वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १९ · ४४ श्लोकाःSarga 19 · 44 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १९ · १ ॥
राघवेणाभये दत्ते सन्नता रावणानुजः । विभीषणो महापाज्ञो भूमिं समवलोकयन् । खात्पपातावनीं हृष्टो भक्तैरनुचरैः सह । ६.१९.१ ॥

rāghaveṇābhaye datte sannatā rāvaṇānujaḥ ।
vibhīṣaṇo mahāpājño bhūmiṁ samavalokayan ।
khātpapātāvanīṁ hṛṣṭo bhaktairanucaraiḥ saha ।
6.19.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २ ॥
तु रामस्य धर्मात्मा निपपात विभीषणः । पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः । ६.१९.२ ॥

sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ ।
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ ।
6.19.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३ ॥
अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । धर्मयुक्तं युक्तं साम्प्रतं सम्प्रहर्षणम् । ६.१९.३ ॥

abravīcca tadā rāmaṁ vākyaṁ tatra vibhīṣaṇaḥ ।
dharmayuktaṁ ca yuktaṁ ca sāmprataṁ sampraharṣaṇam ।
6.19.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४ ॥
अनुजो रावणस्याहं तेन चाप्यवमानितः । भवन्तं सर्वभूतानां शरण्यं शरणागतः । ६.१९.४ । ४ ॥

anujo rāvaṇasyāhaṁ tena cāpyavamānitaḥ ।
bhavantaṁ sarvabhūtānāṁ śaraṇyaṁ śaraṇāgataḥ ।
6.19.4 ।
4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ५ ॥
परित्यक्ता मया लङ्का मित्राणि धनानि वै । भवद्गतं मे राज्यं जीवितं सुखानि च । ६.१९.५ ॥

parityaktā mayā laṅkā mitrāṇi ca dhanāni vai ।
bhavadgataṁ me rājyaṁ ca jīvitaṁ ca sukhāni ca ।
6.19.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ६ ॥
तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् । वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव । ६.१९.६ ॥

tasya tadvacanaṁ śrutvā rāmo vacanamabravīt ।
vacasā sāntvayitvainaṁ locanābhyāṁ pibanniva ।
6.19.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ७ ॥
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् । ६.१९.७ ॥

ākhyāhi mama tattvena rākṣasānāṁ balābalam ।
6.19.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ८ ॥
एवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलं सर्वमाख्यातुमुपचक्रमे । ६.१९.८ ॥

evamuktastadā rakṣo rāmeṇākliṣṭakarmaṇā ।
rāvaṇasya balaṁ sarvamākhyātumupacakrame ।
6.19.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ९ ॥
अवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् । राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः । ६.१९.९ ॥

avadhyaḥ sarvabhūtānāṁ gandharvāsurarakṣasām ।
rājaputra daśagrīvo varadānāt svayambhuvaḥ ।
6.19.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १० ॥
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि । ६.१९.१० ॥

rāvaṇānantaro bhrātā mama jyeṣṭhaśca vīryavān ।
kumbhakarṇo mahātejāḥ śakrapratibalo yudhi ।
6.19.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ११ ॥
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः । कैलासे येन सङ्ग्रामे मणिभद्रः पराजितः । ६.१९.११ ॥

rāma senāpatistasya prahasto yadi vā śrutaḥ ।
kailāse yena saṅgrāme maṇibhadraḥ parājitaḥ ।
6.19.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १२ ॥
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् । ६.१९.१२ ॥

baddhagodhāṅgulitrāṇastvavadhyakavaco yudhi ।
dhanurādāya yastiṣṭhannadṛśyo bhavatīndrajit ।
6.19.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १३ ॥
सङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव । ६.१९.१३ ॥

saṅgrāmasamayavyūhe tarpayitvā hutāśanam ।
antardhānagataḥ śatrūnindrajiddhanti rāghava ।
6.19.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १४ ॥
महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः । अनीकस्थास्तु तस्यैते लोकपालसमा युधि । ६.१९.१४ ॥

mahodaramahāpārśvau rākṣasaścāpyakampanaḥ ।
anīkasthāstu tasyaite lokapālasamā yudhi ।
6.19.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १५ ॥
दशकोटिसहस्राणि राक्षसां कामरूपिणाम् । मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् । ६.१९.१५ ॥

daśakoṭisahasrāṇi rākṣasāṁ kāmarūpiṇām ।
māṁsaśoṇitabhakṣāṇāṁ laṅkāpuranivāsinām ।
6.19.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १६ ॥
तैस्तु सहितो राजा लोकपालानयोधयत् । ६.१९.१६ ॥

sa taistu sahito rājā lokapālānayodhayat ।
6.19.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १७ ॥
सह देवैस्तु ते भग्ना रावणेन महात्मना । ६.१९.१७ ॥

saha devaistu te bhagnā rāvaṇena mahātmanā ।
6.19.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १८ ॥
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः । अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् । ६.१९.१८ ॥

vibhīṣaṇavacaḥ śrutvā rāmo dṛḍhaparākramaḥ ।
anvīkṣya manasā sarvamidaṁ vacanamabravīt ।
6.19.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · १९ ॥
यानि कर्मापदानानि रावणस्य विभीषण । आख्यातानि तत्त्वेन ह्यवगच्छामि तान्यहम् । ६.१९.१९ ॥

yāni karmāpadānāni rāvaṇasya vibhīṣaṇa ।
ākhyātāni ca tattvena hyavagacchāmi tānyaham ।
6.19.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २० ॥
अहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् । राजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते । ६.१९.२० ॥

ahaṁ hatvā daśagrīvaṁ saprahastaṁ sabāndhavam ।
rājānaṁ tvāṁ kariṣyāmi satyametad bravīmi te ।
6.19.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २१ ॥
रसातलं वा प्रविशेत् पातालं वापि रावणः । पितामहसकाशं वा मे जीवन् विमोक्ष्यते । ६.१९.२१ ॥

rasātalaṁ vā praviśet pātālaṁ vāpi rāvaṇaḥ ।
pitāmahasakāśaṁ vā na me jīvan vimokṣyate ।
6.19.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २२ ॥
अहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् । अयोध्यां प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे । ६.१९.२२ ॥

ahatvā rāvaṇaṁ saṅkhye saputrabalabāndhavam ।
ayodhyāṁ na pravekṣyāmi tribhistairbhrātṛbhiḥ śape ।
6.19.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २३ ॥
श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः । शिरसा ऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे । ६.१९.२३ ॥

śrutvā tu vacanaṁ tasya rāmasyākliṣṭakarmaṇaḥ ।
śirasā ' 'vandya dharmātmā vaktumevopacakrame ।
6.19.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २४ ॥
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् । करिष्यामि यथाप्राणं प्रवेक्ष्यामि वाहिनीम् । ६.१९.२४ ॥

rākṣasānāṁ vadhe sāhyaṁ laṅkāyāśca pradharṣaṇam ।
kariṣyāmi yathāprāṇaṁ pravekṣyāmi ca vāhinīm ।
6.19.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २५ ॥
इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । अब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय । ६.१९.२५ ॥

iti bruvāṇaṁ rāmastu pariṣvajya vibhīṣaṇam ।
abravīllakṣṇaṇaṁ prītaḥ samudrājjalamānaya ।
6.19.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २६ ॥
तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद । ६.१९.२६ ॥

tena cemaṁ mahāprājñamabhiṣiñca vibhīṣaṇam ।
rājānaṁ rakṣasāṁ kṣipraṁ prasanne mayi mānada ।
6.19.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २७ ॥
एवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् । मध्येवानरमुख्यानां राजानं राजशासनात् । ६.१९.२७ ॥

evamuktastu saumitrirabhyāṣiñcadvibhīṣaṇam ।
madhyevānaramukhyānāṁ rājānaṁ rājaśāsanāt ।
6.19.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २८ ॥
तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः । प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् । ६.१९.२८ ॥

taṁ prasādaṁ tu rāmasya dṛṣṭvā sadyaḥ plavaṅgamāḥ ।
pracukruśurmahātmānaṁ sādhu sādhviti cābruvan ।
6.19.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · २९ ॥
अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । ६.१९.२९ ॥

abravīcca hanūmāṁśca sugrīvaśca vibhīṣaṇam ।
6.19.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३० ॥
कथं सागरमक्षोभ्यं तराम वरुणालयम् । सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् । ६.१९.३० ॥

kathaṁ sāgaramakṣobhyaṁ tarāma varuṇālayam ।
sainyaiḥ parivṛtāḥ sarve vānarāṇāṁ mahaujasām ।
6.19.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३१ ॥
उपायं नाधिगच्छामो यथा नदनदीपतिम् । तराम तरसा सर्वे ससैन्या वरुणालयम् । एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः । ६.१९.३१ ॥

upāyaṁ nādhigacchāmo yathā nadanadīpatim ।
tarāma tarasā sarve sasainyā varuṇālayam ।
evamuktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ ।
6.19.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३२ ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति । ६.१९.३२ ॥

samudraṁ rāghavo rājā śaraṇaṁ gantumarhati ।
6.19.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३३ ॥
र्वे ससैन्या वरुणालयम् । खानितः सगरेणायमप्रमेयो महोदधिः । कर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः । ६.१९.३३ ॥

rve sasainyā varuṇālayam ।
khānitaḥ sagareṇāyamaprameyo mahodadhiḥ ।
kartumarhati rāmasya jñātvā kāryaṁ mahāmatiḥ ।
6.19.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३४ ॥
एवं विभीषणेनोक्तो राक्षसेन विपश्चिता । आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः । ६.१९.३४ ॥

evaṁ vibhīṣaṇenokto rākṣasena vipaścitā ।
ājagāmātha sugrīvo yatra rāmaḥ salakṣmaṇaḥ ।
6.19.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३५ ॥
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् । सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् । ६.१९.३५ ॥

tataścākhyātumārebhe vibhīṣaṇavacaḥ śubham ।
sugrīvo vipulagrīvaḥ sāgarasyopaveśanam ।
6.19.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३६ ॥
प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत । ६.१९.३६ ॥

prakṛtyā dharmaśīlasya rāghavasyāpyarocata ।
6.19.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३७ ॥
लक्ष्मणं महातेजाः सुग्रीवं हरीश्वरम् । सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह । ६.१९.३७ ॥

sa lakṣmaṇaṁ mahātejāḥ sugrīvaṁ ca harīśvaram ।
satkriyārthaṁ kriyādakṣaḥ smitapūrvamuvāca ha ।
6.19.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३८ ॥
विभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते । ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते । ६.१९.३८ ॥

vibhīṣaṇasya mantro 'yaṁ mama lakṣmaṇa rocate ।
brūhi tvaṁ sahasugrīvastavāpi yadi rocate ।
6.19.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ३९ ॥
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः । उभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् । ६.१९.३९ ॥

sugrīvaḥ paṇḍito nityaṁ bhavān mantravicakṣaṇaḥ ।
ubhābhyāṁ sampradhāryārthaṁ rocate yattaducyatām ।
6.19.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४० ॥
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ । समुदाचारसंयुक्तमिदं वचनमूचतुः । ६.१९.४० ॥

evamuktau tu tau vīrāvubhau sugrīvalakṣmaṇau ।
samudācārasaṁyuktamidaṁ vacanamūcatuḥ ।
6.19.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४१ ॥
किमर्थं नौ नरव्याघ्र रोचिष्यति राघव । विभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् । ६.१९.४१ ॥

kimarthaṁ nau naravyāghra na rociṣyati rāghava ।
vibhīṣaṇena yaccoktamasmin kāle sukhāvaham ।
6.19.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४२ ॥
अबद्ध्वा सागरे सेतुं घोरे ऽस्मिन् वरुणालये । लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः । ६.१९.४२ ॥

abaddhvā sāgare setuṁ ghore 'smin varuṇālaye ।
laṅkā nāsādituṁ śakyā sendrairapi surāsuraiḥ ।
6.19.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४३ ॥
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः । अलं कालात्ययं कृत्वा समुद्रो ऽयं नियुज्यताम् । यथा सैन्येन गच्छामः पुरीं रावणपालिताम् । ६.१९.४३ ॥

vibhīṣaṇasya śūrasya yathārthaṁ kriyatāṁ vacaḥ ।
alaṁ kālātyayaṁ kṛtvā samudro 'yaṁ niyujyatām ।
yathā sainyena gacchāmaḥ purīṁ rāvaṇapālitām ।
6.19.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १९ · ४४ ॥
एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । संविवेश तदा रामो वेद्यामिव हुताशनः । ६.१९.४४ ॥

evamuktaḥ kuśāstīrṇe tīre nadanadīpateḥ ।
saṁviveśa tadā rāmo vedyāmiva hutāśanaḥ ।
6.19.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.