वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२८ · ४६ श्लोकाःSarga 128 · 46 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२८ · १ ॥
अयोध्यां तु समालोक्य चिन्तयामास राघवः । चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् । ६.१२८.१ ॥

ayodhyāṁ tu samālokya cintayāmāsa rāghavaḥ ।
cintayitvā hanūmantamuvāca plavagottamam ।
6.128.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २ ॥
जानीहि कच्चित् कुशली जनो नृपतिमन्दिरे । ६.१२८.२ ॥

jānīhi kaccit kuśalī jano nṛpatimandire ।
6.128.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३ ॥
शृङ्गिबेरपुरं प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम । ६.१२८.३ ॥

śṛṅgiberapuraṁ prāpya guhaṁ gahanagocaram ।
niṣādādhipatiṁ brūhi kuśalaṁ vacanānmama ।
6.128.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४ ॥
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् । भविष्यति गुहः प्रीतः ममात्मसमः सखा । ६.१२८.४ ॥

śrutvā tu māṁ kuśalinamarogaṁ vigatajvaram ।
bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā ।
6.128.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ५ ॥
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च । निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः । ६.१२८.५ ॥

ayodhyāyāśca te mārgaṁ pravṛttiṁ bharatasya ca ।
nivedayiṣyati prīto niṣādādhipatirguhaḥ ।
6.128.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ६ ॥
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् । ६.१२८.६ ॥

bharatastu tvayā vācyaḥ kuśalaṁ vacanānmama ।
siddhārthaṁ śaṁsa māṁ tasmai sabhāryaṁ sahalakṣmaṇam ।
6.128.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ७ ॥
हरणं चापि वैदेह्या रावणेन बलीयसा । ६.१२८.७ ॥

haraṇaṁ cāpi vaidehyā rāvaṇena balīyasā ।
6.128.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ८ ॥
सुग्रीवेण संसर्गं वालिनश्च वधं रणे । मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया । ६.१२८.८ ॥

sugrīveṇa ca saṁsargaṁ vālinaśca vadhaṁ raṇe ।
maithilyanveṣaṇaṁ caiva yathā cādhigatā tvayā ।
6.128.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ९ ॥
लङ्घयित्वा महातोयमापगापतिमव्ययम् । उपयानं समुद्रस्य सागरस्य दर्शनम् । ६.१२८.९ ॥

laṅghayitvā mahātoyamāpagāpatimavyayam ।
upayānaṁ samudrasya sāgarasya ca darśanam ।
6.128.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १० ॥
यथा कारितः सेतू रावणश्च यथा हतः । वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च । ६.१२८.१० ॥

yathā ca kāritaḥ setū rāvaṇaśca yathā hataḥ ।
varadānaṁ mahendreṇa brahmaṇā varuṇena ca ।
6.128.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ११ ॥
महादेवप्रसादाच्च पित्रा मम समागमम् । उपयातं मां सौम्य भरतस्य निवेदय । ६.१२८.११ ॥

mahādevaprasādācca pitrā mama samāgamam ।
upayātaṁ ca māṁ saumya bharatasya nivedaya ।
6.128.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १२ ॥
सह राक्षसराजेन हरीणां प्रवरेण च । ६.१२८.१२ ॥

saha rākṣasarājena harīṇāṁ pravareṇa ca ।
6.128.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १३ ॥
एतच्छुत्वा यमाकारं भजते भरतस्तदा । ते वेदितव्यः स्यात् सर्वं यच्चापि मां प्रति । ६.१२८.१३ ॥

etacchutvā yamākāraṁ bhajate bharatastadā ।
sa ca te veditavyaḥ syāt sarvaṁ yaccāpi māṁ prati ।
6.128.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १४ ॥
जित्वा शत्रुगणान् रामः प्राप्य चानुत्तमं यशः । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । ६.१२८.१४ ॥

jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṁ yaśaḥ ।
upayāti samṛddhārthaḥ saha mitrairmahābalaiḥ ।
6.128.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १५ ॥
ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च । तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च । ६.१२८.१५ ॥

jñeyāśca sarve vṛttāntā bharatasyeṅgitāni ca ।
tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca ।
6.128.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १६ ॥
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् । पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः । ६.१२८.१६ ॥

sarvakāmasamṛddhaṁ hi hastyaśvarathasaṅkulam ।
pitṛpaitāmahaṁ rājyaṁ kasya nāvartayenmanaḥ ।
6.128.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १७ ॥
सङ्गत्या भरतः श्रीमान् राज्यार्थी चेत् स्वयं भवेत् । प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः । ६.१२८.१७ ॥

saṅgatyā bharataḥ śrīmān rājyārthī cet svayaṁ bhavet ।
praśāstu vasudhāṁ kṛtsnāmakhilāṁ raghunandanaḥ ।
6.128.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १८ ॥
तस्य बुद्धिं विज्ञाय व्यवसायं वानर । यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि । ६.१२८.१८ ॥

tasya buddhiṁ ca vijñāya vyavasāyaṁ ca vānara ।
yāvanna dūraṁ yātāḥ sma kṣipramāgantumarhasi ।
6.128.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · १९ ॥
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः । मानुषं धारयन् रूपमयोध्यां त्वरितो ययौ । ६.१२८.१९ ॥

iti pratisamādiṣṭo hanumān mārutātmajaḥ ।
mānuṣaṁ dhārayan rūpamayodhyāṁ tvarito yayau ।
6.128.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २० ॥
अथोत्पपात वेगेन हनुमान् मारुतात्मजः । गरुत्मानिव वेगेन जिघृक्षन् भुजगोत्तमम् । ६.१२८.२० ॥

athotpapāta vegena hanumān mārutātmajaḥ ।
garutmāniva vegena jighṛkṣan bhujagottamam ।
6.128.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २१ ॥
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् । गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च । शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् । ६.१२८.२१ ॥

laṅghayitvā pitṛpathaṁ bhujagendrālayaṁ śubham ।
gaṅgāyamunayormadhyaṁ sannipātamatītya ca ।
śṛṅgiberapuraṁ prāpya guhamāsādya vīryavān ।
6.128.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २२ ॥
वाचा शुभया हृष्टो हनुमानिदमब्रवीत् । ६.१२८.२२ । ुनयोर्मध्यं सन्निपातमतीत्य च । सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः । सहसीतः ससौमित्रिः त्वां कुशलमब्रवीत् । ६.१२८.२३ ॥

sa vācā śubhayā hṛṣṭo hanumānidamabravīt ।
6.128.22 ।
unayormadhyaṁ sannipātamatītya ca ।
sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ ।
sahasītaḥ sasaumitriḥ sa tvāṁ kuśalamabravīt ।
6.128.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २३ ॥
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः । भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् । ६.१२८.२४ ॥

pañcamīmadya rajanīmuṣitvā vacanānmuneḥ ।
bharadvājābhyanujñātaṁ drakṣyasyadyaiva rāghavam ।
6.128.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २४ ॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः । उत्पपात महावेगो वेगवानविचारयन् । ६.१२८.२५ ॥

evamuktvā mahātejāḥ samprahṛṣṭatanūruhaḥ ।
utpapāta mahāvego vegavānavicārayan ।
6.128.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २५ ॥
सो ऽपश्यद्रामतीर्थं नदीं वालुकिनीं तथा । गोमतीं तां सो ऽपश्यद्भीमं सालवनं तथा । प्रजाश्च बहुसाहस्राः स्फीतान् जनपदानपि । ६.१२८.२६ ॥

so 'paśyadrāmatīrthaṁ ca nadīṁ vālukinīṁ tathā ।
gomatīṁ tāṁ ca so 'paśyadbhīmaṁ sālavanaṁ tathā ।
prajāśca bahusāhasrāḥ sphītān janapadānapi ।
6.128.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २६ ॥
गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः । आससाद द्रुमान् फुल्लान् नन्दिग्रामसमीपगान् । ६.१२८.२७ ॥

sa gatvā dūramadhvānaṁ tvaritaḥ kapikuñjaraḥ ।
āsasāda drumān phullān nandigrāmasamīpagān ।
6.128.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २७ ॥
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैरलङ्कृतान् । सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् । ६.१२८.२८ ॥

strībhiḥ saputrairvṛddhaiśca ramamāṇairalaṅkṛtān ।
surādhipasyopavane yathā caitrarathe drumān ।
6.128.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २८ ॥
क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् । ददर्श भरतं दीनं कृशमाश्रमवासिनम् । ६.१२८.२९ ॥

krośamātre tvayodhyāyāścīrakṛṣṇājināmbaram ।
dadarśa bharataṁ dīnaṁ kṛśamāśramavāsinam ।
6.128.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · २९ ॥
जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् । फलमूलाशिनं दान्तं तापसं धर्मचारिणम् । ६.१२८.३० ॥

jaṭilaṁ maladigdhāṅgaṁ bhrātṛvyasanakarśitam ।
phalamūlāśinaṁ dāntaṁ tāpasaṁ dharmacāriṇam ।
6.128.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३० ॥
समुन्नतजटाभारं वल्कलाजिनवाससम् । नियतं भावितात्मानं ब्रह्मर्षिसमतेजसम् । ६.१२८.३१ ॥

samunnatajaṭābhāraṁ valkalājinavāsasam ।
niyataṁ bhāvitātmānaṁ brahmarṣisamatejasam ।
6.128.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३१ ॥
पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् । चातुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् । ६.१२८.३२ ॥

pāduke te puraskṛtya śāsantaṁ vai vasundharām ।
cāturvarṇyasya lokasya trātāraṁ sarvato bhayāt ।
6.128.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३२ ॥
उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः । बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः । ६.१२८.३३ ॥

upasthitamamātyaiśca śucibhiśca purohitaiḥ ।
balamukhyaiśca yuktaiśca kāṣāyāmbaradhāribhiḥ ।
6.128.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३३ ॥
हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् । परिभोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलम् । ६.१२८.३४ ॥

na hi te rājaputraṁ taṁ cīrakṛṣṇājināmbaram ।
paribhoktuṁ vyavasyanti paurā vai dharmavatsalam ।
6.128.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३४ ॥
तं धर्ममिव धर्मज्ञं देहवन्तमिवापरम् । उवाच प्राञ्जलिर्वाक्यं हनुमान् मरुतात्मजः । ६.१२८.३५ ॥

taṁ dharmamiva dharmajñaṁ dehavantamivāparam ।
uvāca prāñjalirvākyaṁ hanumān marutātmajaḥ ।
6.128.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३५ ॥
वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् । अनुशोचसि काकुत्स्थं त्वां कुशलमब्रवीत् । ६.१२८.३६ ॥

vasantaṁ daṇḍakāraṇye yaṁ tvaṁ cīrajaṭādharam ।
anuśocasi kākutsthaṁ sa tvāṁ kuśalamabravīt ।
6.128.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३६ ॥
प्रियमाख्यामि ते देव शोकं त्यज सुदारुणम् । अस्मिन् मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः । ६.१२८.३७ ॥

priyamākhyāmi te deva śokaṁ tyaja sudāruṇam ।
asmin muhūrte bhrātrā tvaṁ rāmeṇa saha saṅgataḥ ।
6.128.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३७ ॥
निहत्य रावणं रामः प्रतिलभ्य मैथिलीम् । उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । ६.१२८.३८ ॥

nihatya rāvaṇaṁ rāmaḥ pratilabhya ca maithilīm ।
upayāti samṛddhārthaḥ saha mitrairmahābalaiḥ ।
6.128.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३८ ॥
लक्ष्मणश्च महातेजा वैदेही यशस्विनी । सीता समग्रा रामेण महेन्द्रेण यथा शची । ६.१२८.३९ ॥

lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī ।
sītā samagrā rāmeṇa mahendreṇa yathā śacī ।
6.128.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ३९ ॥
एवमुक्तो हनुमता भरतो भ्रातृवत्सलः । पपात सहसा हृष्टो हर्षान्मोहं जगाम ह । ६.१२८.४० ॥

evamukto hanumatā bharato bhrātṛvatsalaḥ ।
papāta sahasā hṛṣṭo harṣānmohaṁ jagāma ha ।
6.128.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४० ॥
ततो मुहूर्तादुत्थाय प्रत्याश्वस्य राघवः । हनुमन्तमुवाचेदं भरतः प्रियवादिनम् । ६.१२८.४१ ॥

tato muhūrtādutthāya pratyāśvasya ca rāghavaḥ ।
hanumantamuvācedaṁ bharataḥ priyavādinam ।
6.128.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४१ ॥
अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् । सिषेच भरतः श्रीमान् विपुलैरस्त्रबिन्दुभिः । ६.१२८.४२ ॥

aśokajaiḥ prītimayaiḥ kapimāliṅgya sambhramāt ।
siṣeca bharataḥ śrīmān vipulairastrabindubhiḥ ।
6.128.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४२ ॥
देवो वा मानुषो वा त्वमनुक्रोशादिहागतः । प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् । ६.१२८.४३ ॥

devo vā mānuṣo vā tvamanukrośādihāgataḥ ।
priyākhyānasya te saumya dadāmi bruvataḥ priyam ।
6.128.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४३ ॥
गवां शतसहस्रं ग्रामाणां शतं परम् । सुकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश । ६.१२८.४४ ॥

gavāṁ śatasahasraṁ ca grāmāṇāṁ ca śataṁ param ।
sukuṇḍalāḥ śubhācārā bhāryāḥ kanyāśca ṣoḍaśa ।
6.128.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४४ ॥
हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः । सर्वाभरणसम्पन्नाः सम्पन्नाः कुलजातिभिः । ६.१२८.४५ ॥

hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ ।
sarvābharaṇasampannāḥ sampannāḥ kulajātibhiḥ ।
6.128.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४५ ॥
निशम्य रामागमनं नृपात्मजः कपिप्रवीरस्य तदद्भुतोपमम् । प्रहर्षितो रामदिदृक्षया ऽभवत् पुनश्च हर्षादिदमब्रवीद्वचः । ६.१२८.४६ ॥

niśamya rāmāgamanaṁ nṛpātmajaḥ kapipravīrasya tadadbhutopamam ।
praharṣito rāmadidṛkṣayā 'bhavat punaśca harṣādidamabravīdvacaḥ ।
6.128.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२८ · ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशत्युत्तरशततमः सर्गः । १२८ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe aṣṭāviṁśatyuttaraśatatamaḥ sargaḥ ।
128 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.