वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ३ · ३६ श्लोकाःSarga 3 · 36 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ३ · १ ॥
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुङ्गवः । अचिरेणैव कालेन पितेव तपसि स्थितः । ७.३.१ ॥ ॥

atha putraḥ pulastyasya viśravā munipuṅgavaḥ ।
acireṇaiva kālena piteva tapasi sthitaḥ ।
7.3.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २ ॥
सत्यवाञ्छीलवाञ्छान्तः स्वाध्यायनिरतः शुचिः । सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः । ७.३.२ ॥ ॥

satyavāñchīlavāñchāntaḥ svādhyāyanirataḥ śuciḥ ।
sarvabhogeṣvasaṁsakto nityaṁ dharmaparāyaṇaḥ ।
7.3.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३ ॥
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महामुनिः । ददौ विश्रवसे भार्यां स्वसुतां देववर्णिनीम् । ७.३.३ ॥ ॥

jñātvā tasya tu tadvṛttaṁ bharadvājo mahāmuniḥ ।
dadau viśravase bhāryāṁ svasutāṁ devavarṇinīm ।
7.3.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ४ ॥
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा । प्रजान्वेक्षिकया बुद्ध्या श्रेयो ह्यस्य विचिन्तयन् । ७.३.४ ॥ ॥

pratigṛhya tu dharmeṇa bharadvājasutāṁ tadā ।
prajānvekṣikayā buddhyā śreyo hyasya vicintayan ।
7.3.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ५ ॥
मुदा परमया युक्तो विश्रवा मुनिपुङ्गवः । तस्यां वीर्यसम्पन्नमपत्यं परमाद्भुतम् । ७.३.५ ॥ ॥

mudā paramayā yukto viśravā munipuṅgavaḥ ।
sa tasyāṁ vīryasampannamapatyaṁ paramādbhutam ।
7.3.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ६ ॥
जनयामास धर्मज्ञः सर्वैर्ब्रह्मगुणैर्युतम् । तस्मिञ्जाते तु संहृष्टः सम्बभूव पितामहः । ७.३.६ ॥ ॥

janayāmāsa dharmajñaḥ sarvairbrahmaguṇairyutam ।
tasmiñjāte tu saṁhṛṣṭaḥ sambabhūva pitāmahaḥ ।
7.3.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ७ ॥
दृष्ट्वा श्रेयस्करीं बुद्धिं धनाध्यक्षो भविष्यति । नाम तस्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा । ७.३.७ ॥ ॥

dṛṣṭvā śreyaskarīṁ buddhiṁ dhanādhyakṣo bhaviṣyati ।
nāma tasyākarotprītaḥ sārdhaṁ devarṣibhistadā ।
7.3.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ८ ॥
यस्माद्विश्रवसो ऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम भविष्यत्वेष विश्रुतः । ७.३.८ ॥ ॥

yasmādviśravaso 'patyaṁ sādṛśyādviśravā iva ।
tasmādvaiśravaṇo nāma bhaviṣyatveṣa viśrutaḥ ।
7.3.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ९ ॥
तु वैश्रवणस्तत्र तपोवनगतस्तदा । अवर्धताहुतिहुतो महातेजा यथानलः । ७.३.९ ॥ ॥

sa tu vaiśravaṇastatra tapovanagatastadā ।
avardhatāhutihuto mahātejā yathānalaḥ ।
7.3.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १० ॥
तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः । चरिष्ये परमं धर्मं धर्मो हि परमा गतिः । ७.३.१० ॥ ॥

tasyāśramapadasthasya buddhirjajñe mahātmanaḥ ।
cariṣye paramaṁ dharmaṁ dharmo hi paramā gatiḥ ।
7.3.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ११ ॥
तु वर्षसहस्राणि तपस्तप्त्वा महावने । यन्त्रितो नियमैरुग्रैश्चकार सुमहत्तपः । ७.३.११ ॥ ॥

sa tu varṣasahasrāṇi tapastaptvā mahāvane ।
yantrito niyamairugraiścakāra sumahattapaḥ ।
7.3.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १२ ॥
पूर्णे वर्षसहस्रान्ते तं तं विधिमकल्पयत् । जलाशी मारुताहारो निराहारस्तथैव च । ७.३.१२ ॥ ॥

pūrṇe varṣasahasrānte taṁ taṁ vidhimakalpayat ।
jalāśī mārutāhāro nirāhārastathaiva ca ।
7.3.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १३ ॥
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् । अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह । ७.३.१३ ॥ ॥

evaṁ varṣasahasrāṇi jagmustānyekavarṣavat ।
atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha ।
7.3.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १४ ॥
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् । परितुष्टो ऽस्मि ते वत्स कर्मणानेन सुव्रत । वरं वृणीष्व भद्रं ते वरार्हस्त्वं महामते । ७.३.१४ ॥ ॥

gatvā tasyāśramapadaṁ brahmedaṁ vākyamabravīt ।
parituṣṭo 'smi te vatsa karmaṇānena suvrata ।
varaṁ vṛṇīṣva bhadraṁ te varārhastvaṁ mahāmate ।
7.3.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १५ ॥
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम् । भगवँल्लोकपालत्वमिच्छेयं वित्तरक्षणम् । ७.३.१५ ॥ ॥

athābravīdvaiśravaṇaḥ pitāmahamupasthitam ।
bhagavam̐llokapālatvamiccheyaṁ vittarakṣaṇam ।
7.3.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १६ ॥
अथाब्रवीद्वैश्रवणं परितुष्टेन चेतसा । ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत् । ७.३.१६ ॥ ॥

athābravīdvaiśravaṇaṁ parituṣṭena cetasā ।
brahmā suragaṇaiḥ sārdhaṁ bāḍhamityeva hṛṣṭavat ।
7.3.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १७ ॥
अहं वै लोकपालानां चतुर्थं स्रष्टुमुद्यतः । ७.३.१७ ॥ ॥

ahaṁ vai lokapālānāṁ caturthaṁ sraṣṭumudyataḥ ।
7.3.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १८ ॥
यमेन्द्रवरुणानां पदं यत्तव चेप्सितम् । तद्गच्छ त्वं हि धर्मज्ञ निधीशत्वमवाप्नुहि । शक्राम्बुपयमानां चतुर्थस्त्वं भविष्यसि । ७.३.१८ ॥ ॥

yamendravaruṇānāṁ ca padaṁ yattava cepsitam ।
tadgaccha tvaṁ hi dharmajña nidhīśatvamavāpnuhi ।
śakrāmbupayamānāṁ ca caturthastvaṁ bhaviṣyasi ।
7.3.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · १९ ॥
एतच्च पुष्पकं नाम विमानं सूर्यसन्निभम् । प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज । ७.३.१९ ॥ ॥

etacca puṣpakaṁ nāma vimānaṁ sūryasannibham ।
pratigṛhṇīṣva yānārthaṁ tridaśaiḥ samatāṁ vraja ।
7.3.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २० ॥
स्वस्ति ते ऽस्तु गमिष्यामः सर्व एव यथागतम् । कृतकृत्या वयं तात दत्त्वा तव वरद्वयम् । ७.३.२० ॥ ॥

svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam ।
kṛtakṛtyā vayaṁ tāta dattvā tava varadvayam ।
7.3.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २१ ॥
इत्युक्त्वा गतो ब्रह्मा स्वस्थानं त्रिदशैः सह । ७.३.२१ ॥ ॥

ityuktvā sa gato brahmā svasthānaṁ tridaśaiḥ saha ।
7.3.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २२ ॥
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्थलम् । वने पितरं प्राह प्राञ्जलिः प्रयतात्मवान् । निवासनं मे देवो विदधे प्रजापतिः । ७.३.२२ ॥ ॥

gateṣu brahmapūrveṣu deveṣvatha nabhasthalam ।
vane sa pitaraṁ prāha prāñjaliḥ prayatātmavān ।
nivāsanaṁ na me devo vidadhe sa prajāpatiḥ ।
7.3.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २३ ॥
भगवँल्लब्धवानस्मि वरमिष्टं पितामहात् । तं पश्य भगवन्कञ्चिन्निवासं साधु मे प्रभो । ७.३.२३ ॥ ॥

bhagavam̐llabdhavānasmi varamiṣṭaṁ pitāmahāt ।
taṁ paśya bhagavankañcinnivāsaṁ sādhu me prabho ।
7.3.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २४ ॥
पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् । एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुङ्गवः । ७.३.२४ ॥ ॥

na ca pīḍā bhavedyatra prāṇino yasya kasyacit ।
evamuktastu putreṇa viśravā munipuṅgavaḥ ।
7.3.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २५ ॥
वचनं प्राह धर्मज्ञः श्रूयतामिति सत्तमः । दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । ७.३.२५ ॥ ॥

vacanaṁ prāha dharmajñaḥ śrūyatāmiti sattamaḥ ।
dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ ।
7.3.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २६ ॥
तस्याग्रे तु विशाला सा महेन्द्रस्य पुरी यथा । लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा । ७.३.२६ ॥ ॥

tasyāgre tu viśālā sā mahendrasya purī yathā ।
laṅkā nāma purī ramyā nirmitā viśvakarmaṇā ।
7.3.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २७ ॥
राक्षसानां निवासार्थं यथेन्द्रस्यामरावती । तत्र त्वं वस भद्रं ते लङ्कायां नात्र संशयः । ७.३.२७ ॥ ॥

rākṣasānāṁ nivāsārthaṁ yathendrasyāmarāvatī ।
tatra tvaṁ vasa bhadraṁ te laṅkāyāṁ nātra saṁśayaḥ ।
7.3.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २८ ॥
हेमप्राकारपरिघा यन्त्रशस्त्रसमावृता । रमणीया पुरी सा हि रुक्मवैडूर्यतोरणा । ७.३.२८ ॥ ॥

hemaprākāraparighā yantraśastrasamāvṛtā ।
ramaṇīyā purī sā hi rukmavaiḍūryatoraṇā ।
7.3.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · २९ ॥
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः । शून्या रक्षोगणैः सर्वै रसातलतलं गतैः । ७.३.२९ ॥ ॥

rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ ।
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṁ gataiḥ ।
7.3.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३० ॥
शून्या सम्प्रति लङ्का सा प्रभुस्तस्या विद्यते । त्वं तत्र निवासाय गच्छ पुत्र यथासुखम् । ७.३.३० ॥ ॥

śūnyā samprati laṅkā sā prabhustasyā na vidyate ।
sa tvaṁ tatra nivāsāya gaccha putra yathāsukham ।
7.3.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३१ ॥
निर्दोषस्तत्र ते वासो बाधास्तत्र कस्यचित् । एतच्छुत्वा धर्मात्मा धर्मिष्ठं वचनं पितुः । ७.३.३१ ॥ ॥

nirdoṣastatra te vāso na bādhāstatra kasyacit ।
etacchutvā sa dharmātmā dharmiṣṭhaṁ vacanaṁ pituḥ ।
7.3.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३२ ॥
निवासयामास तदा लङ्कां पर्वतमूर्धनि । नैर्ऋतानां सहस्रैस्तु हृष्टैः प्रमुदुतैः सह । ७.३.३२ ॥ ॥

nivāsayāmāsa tadā laṅkāṁ parvatamūrdhani ।
nairṛtānāṁ sahasraistu hṛṣṭaiḥ pramudutaiḥ saha ।
7.3.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३३ ॥
अचिरेणैव कालेन सम्पूर्णा तस्य शासनात् । ७.३.३३ ॥ ॥

acireṇaiva kālena sampūrṇā tasya śāsanāt ।
7.3.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३४ ॥
तु तत्रावसत्प्रीतो धर्मात्मा नैर्ऋतर्षभः । समुद्रपरिघायां तु लङ्कायां विश्रवात्मजः । ७.३.३४ ॥ ॥

sa tu tatrāvasatprīto dharmātmā nairṛtarṣabhaḥ ।
samudraparighāyāṁ tu laṅkāyāṁ viśravātmajaḥ ।
7.3.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३५ ॥
काले काले तु धर्मात्मा पुष्पकेण धनेश्वरः । अभ्यागच्छद्विनीतात्मा पितरं मातरं हि । ७.३.३५ ॥ ॥

kāle kāle tu dharmātmā puṣpakeṇa dhaneśvaraḥ ।
abhyāgacchadvinītātmā pitaraṁ mātaraṁ ca hi ।
7.3.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ३ · ३६ ॥
देवगन्धर्वगणैरभिष्टुतस्तथाप्सरोनृत्यविभूषितालयः । गभस्तिभिः सूर्य इवावभासयन्पितुः समीपं प्रययौ वित्तपः । ७.३.३६ ॥

sa devagandharvagaṇairabhiṣṭutastathāpsaronṛtyavibhūṣitālayaḥ ।
gabhastibhiḥ sūrya ivāvabhāsayanpituḥ samīpaṁ prayayau sa vittapaḥ ।
7.3.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.