वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ४ · ३२ श्लोकाःSarga 4 · 32 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ४ · १ ॥
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः । कथमासीत्तु लङ्कायां सम्भवो रक्षसां पुरा । ७.४.१ ॥ ॥

śrutvāgastyeritaṁ vākyaṁ rāmo vismayamāgataḥ ।
kathamāsīttu laṅkāyāṁ sambhavo rakṣasāṁ purā ।
7.4.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २ ॥
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् । तमगस्त्यं मुहुर्दृष्ट्वा स्मयमानो ऽभ्यभाषत । ७.४.२ ॥ ॥

tataḥ śiraḥ kampayitvā tretāgnisamavigraham ।
tamagastyaṁ muhurdṛṣṭvā smayamāno 'bhyabhāṣata ।
7.4.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ३ ॥
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् । श्रुत्वेदं भगवद्वाक्यं जातो मे विस्मयः परः । ७.४.३ ॥ ॥

bhagavanpūrvamapyeṣā laṅkāsītpiśitāśinām ।
śrutvedaṁ bhagavadvākyaṁ jāto me vismayaḥ paraḥ ।
7.4.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ४ ॥
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् । इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया । ७.४.४ ॥ ॥

pulastyavaṁśādudbhūtā rākṣasā iti naḥ śrutam ।
idānīmanyataścāpi sambhavaḥ kīrtitastvayā ।
7.4.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ५ ॥
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि । रावणस्य पुत्रेभ्यः किं नु ते बलवत्तराः । ७.४.५ ॥ ॥

rāvaṇātkumbhakarṇācca prahastādvikaṭādapi ।
rāvaṇasya ca putrebhyaḥ kiṁ nu te balavattarāḥ ।
7.4.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ६ ॥
एषां पूर्वको ब्रह्मन्किन्नामा बलोत्कटः । अपराधं कं प्राप्य विष्णुना द्राविताः कथम् । ७.४.६ ॥ ॥

ka eṣāṁ pūrvako brahmankinnāmā ca balotkaṭaḥ ।
aparādhaṁ ca kaṁ prāpya viṣṇunā drāvitāḥ katham ।
7.4.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ७ ॥
एतद्विस्तरतः सर्वं कथयस्व ममानघ । कुतूहलमिदं मह्यं नुद भानुर्यथा तमः । ७.४.७ ॥ ॥

etadvistarataḥ sarvaṁ kathayasva mamānagha ।
kutūhalamidaṁ mahyaṁ nuda bhānuryathā tamaḥ ।
7.4.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ८ ॥
राघवस्य वचः श्रुत्वा संस्कारालङ्कृतं शुभम् । ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् । ७.४.८ ॥ ॥

rāghavasya vacaḥ śrutvā saṁskārālaṅkṛtaṁ śubham ।
īṣadvismayamānastamagastyaḥ prāha rāghavam ।
7.4.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ९ ॥
प्रजापतिः पुरा सृष्ट्वा ह्यपः सलिलसम्भवः । तासां गोपायने सत्त्वानसृजत्पद्मसम्भवः । ७.४.९ ॥ ॥

prajāpatiḥ purā sṛṣṭvā hyapaḥ salilasambhavaḥ ।
tāsāṁ gopāyane sattvānasṛjatpadmasambhavaḥ ।
7.4.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १० ॥
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः । किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः । ७.४.१० ॥ ॥

te sattvāḥ sattvakartāraṁ vinītavadupasthitāḥ ।
kiṁ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ ।
7.4.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ११ ॥
प्रजापतिस्तु तान्याह सत्वानि प्रहसन्निव । आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः । ७.४.११ ॥ ॥

prajāpatistu tānyāha satvāni prahasanniva ।
ābhāṣya vācā yatnena rakṣadhvamiti mānadaḥ ।
7.4.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १२ ॥
रक्षामेति तत्रान्ये जक्षाम इति चापरे । भुक्षिताभुक्षितैरुक्तस्ततस्तानाह भूतकृत् । ७.४.१२ ॥ ॥

rakṣāmeti ca tatrānye jakṣāma iti cāpare ।
bhukṣitābhukṣitairuktastatastānāha bhūtakṛt ।
7.4.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १३ ॥
रक्षामेति यैरुक्तं राक्षसास्ते भवन्तु वः । जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः । ७.४.१३ ॥ ॥

rakṣāmeti ca yairuktaṁ rākṣasāste bhavantu vaḥ ।
jakṣāma iti yairuktaṁ yakṣā eva bhavantu vaḥ ।
7.4.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १४ ॥
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसाधिपौ । मधुकैटभसङ्काशौ बभूवतुररिन्दमौ । ७.४.१४ ॥ ॥

tatra hetiḥ prahetiśca bhrātarau rākṣasādhipau ।
madhukaiṭabhasaṅkāśau babhūvaturarindamau ।
7.4.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १५ ॥
प्रहेतिर्धार्मिकस्तत्र तपोवनगतस्तदा । हेतिर्दारक्रियार्थे तु परं यत्नमथाकरोत् । ७.४.१५ ॥ ॥

prahetirdhārmikastatra tapovanagatastadā ।
hetirdārakriyārthe tu paraṁ yatnamathākarot ।
7.4.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १६ ॥
कालभगिनीं कन्यां भयां नाम भयावहाम् । उदावहदमेयात्मा स्वयमेव महामतिः । ७.४.१६ ॥ ॥

sa kālabhaginīṁ kanyāṁ bhayāṁ nāma bhayāvahām ।
udāvahadameyātmā svayameva mahāmatiḥ ।
7.4.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १७ ॥
तस्यां जनयामास हेती राक्षसपुङ्गवः । पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् । ७.४.१७ ॥ ॥

sa tasyāṁ janayāmāsa hetī rākṣasapuṅgavaḥ ।
putraṁ putravatāṁ śreṣṭho vidyutkeśa iti śrutam ।
7.4.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १८ ॥
विद्युत्केशो हेतिपुत्रः दीप्तार्कसमप्रभः । व्यवर्धत महातेजास्तोयमध्य इवाम्बुदः । ७.४.१८ ॥ ॥

vidyutkeśo hetiputraḥ sa dīptārkasamaprabhaḥ ।
vyavardhata mahātejāstoyamadhya ivāmbudaḥ ।
7.4.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · १९ ॥
यदा यौवनं भद्रमनुप्राप्तो निशाचरः । ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता । ७.४.१९ ॥ ॥

sa yadā yauvanaṁ bhadramanuprāpto niśācaraḥ ।
tato dārakriyāṁ tasya kartuṁ vyavasitaḥ pitā ।
7.4.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २० ॥
सन्ध्यायास्तनयां सो ऽथ सन्ध्यातुल्यां प्रभावतः । वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः । ७.४.२० ॥ ॥

sandhyāyāstanayāṁ so 'tha sandhyātulyāṁ prabhāvataḥ ।
varayāmāsa putrārthaṁ hetī rākṣasapuṅgavaḥ ।
7.4.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २१ ॥
अवश्यमेव दातव्या परस्मै सेति सन्ध्यया । चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव । ७.४.२१ ॥ ॥

avaśyameva dātavyā parasmai seti sandhyayā ।
cintayitvā sutā dattā vidyutkeśāya rāghava ।
7.4.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २२ ॥
सन्ध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः । रमते स्म तया सार्धं पौलोम्या मघवानिव । ७.४.२२ ॥ ॥

sandhyāyāstanayāṁ labdhvā vidyutkeśo niśācaraḥ ।
ramate sma tayā sārdhaṁ paulomyā maghavāniva ।
7.4.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २३ ॥
केनचित्त्वथ कालेन राम सालकटङ्कटा । विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् । ७.४.२३ ॥ ॥

kenacittvatha kālena rāma sālakaṭaṅkaṭā ।
vidyutkeśādgarbhamāpa ghanarājirivārṇavāt ।
7.4.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २४ ॥
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् । प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् । ७.४.२४ ॥ ॥

tataḥ sā rākṣasī garbhaṁ ghanagarbhasamaprabham ।
prasūtā mandaraṁ gatvā gaṅgā garbhamivāgnijam ।
7.4.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २५ ॥
समुत्सृज्य तु सा गर्भं विद्युत्केशरतार्थिनी । रेमे तु सार्धं पतिना विस्मृत्य सुतमात्मजम् । ७.४.२५ ॥ ॥

samutsṛjya tu sā garbhaṁ vidyutkeśaratārthinī ।
reme tu sārdhaṁ patinā vismṛtya sutamātmajam ।
7.4.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २६ ॥
उत्सृष्टस्तु तदा गर्भो घनशब्दसमस्वनः । तयोत्सृष्टः तु शिशुः शरदर्कसमद्युतिः । निधायास्ये स्वयं मुष्टिं रुरोद शनकैस्तदा । ७.४.२६ ॥ ॥

utsṛṣṭastu tadā garbho ghanaśabdasamasvanaḥ ।
tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ ।
nidhāyāsye svayaṁ muṣṭiṁ ruroda śanakaistadā ।
7.4.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २७ ॥
ततो वृषभमास्थाय पार्वत्या सहितः शिवः । वायुमार्गेण गच्छन्वै शुश्राव रुदितस्वनम् । ७.४.२७ ॥ ॥

tato vṛṣabhamāsthāya pārvatyā sahitaḥ śivaḥ ।
vāyumārgeṇa gacchanvai śuśrāva ruditasvanam ।
7.4.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २८ ॥
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् । कारुण्यभावात्पार्वत्या भवस्त्रिपुरसूदनः । ७.४.२८ ॥ ॥

apaśyadumayā sārdhaṁ rudantaṁ rākṣasātmajam ।
kāruṇyabhāvātpārvatyā bhavastripurasūdanaḥ ।
7.4.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · २९ ॥
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् । अमरं चैव तं कृत्वा महादेवो ऽक्षरो ऽव्ययः । ७.४.२९ ॥ ॥

taṁ rākṣasātmajaṁ cakre mātureva vayaḥsamam ।
amaraṁ caiva taṁ kṛtvā mahādevo 'kṣaro 'vyayaḥ ।
7.4.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ३० ॥
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया । उमयापि वरो दत्तो राक्षसानां नृपात्मज । ७.४.३० ॥ ॥

puramākāśagaṁ prādātpārvatyāḥ priyakāmyayā ।
umayāpi varo datto rākṣasānāṁ nṛpātmaja ।
7.4.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ३१ ॥
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च । सद्य एव वयःप्राप्तिर्मातुरेव वयस्समम् । ७.४.३१ ॥ ॥

sadyopalabdhirgarbhasya prasūtiḥ sadya eva ca ।
sadya eva vayaḥprāptirmātureva vayassamam ।
7.4.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ४ · ३२ ॥
ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः । चचार सर्वत्र महान्महामतिः खगं पुरं प्राप्य पुरन्दरो यथा । ७.४.३२ ॥

tataḥ sukeśo varadānagarvitaḥ śriyaṁ prabhoḥ prāpya harasya pārśvataḥ ।
cacāra sarvatra mahānmahāmatiḥ khagaṁ puraṁ prāpya purandaro yathā ।
7.4.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.