वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ४१ · ९९ श्लोकाःSarga 41 · 99 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ४१ · १ ॥
अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः । सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् । ६.४१.१ ॥

atha tasminnimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ ।
sugrīvaṁ sampariṣvajya tadā vacanamabravīt ।
6.41.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २ ॥
असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम् । एवं साहसकर्माणि कुर्वन्ति जनेश्वराः । ६.४१.२ ॥

asammantrya mayā sārddhaṁ tadidaṁ sāhasaṁ kṛtam ।
evaṁ sāhasakarmāṇi na kurvanti janeśvarāḥ ।
6.41.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३ ॥
संशये स्थाप्य मां चेदं बलं सविभीषणम् । कष्टं कृतमिदं वीर साहसं साहसप्रिय । ६.४१.३ ॥

saṁśaye sthāpya māṁ cedaṁ balaṁ ca savibhīṣaṇam ।
kaṣṭaṁ kṛtamidaṁ vīra sāhasaṁ sāhasapriya ।
6.41.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४ ॥
इदानीं मा कृथा वीर एवंविधमचिन्तितम् । त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम । ६.४१.४ ॥

idānīṁ mā kṛthā vīra evaṁvidhamacintitam ।
tvayi kiñcit samāpanne kiṁ kāryaṁ sītayā mama ।
6.41.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५ ॥
भरतेन महाबाहो लक्ष्मणेन यवीयसा । शत्रुघ्नेन शत्रुघ्न स्वशरीरेण वा पुनः । ६.४१.५ । पुनःपुनः ॥

bharatena mahābāho lakṣmaṇena yavīyasā ।
śatrughnena ca śatrughna svaśarīreṇa vā punaḥ ।
6.41.5 ।
punaḥpunaḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६ ॥
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः । जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम । ६.४१.६ ॥

tvayi cānāgate pūrvamiti me niścitā matiḥ ।
jānataścāpi te vīryaṁ mahendravaruṇopama ।
6.41.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७ ॥
हत्वा ऽहं रावणं युद्धे सपुत्रबलवाहनम् । अभिषिच्य लङ्कायां विभीषणमथापि च । भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल । ६.४१.७ ॥

hatvā 'haṁ rāvaṇaṁ yuddhe saputrabalavāhanam ।
abhiṣicya ca laṅkāyāṁ vibhīṣaṇamathāpi ca ।
bharate rājyamāveśya tyakṣye dehaṁ mahābala ।
6.41.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८ ॥
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत । ६.४१.८ ॥

tamevaṁ vādinaṁ rāmaṁ sugrīvaḥ pratyabhāṣata ।
6.41.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९ ॥
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम् । मर्षयामि कथं वीर जानन् पौरुषमात्मनः । ६.४१.९ ॥

tava bhāryāpahartāraṁ dṛṣṭvā rāghava rāvaṇam ।
marṣayāmi kathaṁ vīra jānan pauruṣamātmanaḥ ।
6.41.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १० ॥
इत्येवं वादिनं वीरमभिनन्द्य राघवः । लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् । ६.४१.१० ॥

ityevaṁ vādinaṁ vīramabhinandya sa rāghavaḥ ।
lakṣmaṇaṁ lakṣmisampannamidaṁ vacanamabravīt ।
6.41.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ११ ॥
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण । ६.४१.११ ॥

parigṛhyodakaṁ śītaṁ vanāni phalavanti ca ।
balaughaṁ saṁvibhajyemaṁ vyūhya tiṣṭhema lakṣmaṇa ।
6.41.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १२ ॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् । ६.४१.१२ ॥

lokakṣayakaraṁ bhīmaṁ bhayaṁ paśyāmyupasthitam ।
nibarhaṇaṁ pravīrāṇāmṛkṣavānararakṣasām ।
6.41.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १३ ॥
वाताश्च परुषा वान्ति कम्पते वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः । ६.४१.१३ ॥

vātāśca paruṣā vānti kampate ca vasundharā ।
parvatāgrāṇi vepante patanti dharaṇīruhāḥ ।
6.41.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १४ ॥
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः । ६.४१.१४ ॥

meghāḥ kravyādasaṅkāśāḥ paruṣāḥ paruṣasvanāḥ ।
krūrāḥ krūraṁ pravarṣanti miśraṁ śoṇitabindubhiḥ ।
6.41.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १५ ॥
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् । ६.४१.१५ ॥

raktacandanasaṅkāśā sandhyā paramadāruṇā ।
jvalacca nipatatyetadādityādagnimaṇḍalam ।
6.41.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १६ ॥
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम् । दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः । ६.४१.१६ ॥

ādityamabhivāśyanti janayanto mahadbhayam ।
dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ ।
6.41.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १७ ॥
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः । कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये । ६.४१.१७ ॥

rajanyāmaprakāśaśca santāpayati candramāḥ ।
kṛṣṇaraktāntaparyanto yathā lokasya saṅkṣaye ।
6.41.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १८ ॥
ह्रस्वो रूक्षो ऽप्रशस्तश्च परिवेषः सुलोहितः । ६.४१.१८ ॥

hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ ।
6.41.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · १९ ॥
आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते । दृश्यन्ते यथावच्च नक्षत्राण्यभिवर्तते । युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति । ६.४१.१९ ॥

ādityamaṇḍale nīlaṁ lakṣma lakṣmaṇa dṛśyate ।
dṛśyante na yathāvacca nakṣatrāṇyabhivartate ।
yugāntamiva lokasya paśya lakṣmaṇa śaṁsati ।
6.41.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २० ॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः । ६.४१.२० ॥

kākāḥ śyenāstathā gṛdhrā nīcaiḥ paripatanti ca ।
śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ ।
6.41.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २१ ॥
क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः । ६.४१.२१ ॥

kṣipramadya durādharṣāṁ laṅkāṁ rāvaṇapālitām ।
abhiyāma javenaiva sarvato haribhirvṛtāḥ ।
6.41.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २२ ॥
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः । तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः । ६.४१.२२ ॥

ityevaṁ saṁvadan vīro lakṣmaṇaṁ lakṣmaṇāgrajaḥ ।
tasmādavātaracchīvraṁ parvatāgrānmahābalaḥ ।
6.41.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २३ ॥
अवतीर्यं धर्मात्मा तस्माच्छैलात् राघवः । परैः परमदुर्धर्षं ददर्श बलमात्मनः । ६.४१.२३ ॥

avatīryaṁ ca dharmātmā tasmācchailāt sa rāghavaḥ ।
paraiḥ paramadurdharṣaṁ dadarśa balamātmanaḥ ।
6.41.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २४ ॥
सन्नह्य तु ससुग्रीवः कपिराजबलं महत् । कालज्ञो राघवः काले संयुगायाभ्यचोदयत् । ६.४१.२४ ॥

sannahya tu sasugrīvaḥ kapirājabalaṁ mahat ।
kālajño rāghavaḥ kāle saṁyugāyābhyacodayat ।
6.41.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २५ ॥
ततः काले महाबाहुर्बलेन महतावृतः । प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् । ६.४१.२५ ॥

tataḥ kāle mahābāhurbalena mahatāvṛtaḥ ।
prasthitaḥ purato dhanvī laṅkāmabhimukhaḥ purīm ।
6.41.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २६ ॥
तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः । ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा । ६.४१.२६ ॥

taṁ vibhīṣaṇasugrīvau hanumān jāmbavānnalaḥ ।
ṛkṣarājastathā nīlo lakṣmaṇaścānvayustadā ।
6.41.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २७ ॥
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम् । प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् । ६.४१.२७ ॥

tataḥ paścāt sumahatī pṛtanarkṣavanaukasām ।
pracchādya mahatīṁ bhūmimanuyāti sma rāghavam ।
6.41.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २८ ॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः परवारणाः । ६.४१.२८ ॥

śailaśṛṅgāṇi śataśaḥ pravṛddhāṁśca mahīruhān ।
jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ ।
6.41.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · २९ ॥
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ । रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ । ६.४१.२९ ॥

tau tu dīrgheṇa kālena bhrātarau rāmalakṣmaṇau ।
rāvaṇasya purīṁ laṅkāmāsedaturarindamau ।
6.41.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३० ॥
पताकमालिनीं रम्यामुद्यानवनशोभिताम् । चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् । ६.४१.३० ॥

patākamālinīṁ ramyāmudyānavanaśobhitām ।
citravaprāṁ suduṣprāpāmuccaiḥ prākāratoraṇām ।
6.41.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३१ ॥
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः । यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः । ६.४१.३१ ॥

tāṁ surairapi durdharṣāṁ rāmavākyapracoditāḥ ।
yathāniveśaṁ sampīḍya nyaviśanta vanaukasaḥ ।
6.41.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३२ ॥
लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम् । रामः सहानुजो धन्वी जुगोप रुरोध च । ६.४१.३२ ॥

laṅkāyāstūttaradvāraṁ śalaśṛṅgamivonnatam ।
rāmaḥ sahānujo dhanvī jugopa ca rurodha ca ।
6.41.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३३ ॥
लङ्कामुपनिविष्टश्च रामो दशरथात्मजः । लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम् । उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः । ६.४१.३३ ॥

laṅkāmupaniviṣṭaśca rāmo daśarathātmajaḥ ।
lakṣmaṇānucaro vīraḥ purīṁ rāvaṇapālitām ।
uttaradvāramāsādya yatra tiṣṭhati rāvaṇaḥ ।
6.41.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३४ ॥
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम् । रावणाधिष्ठितं भीमं वरुणेनेव सागरम् । ६.४१.३४ ॥

nānyo rāmāddhi taddvāraṁ samarthaḥ parirakṣitum ।
rāvaṇādhiṣṭhitaṁ bhīmaṁ varuṇeneva sāgaram ।
6.41.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३५ ॥
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः । लघूनां त्रासजननं पातालमिव दानवैः । ६.४१.३५ ॥

sāyudhai rākṣasairbhīmairabhiguptaṁ samantataḥ ।
laghūnāṁ trāsajananaṁ pātālamiva dānavaiḥ ।
6.41.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३६ ॥
विन्यस्तानि योधानां बहूनि विविधानि च । ददर्शायुधजालानि तत्रैव कवचानि च । ६.४१.३६ ॥

vinyastāni ca yodhānāṁ bahūni vividhāni ca ।
dadarśāyudhajālāni tatraiva kavacāni ca ।
6.41.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३७ ॥
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः । अतिष्ठत् सह मैन्देन द्विविदेन वीर्यवान् । ६.४१.३७ ॥

pūrvaṁ tu dvāramāsādya nīlo haricamūpatiḥ ।
atiṣṭhat saha maindena dvividena ca vīryavān ।
6.41.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३८ ॥
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः । ऋषभेण गवाक्षेण गजेन गवयेन च । ६.४१.३८ ॥

aṅgado dakṣiṇadvāraṁ jagrāha sumahābalaḥ ।
ṛṣabheṇa gavākṣeṇa gajena gavayena ca ।
6.41.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ३९ ॥
हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः । प्रमाथिप्रघसाभ्यां वीरैरन्यैश्च सङ्गतः । ६.४१.३९ ॥

hanumān paścimadvāraṁ rarakṣa balavān kapiḥ ।
pramāthipraghasābhyāṁ ca vīrairanyaiśca saṅgataḥ ।
6.41.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४० ॥
मध्यमे स्वयं गुल्मे सुग्रीवः समतिष्ठत । सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः । ६.४१.४० ॥

madhyame ca svayaṁ gulme sugrīvaḥ samatiṣṭhata ।
saha sarvaihariśreṣṭhaiḥ suparṇaśvasanopamaiḥ ।
6.41.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४१ ॥
वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः । निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः । ६.४१.४१ ॥

vānārāṇāṁ tu ṣaṭtriṁśat koṭyaḥ prakhyātayūthapāḥ ।
nipīḍyopaniviṣṭāśca sugrīvo yatra vānaraḥ ।
6.41.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४२ ॥
शासनेन तु रामस्य लक्ष्मणः सविभीषणः । द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् । ६.४१.४२ ॥

śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ ।
dvāre dvāre harīṇāṁ tu koṭiṁ koṭiṁ nyaveśayat ।
6.41.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४३ ॥
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ६.४१.४३ ॥

paścimena tu rāmasya sugrīvaḥ sahajāmbavān ।
adūrānmadhyame gulme tasthau bahubalānugaḥ ।
6.41.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४४ ॥
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः । गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे । ६.४१.४४ ॥

te tu vānaraśārdūlāḥ śārdūlā iva daṁṣṭriṇaḥ ।
gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire ।
6.41.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४५ ॥
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः । सर्वे विकृतचित्राङ्गाः सर्वे विकृताननाः । ६.४१.४५ ॥

sarve vikṛtalāṅgūlāḥ sarve daṁṣṭrānakhāyudhāḥ ।
sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ ।
6.41.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४६ ॥
दशनागबलाः केचित् केचिद्दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः । ६.४१.४६ ॥

daśanāgabalāḥ kecit keciddaśaguṇottarāḥ ।
kecinnāgasahasrasya babhūvustulyavikramāḥ ।
6.41.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४७ ॥
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः । अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः । ६.४१.४७ ॥

santi caughabalāḥ kecit kecicchataguṇottarāḥ ।
aprameyabalāścānye tatrāsan hariyūthapāḥ ।
6.41.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४८ ॥
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः । तत्र वानरसैन्यानां शलभानामिवोद्यमः । ६.४१.४८ ॥

adbhutaśca vicitraśca teṣāmāsīt samāgamaḥ ।
tatra vānarasainyānāṁ śalabhānāmivodyamaḥ ।
6.41.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ४९ ॥
परिपूर्णमिवाकाशं सञ्छन्नेव मेदिनी । लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः । ६.४१.४९ ॥

paripūrṇamivākāśaṁ sañchanneva ca medinī ।
laṅkāmupaniviṣṭaiśca sampatadbhiśca vānaraiḥ ।
6.41.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५० ॥
शतं शतसहस्राणां पृथगृक्षवनौकसाम् । लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः । ६.४१.५० ॥

śataṁ śatasahasrāṇāṁ pṛthagṛkṣavanaukasām ।
laṅkādvārāṇyupājagmuranye yoddhuṁ samantataḥ ।
6.41.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५१ ॥
आवृतः गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः । ६.४१.५१ ॥

āvṛtaḥ sa giriḥ sarvaistaiḥ samantāt plavaṅgamaiḥ ।
6.41.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५२ ॥
अयुतानां सहस्रं पुरीं तामभ्यवर्तत । ६.४१.५२ ॥

ayutānāṁ sahasraṁ ca purīṁ tāmabhyavartata ।
6.41.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५३ ॥
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः । संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना । ६.४१.५३ ॥

vānarairbalavadbhiśca babhūva drumapāṇibhiḥ ।
saṁvṛtā sarvato laṅkā duṣpraveśāpi vāyunā ।
6.41.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५४ ॥
राक्षसा विस्मयं जग्मुः सहसा ऽभिनिपीडिताः । वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः । ६.४१.५४ ॥

rākṣasā vismayaṁ jagmuḥ sahasā 'bhinipīḍitāḥ ।
vānarairmeghasaṅkāśaiḥ śakratulyaparākramaiḥ ।
6.41.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५५ ॥
महान् शब्दो ऽभवत्तत्र बलौघस्याभिवर्ततः । सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः । ६.४१.५५ ॥

mahān śabdo 'bhavattatra balaughasyābhivartataḥ ।
sāgarasyeva bhinnasya yathā syāt salilasvanaḥ ।
6.41.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५६ ॥
तेन शब्देन महता सप्राकारा सतोरणा । लङ्का प्रचलिता सर्वा सशैलवनकानना । ६.४१.५६ ॥

tena śabdena mahatā saprākārā satoraṇā ।
laṅkā pracalitā sarvā saśailavanakānanā ।
6.41.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५७ ॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण वाहिनी । बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः । ६.४१.५७ ॥

rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī ।
babhūva durdharṣatarā sarvairapi surāsuraiḥ ।
6.41.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५८ ॥
राघवः सन्निवेश्यैव सैन्यं स्वं रक्षसां वधे । सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य पुनःपुनः । आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् । ६.४१.५८ ॥

rāghavaḥ sanniveśyaiva sainyaṁ svaṁ rakṣasāṁ vadhe ।
sammantrya mantribhiḥ sārdhaṁ niścitya ca punaḥpunaḥ ।
ānantaryamabhiprepsuḥ kramayogārthatattvavit ।
6.41.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ५९ ॥
विभीषणस्यानुमते राजधर्मनुस्मरन् । अङ्गदं वालितनयं समाहूयेदमब्रवीत् । ६.४१.५९ ॥

vibhīṣaṇasyānumate rājadharmanusmaran ।
aṅgadaṁ vālitanayaṁ samāhūyedamabravīt ।
6.41.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६० ॥
त्य पुनःपुनः । गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे । लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः । ६.४१.६० ॥

tya ca punaḥpunaḥ ।
gatvā somya daśagrīvaṁ bruhi madvacanāt kape ।
laṅghayitvā purīṁ laṅkāṁ bhayaṁ tyaktvā gatavyathaḥ ।
6.41.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६१ ॥
भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन । ऋषीणां देवतानां गन्धर्वाप्सरसां तथा । ६.४१.६१ ॥

bhraṣṭaśrīkagataiśvarya mumūrṣo naṣṭacetana ।
ṛṣīṇāṁ devatānāṁ ca gandharvāpsarasāṁ tathā ।
6.41.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६२ ॥
नागानामथ यक्षाणां राज्ञां रजनीचर । यच्च पापं कृतं मोहादवलिप्तेन राक्षस । ६.४१.६२ ॥

nāgānāmatha yakṣāṇāṁ rājñāṁ ca rajanīcara ।
yacca pāpaṁ kṛtaṁ mohādavaliptena rākṣasa ।
6.41.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६३ ॥
नूनमद्य गतो दर्पः स्वयम्भूवरदानजः । यस्य दण्डधरस्ते ऽहं दाराहरणकर्शितः । दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः । ६.४१.६३ ॥

nūnamadya gato darpaḥ svayambhūvaradānajaḥ ।
yasya daṇḍadharaste 'haṁ dārāharaṇakarśitaḥ ।
daṇḍaṁ dhārayamāṇastu laṅkādvāre vyavasthitaḥ ।
6.41.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६४ ॥
पदवीं देवतानां महर्षीणां राक्षस । राजर्षीणां सर्वेषां गमिष्यसि मया हतः । ६.४१.६४ ॥

padavīṁ devatānāṁ ca maharṣīṇāṁ ca rākṣasa ।
rājarṣīṇāṁ ca sarveṣāṁ gamiṣyasi mayā hataḥ ।
6.41.64 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६५ ॥
बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय । ६.४१.६५ ॥

balena yena vai sītāṁ māyayā rākṣasādhama ।
māmatikrāmayitvā tvaṁ hṛtavāṁstannidarśaya ।
6.41.65 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६६ ॥
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । चेच्छरणमभ्येषि मामुपादाय मैथिलीम् । ६.४१.६६ ॥

arākṣasamimaṁ lokaṁ kartāsmi niśitaiḥ śaraiḥ ।
na ceccharaṇamabhyeṣi māmupādāya maithilīm ।
6.41.66 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६७ ॥
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तो ऽयं विभीषणः । लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् । ६.४१.६७ ॥

dharmātmā rakṣasāṁ śreṣṭhaḥ samprāpto 'yaṁ vibhīṣaṇaḥ ।
laṅkaiśvaryaṁ dhruvaṁ śrīmānayaṁ prāpnotyakaṇṭakam ।
6.41.67 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६८ ॥
हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्खसहायेन पापेनाविदितात्मना । ६.४१.६८ ॥

na hi rājyamadharmeṇa bhoktuṁ kṣaṇamapi tvayā ।
śakyaṁ mūrkhasahāyena pāpenāviditātmanā ।
6.41.68 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ६९ ॥
युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि । ६.४१.६९ ॥

yuddhyasva vā dhṛtiṁ kṛtvā śauryamālambya rākṣasa ।
maccharaistvaṁ raṇe śāntastataḥ pūto bhaviṣyasi ।
6.41.69 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७० ॥
यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः । मम चक्षुष्पथं प्राप्य जीवन् प्रतियास्यसि । ६.४१.७० ॥

yadvā viśasi lokāṁstrīn pakṣibhūto manojavaḥ ।
mama cakṣuṣpathaṁ prāpya na jīvan pratiyāsyasi ।
6.41.70 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७१ ॥
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम् । सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् । ६.४१.७१ ॥

bravīmi tvāṁ hitaṁ vākyaṁ kriyatāmaurdhvadaihikam ।
sudṛṣṭā kriyatāṁ laṅkā jīvitaṁ te mayi sthitam ।
6.41.71 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७२ ॥
इत्युक्तः तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् । ६.४१.७२ ॥

ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā ।
jagāmākāśamāviśya mūrtimāniva havyavāṭ ।
6.41.72 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७३ ॥
सो ऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम् । ददर्शासीनमव्यग्रं रावणं सचिवैः सह । ६.४१.७३ ॥

so 'tipatya muhūrtena śrīmānrāvaṇamandiram ।
dadarśāsīnamavyagraṁ rāvaṇaṁ sacivaiḥ saha ।
6.41.73 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७४ ॥
ततस्तस्याविदूरे निपत्य हरिपुङ्गवः । दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः । ६.४१.७४ ॥

tatastasyāvidūre sa nipatya haripuṅgavaḥ ।
dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ ।
6.41.74 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७५ ॥
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना । ६.४१.७५ ॥

tadrāmavacanaṁ sarvamanyūnādhikamuttamam ।
sāmātyaṁ śrāvayāmāsa nivedyātmānamātmanā ।
6.41.75 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७६ ॥
दूतो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । वालिपुत्रो ऽङ्गदो नाम यदि ते श्रोत्रमागतः । ६.४१.७६ ॥

dūto 'haṁ kosalendrasya rāmasyākliṣṭakarmaṇaḥ ।
vāliputro 'ṅgado nāma yadi te śrotramāgataḥ ।
6.41.76 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७७ ॥
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव । ६.४१.७७ ॥

āha tvāṁ rāghavo rāmaḥ kausalyānandavardhanaḥ ।
niṣpatya pratiyuddhyasva nṛśaṁsa puruṣo bhava ।
6.41.77 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७८ ॥
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि । ६.४१.७८ ॥

hantāsmi tvāṁ sahāmātyaṁ saputrajñātibāndhavam ।
nirudvignāstrayo lokā bhaviṣyanti hate tvayi ।
6.41.78 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ७९ ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां कण्टकम् । ६.४१.७९ ॥

devadānavayakṣāṇāṁ gandharvoragarakṣasām ।
śatrumadyoddhariṣyāmi tvāmṛṣīṇāṁ ca kaṇṭakam ।
6.41.79 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८० ॥
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि । चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि । ६.४१.८० ॥

vibhīṣaṇasya caiśvaryaṁ bhaviṣyati hate tvayi ।
na cet satkṛtya vaidehīṁ praṇipatya pradāsyasi ।
6.41.80 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८१ ॥
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे । अमर्षवशमापन्नो निशाचरगणेश्वरः । ६.४१.८१ ॥

ityevaṁ paruṣaṁ vākyaṁ bruvāṇe haripuṅgave ।
amarṣavaśamāpanno niśācaragaṇeśvaraḥ ।
6.41.81 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८२ ॥
ततः रोषताम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् । ६.४१.८२ ॥

tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṁstadā ।
gṛhyatāmeṣa durmedhā vadhyatāmiti cāsakṛt ।
6.41.82 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८३ ॥
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः । जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः । ६.४१.८३ ॥

rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ ।
jagṛhustaṁ tato ghorāścatvāro rajanīcarāḥ ।
6.41.83 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८४ ॥
ग्राहयामास तारेयः स्वयमात्मानमात्मवान् । बलं दर्शयितुं वीरो यातुधानगणे तदा । ६.४१.८४ ॥

grāhayāmāsa tāreyaḥ svayamātmānamātmavān ।
balaṁ darśayituṁ vīro yātudhānagaṇe tadā ।
6.41.84 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८५ ॥
तान् बाहुद्वये सक्तानादाय पतगानिव । प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा । ६.४१.८५ ॥

sa tān bāhudvaye saktānādāya patagāniva ।
prāsādaṁ śailasaṅkāsamutpapātāṅgadastadā ।
6.41.85 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८६ ॥
ते ऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः । भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः । ६.४१.८६ ॥

te 'ntarikṣādvinirdhūtāstasya vegena rākṣasāḥ ।
bhūmau nipatitāḥ sarve rākṣasendrasya paśyataḥ ।
6.41.86 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८७ ॥
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम् । ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् । ६.४१.८७ ॥

tataḥ prāsādaśikharaṁ śailaśṛṅgamivonnatam ।
dadarśa rākṣasendrasya vāliputraḥ pratāpavān ।
6.41.87 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८८ ॥
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः । पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् । ६.४१.८८ ॥

tatpaphāla padākrāntaṁ daśagrīvasya paśyataḥ ।
purā himavataḥ śṛṅgaṁ vajriṇeva vidāritam ।
6.41.88 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ८९ ॥
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः । विनद्य सुमहानादमुत्पपात विहायसम् । ६.४१.८९ ॥

bhaṅktvā prāsādaśikharaṁ nāma viśrāvya cātmanaḥ ।
vinadya sumahānādamutpapāta vihāyasam ।
6.41.89 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९० ॥
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् । वानराणां मध्ये तु रामपार्श्वमुपागतः । ६.४१.९० ॥

vyathayan rākṣasān sarvān harṣayaṁścāpi vānarān ।
sa vānarāṇāṁ madhye tu rāmapārśvamupāgataḥ ।
6.41.90 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९१ ॥
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात् । विनाशं चात्मनः पश्यन्निश्वासपरमो ऽभवत् । ६.४१.९१ ॥

rāvaṇastu paraṁ cakre krodhaṁ prāsādadharṣaṇāt ।
vināśaṁ cātmanaḥ paśyanniśvāsaparamo 'bhavat ।
6.41.91 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९२ ॥
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत । ६.४१.९२ ॥

rāmastu bahubhirhṛṣṭairninadadbhiḥ plavaṅgamaiḥ ।
vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata ।
6.41.92 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९३ ॥
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः । ६.४१.९३ ॥

suṣeṇastu mahāvīryo girikūṭopamo hariḥ ।
bahubhiḥ saṁvṛtastatra vānaraiḥ kāmarūpibhiḥ ।
6.41.93 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९४ ॥
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः । पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः । ६.४१.९४ ॥

caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ ।
paryakrāmata durdharṣo nakṣatrāṇīva candramāḥ ।
6.41.94 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९५ ॥
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् । ६.४१.९५ ॥

teṣāmakṣauhiṇiśataṁ samavekṣya vanaukasām ।
laṅkāmupaniviṣṭānāṁ sāgaraṁ cābhivartatām ।
6.41.95 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९६ ॥
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथा ऽपरे । अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे । ६.४१.९६ ॥

rākṣasā vismayaṁ jagmustrāsaṁ jagmustathā 'pare ।
apare samaroddharṣāddharṣameva prapedire ।
6.41.96 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९७ ॥
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् । ६.४१.९७ ॥

kṛtsnaṁ hi kapibhirvyāptaṁ prākāraparikhāntaram ।
dadṛśū rākṣasā dīnāḥ prākāraṁ vānarīkṛtam ।
6.41.97 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९८ ॥
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः । ६.४१.९८ ॥

hāhākāraṁ prakurvanti rākṣasā bhayamohitāḥ ।
6.41.98 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ४१ · ९९ ॥
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम् । प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः । ६.४१.९९ ॥

tasmin mahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām ।
pragṛhya rakṣāṁsi mahāyudhāni yugāntavātā iva saṁviceruḥ ।
6.41.99 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.