१ ॥
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत । रक्षसां वानराणां यथा देवासुरे पुरा । ६.४२.४१ ॥

etasminnantare ghoraḥ saṅgrāmaḥ samavartata ।
rakṣasāṁ vānarāṇāṁ ca yathā devāsure purā ।
6.42.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४२ ॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः । निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् । ६.४२.४२ ॥

te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ ।
nijaghnurvānarān ghorāḥ kathayantaḥ svavikramān ।
6.42.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४३ ॥
राजा जयति सुग्रीव इति शब्दो महानभूत् । ६.४२.४३ ॥

rājā jayati sugrīva iti śabdo mahānabhūt ।
6.42.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४४ ॥
राजन् जय जयेत्युक्त्वा स्वस्वनामकथान्ततः । तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः । निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः । ६.४२.४४ ॥

rājan jaya jayetyuktvā svasvanāmakathāntataḥ ।
tathā vṛkṣairmahākāyāḥ parvatāgraiśca vānarāḥ ।
nijaghnustāni rakṣāṁsi nakhairdantaiśca vegitāḥ ।
6.42.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४५ ॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान् । भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् । ६.४२.४५ ॥

rākṣasāstvapare bhīmāḥ prākārasthā mahīgatān ।
bhindipālaiśca khaḍgaiśca śūlaiścaiva vyadārayan ।
6.42.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४६ ॥
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः । राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः । ६.४२.४६ ॥

vānarāścāpi saṅkruddhāḥ prākārasthān mahīgatāḥ ।
rākṣasān pātayāmāsuḥ samāplutya plavaṅgamāḥ ।
6.42.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४२ · ४७ ॥
सम्प्रहारस्तुमुलो मांसशोणितकर्दमः । रक्षसां वानराणां सम्बभूवाद्भुतोपमः । ६.४२.४७ ॥

sa samprahārastumulo māṁsaśoṇitakardamaḥ ।
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutopamaḥ ।
6.42.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.