वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः २ · ३४ श्लोकाःSarga 2 · 34 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · २ · १ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः । कुम्भयोनिर्मिहातेजा राममेतदुवाच ह । ७.२.१ ॥ ॥

tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ ।
kumbhayonirmihātejā rāmametaduvāca ha ।
7.2.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २ ॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् । जघान शत्रून्येनासौ वध्यः शत्रुभिः । ७.२.२ ॥ ॥

śṛṇu rāma kathāvṛttaṁ tasya tejobalaṁ mahat ।
jaghāna śatrūnyenāsau na ca vadhyaḥ sa śatrubhiḥ ।
7.2.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३ ॥
तावत्ते रावणस्येदं कुलं जन्म राघव । वरप्रदानं तथा तस्मै दत्तं ब्रवीमि ते । ७.२.३ ॥ ॥

tāvatte rāvaṇasyedaṁ kulaṁ janma ca rāghava ।
varapradānaṁ ca tathā tasmai dattaṁ bravīmi te ।
7.2.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ४ ॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः । पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः । ७.२.४ ॥ ॥

purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ ।
pulastyo nāma brahmarṣiḥ sākṣādiva pitāmahaḥ ।
7.2.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ५ ॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा । प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः । ७.२.५ ॥ ॥

nānukīrtyā guṇāstasya dharmataḥ śīlatastathā ।
prajāpateḥ putra iti vaktuṁ śakyaṁ hi nāmataḥ ।
7.2.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ६ ॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः । हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः । ७.२.६ ॥ ॥

prajāpatisutatvena devānāṁ vallabho hi saḥ ।
hṛṣṭaḥ sarvasya lokasya guṇaiḥ śubhrairmahāmatiḥ ।
7.2.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ७ ॥
तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः । तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः । ७.२.७ ॥ ॥

sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ ।
tṛṇavindvāśramaṁ gatvā nyavasanmunipuṅgavaḥ ।
7.2.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ८ ॥
तपस्तेपे धर्मात्मा स्वाध्यायनियतेन्द्रियः । गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः । ७.२.८ ॥ ॥

tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ ।
gatvāśramapadaṁ tasya vighnaṁ kurvanti kanyakāḥ ।
7.2.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ९ ॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः । क्रीडन्त्यो ऽप्सरसश्चैव तं देशमुपपेदिरे । ७.२.९ ॥ ॥

devapannagakanyāśca rājarṣitanayāśca yāḥ ।
krīḍantyo 'psarasaścaiva taṁ deśamupapedire ।
7.2.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १० ॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च । नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः । ७.२.१० ॥ ॥

sarvartuṣṛpabhogyatvādramyatvātkānanasya ca ।
nityaśastāstu taṁ deśaṁ gatvā krīḍanti kanyakāḥ ।
7.2.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ११ ॥
देशस्य रमणीयत्वात्पुलस्त्यो यत्र द्विजः । गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च । मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः । ७.२.११ ॥ ॥

deśasya ramaṇīyatvātpulastyo yatra sa dvijaḥ ।
gāyantyo vādayantyaśca lāsayantyastathaiva ca ।
munestapasvinastasya vighnaṁ cakruraninditāḥ ।
7.2.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १२ ॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः । या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति । ७.२.१२ ॥ ॥

atha kruddho mahātejā vyājahāra mahāmuniḥ ।
yā me darśanamāgacchetsā garbhaṁ dhārayiṣyati ।
7.2.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १३ ॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः । ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः । ७.२.१३ ॥ ॥

tāstu sarvāḥ pratiśrutya tasya vākyaṁ mahātmanaḥ ।
brahmaśāpabhayādbhītāstaṁ deśaṁ nopacakramuḥ ।
7.2.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १४ ॥
तृणबिन्दोस्तु राजर्षेस्तनया शृणोति तत् । ७.२.१४ ॥ ॥

tṛṇabindostu rājarṣestanayā na śṛṇoti tat ।
7.2.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १५ ॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया । सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् । ७.२.१५ ॥ ॥

gatvāśramapadaṁ tatra vicacāra sunirbhayā ।
na sāpaśyatsthitā tatra kāñcidabhyāgatāṁ sakhīm ।
7.2.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १६ ॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः । स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् । ७.२.१६ ॥ ॥

tasminkāle mahātejāḥ prājāpatyo mahānṛṣiḥ ।
svādhyāyamakarottatra tapasā bhāvitaḥ svayam ।
7.2.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १७ ॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् । अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा । ७.२.१७ ॥ ॥

sā tu vedaśrutiṁ śrutvā dṛṣṭvā vai tapaso nidhim ।
abhavatpāṇḍudehā sā suvyañjitaśarīrajā ।
7.2.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १८ ॥
वभूव समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः । इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वा ऽश्रमे स्थिता । ७.२.१८ ॥ ॥

vabhūva ca samudvignā dṛṣṭvā taddoṣamātmanaḥ ।
idaṁ me kintviti jñātvā piturgatvā ' 'śrame sthitā ।
7.2.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · १९ ॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् । किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः । ७.२.१९ ॥ ॥

tāṁ tu dṛṣṭvā tathābhūtāṁ tṛṇavindurathābravīt ।
kiṁ tvametattvasadṛśaṁ dhārayasyātmano vapuḥ ।
7.2.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २० ॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् । जाने कारणं तात येन मे रूपमीदृशम् । ७.२.२० ॥ ॥

sā tu kṛtvāñjaliṁ dīnā kanyovāca tapodhanam ।
na jāne kāraṇaṁ tāta yena me rūpamīdṛśam ।
7.2.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २१ ॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः । पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् । ७.२.२१ ॥ ॥

kiṁ tu pūrvaṁ gatāsmyekā maharṣerbhāvitātmanaḥ ।
pulastyasyāśramaṁ divyamanveṣṭuṁ svasakhījanam ।
7.2.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २२ ॥
पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् । रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता । ७.२.२२ ॥ ॥

na ca paśyāmyahaṁ tatra kāñcidabhyāgatāṁ sakhīm ।
rūpasya tu viparyāsaṁ dṛṣṭvā trāsādihāgatā ।
7.2.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २३ ॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः । ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् । ७.२.२३ ॥ ॥

tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ ।
dhyānaṁ viveśa taccāpi hyapaśyadṛṣikarmajam ।
7.2.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २४ ॥
तु विज्ञाय तं शापं महर्षेर्भावितात्मनः । गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् । ७.२.२४ ॥ ॥

sa tu vijñāya taṁ śāpaṁ maharṣerbhāvitātmanaḥ ।
gṛhītvā tanayāṁ gatvā pulastyamidamabravīt ।
7.2.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २५ ॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् । भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् । ७.२.२५ ॥ ॥

bhagavaṁstanayāṁ me tvaṁ guṇaiḥ svaireva bhūṣitām ।
bhikṣāṁ pratigṛhāṇemāṁ maharṣe svayamudyatām ।
7.2.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २६ ॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते । शुश्रूषणपरा नित्यं भविष्यति संशयः । ७.२.२६ ॥ ॥

tapaścaraṇayuktasya śramyamāṇendriyasya te ।
śuśrūṣaṇaparā nityaṁ bhaviṣyati na saṁśayaḥ ।
7.2.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २७ ॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा । जिघृक्षुरब्रवीत्कन्यां बाढमित्येव द्विजः । ७.२.२७ ॥ ॥

taṁ bruvāṇaṁ tu tadvākyaṁ rājarṣiṁ dhārmikaṁ tadā ।
jighṛkṣurabravītkanyāṁ bāḍhamityeva sa dvijaḥ ।
7.2.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २८ ॥
दत्त्वा तु यथान्यायं स्वमाश्रमपदं गतः । सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः । ७.२.२८ ॥ ॥

dattvā sa tu yathānyāyaṁ svamāśramapadaṁ gataḥ ।
sāpi tatrāvasatkanyā toṣayantī patiṁ guṇaiḥ ।
7.2.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · २९ ॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः । प्रीतः तु महातेजा वाक्यमेतदुवाच ह । ७.२.२९ ॥ ॥

tasyāstu śīlavṛttābhyāṁ tutoṣa munipuṅgavaḥ ।
prītaḥ sa tu mahātejā vākyametaduvāca ha ।
7.2.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३० ॥
परितुष्टो ऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् । तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव । ७.२.३० ॥ ॥

parituṣṭo 'smi suśroṇi guṇānāṁ sampadā bhṛśam ।
tasmāddevi dadāmyadya putramātmasamaṁ tava ।
7.2.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३१ ॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् । यस्मात्तु विश्रुतो वेदस्त्वयैषो ऽध्ययतो मम । ७.२.३१ ॥ ॥

ubhayorvaṁśakartāraṁ paulastya iti viśrutam ।
yasmāttu viśruto vedastvayaiṣo 'dhyayato mama ।
7.2.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३२ ॥
तस्मात्स विश्रवा नाम भविष्यति संशयः । एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना । ७.२.३२ ॥ ॥

tasmātsa viśravā nāma bhaviṣyati na saṁśayaḥ ।
evamuktā tu sā devī prahṛṣṭenāntarātmanā ।
7.2.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३३ ॥
अचिरेणैव कालेनासूत विश्रवसं सुतम् । त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् । ७.२.३३ ॥ ॥

acireṇaiva kālenāsūta viśravasaṁ sutam ।
triṣu lokeṣu vikhyātaṁ yaśodharmasamanvitam ।
7.2.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · २ · ३४ ॥
श्रुतिमान्समदर्शी व्रताचाररतस्तथा । पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः । ७.२.३४ ॥

śrutimānsamadarśī ca vratācāraratastathā ।
piteva tapasā yukto hyabhavadviśravā muniḥ ।
7.2.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.