वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः १ · ४३ श्लोकाःSarga 1 · 43 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · १ · १ ॥
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् । ७.१.१ ॥ ॥

prāptarājyasya rāmasya rākṣasānāṁ vadhe kṛte ।
ājagmurṛṣayaḥ sarve rāghavaṁ pratinanditum ।
7.1.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २ ॥
कौशिको ऽथ यवक्रीतो गार्ग्यो गालव एव च । कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः । ७.१.२ ॥ ॥

kauśiko 'tha yavakrīto gārgyo gālava eva ca ।
kaṇvo medhātitheḥ putraḥ pūrvasyāṁ diśi ye śritāḥ ।
7.1.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३ ॥
स्वस्त्यात्रेयो ऽथ भगवान्नमुचिः प्रमुचिस्तथा । आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् । ७.१.३ ॥ ॥

svastyātreyo 'tha bhagavānnamuciḥ pramucistathā ।
ājagmuste sahāgastyā ye śritā dakṣiṇāṁ diśam ।
7.1.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ४ ॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः । ते ऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् । ७.१.४ ॥ ॥

nṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahānṛṣiḥ ।
te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṁ diśam ।
7.1.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ५ ॥
वसिष्ठः कश्यपो ऽथात्रिर्विश्वामित्रः सगौतमः । जमदग्निर्भरद्वाजस्ते ऽपि सप्तर्षयस्तथा । ७.१.५ ॥ ॥

vasiṣṭhaḥ kaśyapo 'thātrirviśvāmitraḥ sagautamaḥ ।
jamadagnirbharadvājaste 'pi saptarṣayastathā ।
7.1.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ६ ॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः । ७.१.६ ॥ ॥

udīcyāṁ diśi saptaite nityameva nivāsinaḥ ।
7.1.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ७ ॥
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः । वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः । ७.१.७ ॥ ॥

samprāpya te mahātmāno rāghavasya niveśanam ।
viṣṭitāḥ pratihārārthaṁ hutāśanasamaprabhāḥ ।
vedavedāṅgaviduṣo nānāśāstraviśāradāḥ ।
7.1.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ८ ॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः । निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् । ७.१.८ ॥ ॥

dvāḥsthaṁ provāca dharmātmā agastyo munisattamaḥ ।
nivedyatāṁ dāśaratherṛṣīnasmānsamāgatān ।
7.1.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ९ ॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् । समीपं राघवस्याशु प्रविवेश महात्मनः । ७.१.९ ॥ ॥

pratīhārastatastūrṇamagastyavacanāddrutam ।
samīpaṁ rāghavasyāśu praviveśa mahātmanaḥ ।
7.1.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १० ॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः । रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् । ७.१.१० ॥ ॥

nayeṅgitajñaḥ sadvṛtto dakṣo dhairyasamanvitaḥ ।
sa rāmaṁ dṛśya sahasā pūrṇacandrasamaprabham ।
7.1.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ११ ॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह । ७.१.११ ॥ ॥

agastyaṁ kathayāmāsa samprāptamṛṣibhiḥ saha ।
7.1.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १२ ॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् । ७.१.१२ ॥ ॥

śrutvā prāptānmunīṁstāṁstu bālasūryasamaprabhān ।
pratyuvāca tato dvāssthaṁ praveśaya yathāsukham ।
7.1.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १३ ॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः । पाद्यार्घ्यादिभिरानर्च गां निवेद्य सादरम् । ७.१.१३ ॥ ॥

tān samprāptān munīn dṛṣṭvā pratyutthāya kṛtāñjaliḥ ।
pādyārghyādibhirānarca gāṁ nivedya ca sādaram ।
7.1.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १४ ॥
रामो ऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु महत्सु वरेषु च । ७.१.१४ ॥ ॥

rāmo 'bhivādya prayata āsanānyādideśa ha ।
teṣu kāñcanacitreṣu mahatsu ca vareṣu ca ।
7.1.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १५ ॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः । ७.१.१५ ॥ ॥

kuśāntardhānadatteṣu mṛgacarmayuteṣu ca ।
yathārhamupaviṣṭāste āsaneṣvṛṣipuṅgavāḥ ।
7.1.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १६ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् । ७.१.१६ ॥ ॥

rāmeṇa kuśalaṁ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ ।
maharṣayo vedavido rāmaṁ vacanamabruvan ।
7.1.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १७ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् । ७.१.१७ ॥ ॥

kuśalaṁ no mahābāho sarvatra raghunandana ।
tvāṁ tu diṣṭyā kuśalinaṁ paśyāmo hataśātravam ।
7.1.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १८ ॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः । हि भारः ते राम रावणः पुत्रपौत्रवान् । ७.१.१८ ॥ ॥

diṣṭyā tvayā hato rājanrāvaṇo lokarāvaṇaḥ ।
na hi bhāraḥ sa te rāma rāvaṇaḥ putrapautravān ।
7.1.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · १९ ॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा संशयः । दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः । ७.१.१९ ॥ ॥

sadhanustvaṁ hi lokāṁstrīnvijayethā na saṁśayaḥ ।
diṣṭyā tvayā hato rāma rāvaṇo rākṣaseśvaraḥ ।
7.1.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २० ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन धर्मात्मन्भ्रात्रा त्वद्धितकारिणा । ७.१.२० ॥ ॥

diṣṭyā vijayinaṁ tvādya paśyāmaḥ saha sītayā ।
lakṣmaṇena ca dharmātmanbhrātrā tvaddhitakāriṇā ।
7.1.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २१ ॥
मातृभिर्भ्रातृसहितं पश्यामो ऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः । अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः । ७.१.२१ ॥ ॥

mātṛbhirbhrātṛsahitaṁ paśyāmo 'dya vayaṁ nṛpa ।
diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ ।
akampanaśca durdharṣo nihatāste niśācarāḥ ।
7.1.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २२ ॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते । दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः । ७.१.२२ ॥ ॥

yasya pramāṇādvipulaṁ pramāṇaṁ neha vidyate ।
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ ।
7.1.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २३ ॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । दिष्ट्या ते निहता राम महावीर्या निशाचराः । ७.१.२३ ॥ ॥

triśirāścātikāyaśca devāntakanarāntakau ।
diṣṭyā te nihatā rāma mahāvīryā niśācarāḥ ।
7.1.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २४ ॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ । दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे । ७.१.२४ ॥ ॥

kumbhaścaiva nikumbhaśca rākṣasau bhīmadarśanau ।
diṣṭyā tau nihatau rāma kumbhakarṇasutau mṛdhe ।
7.1.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २५ ॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ । यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः । ७.१.२५ ॥ ॥

yuddhonmattaśca mattaśca kālāntakayamopamau ।
yajñakopaśca balavāndhūmrākṣo nāma rākṣasaḥ ।
7.1.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २६ ॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः । अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया । ७.१.२६ ॥ ॥

kurvantaḥ kadanaṁ ghoramete śastrāstrapāragāḥ ।
antakapratimairbāṇairdiṣṭyā vinihatāstvayā ।
7.1.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २७ ॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः । देवतानामवध्येन विजयं प्राप्तवानसि । ७.१.२७ ॥ ॥

diṣṭyā tvaṁ rākṣasendreṇa dvandvayuddhamupāgataḥ ।
devatānāmavadhyena vijayaṁ prāptavānasi ।
7.1.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २८ ॥
सङ्ख्ये तस्य किञ्चित्तु रावणस्य पराभवः । द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः । ७.१.२८ ॥ ॥

saṅkhye tasya na kiñcittu rāvaṇasya parābhavaḥ ।
dvandvayuddhamanuprāpto diṣṭyā te rāvaṇirhataḥ ।
7.1.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · २९ ॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः । मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया । ७.१.२९ ॥ ॥

diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ ।
muktaḥ surariporvīra prāptaśca vijayastvayā ।
7.1.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३० ॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् । सो ऽवध्यः सर्वभूतानां महामायाधरो युधि । ७.१.३० ॥ ॥

abhinandāma te sarve saṁśrutyendrajito vadham ।
so 'vadhyaḥ sarvabhūtānāṁ mahāmāyādharo yudhi ।
7.1.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३१ ॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् । ७.१.३१ ॥ ॥

vismayastveṣa cāsmākaṁ tacchrutvendrajitaṁ hatam ।
7.1.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३२ ॥
एते चान्ये बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन । ७.१.३२ ॥ ॥

ete cānye ca bahavo rākṣasāḥ kāmarūpiṇaḥ ।
diṣṭyā tvayā hatā vīrā raghūṇāṁ kulavarddhana ।
7.1.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३३ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् ॥ ॥

dattvā puṇyāmimāṁ vīra saumyāmabhayadakṣiṇām ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३४ ॥
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन । ७.१.३३ ॥ ॥

diṣṭyā vardhasi kākutstha jayenāmitrakarśana ।
7.1.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३५ ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् । ७.१.३४ ॥ ॥

śrutvā tu teṣāṁ vacanamṛṣīṇāṁ bhāvitātmanām ।
vismayaṁ paramaṁ gatvā rāmaḥ prāñjalirabravīt ।
7.1.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३६ ॥
भगवन्तः कुम्भकर्णं रावणं निशाचरम् । अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् । ७.१.३५ ॥ ॥

bhagavantaḥ kumbhakarṇaṁ rāvaṇaṁ ca niśācaram ।
atikramya mahāvīryau kiṁ praśaṁsatha rāvaṇim ।
7.1.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३७ ॥
महोदरं प्रहस्तं विरूपाक्षं राक्षसम् । मत्तोन्मत्तौ दुर्धर्षौ देवान्तकनरान्तकौ ॥ ॥

mahodaraṁ prahastaṁ ca virūpākṣaṁ ca rākṣasam ।
mattonmattau ca durdharṣau devāntakanarāntakau ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३८ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् । ७.१.३६ ॥ ॥

atikramya mahāvīryān kiṁ praśaṁsatha rāvaṇim ।
7.1.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ३९ ॥
अतिकायं त्रिशिरसं धूम्राक्षं निशाचरम् । अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् । ७.१.३७ ॥ ॥

atikāyaṁ triśirasaṁ dhūmrākṣaṁ ca niśācaram ।
atikramya mahāvīryānkiṁ praśaṁsatha rāvaṇim ।
7.1.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ४० ॥
कीदृशो वै प्रभावो ऽस्य किं बलं कः पराक्रमः । केन वा कारणेनैष रावणादतिरिच्यते । ७.१.३८ ॥ ॥

kīdṛśo vai prabhāvo 'sya kiṁ balaṁ kaḥ parākramaḥ ।
kena vā kāraṇenaiṣa rāvaṇādatiricyate ।
7.1.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ४१ ॥
शक्यं यदि मया श्रोतुं खल्वाज्ञापयामि वः । यदि गुह्यं चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् । ७.१.३९ ॥ ॥

śakyaṁ yadi mayā śrotuṁ na khalvājñāpayāmi vaḥ ।
yadi guhyaṁ na cedvaktuṁ śrotumicchāmi kathyatām ।
7.1.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ४२ ॥
शक्रो ऽपि विजितस्तेन कथं लब्धवरश्च सः । कथं बलवानन्पुत्रो पिता तस्य रावणः । ७.१.४० ॥ ॥

śakro 'pi vijitastena kathaṁ labdhavaraśca saḥ ।
kathaṁ ca balavānanputro na pitā tasya rāvaṇaḥ ।
7.1.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · १ · ४३ ॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं राक्षसः । वराश्च लब्धाः कथयस्व मे ऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् । ७.१.४१ ॥ ॥

kathaṁ pituścābhyadhiko mahāhave śakrasya jetā hi kathaṁ sa rākṣasaḥ ।
varāśca labdhāḥ kathayasva me 'dya tatpṛcchataścāsya munīndra sarvam ।
7.1.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.