वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ५ · ४७ श्लोकाःSarga 5 · 47 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ५ · १ ॥
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं राक्षसम् । ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः । ७.५.१ ॥ ॥

sukeśaṁ dhārmikaṁ dṛṣṭvā varalabdhaṁ ca rākṣasam ।
grāmaṇīrnāma gandharvo viśvāvasusamaprabhaḥ ।
7.5.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २ ॥
तस्य देववती नाम द्वितीया श्रीरिवात्मजा । त्रिषु लोकेषु विख्याता रूपयौवनशालिनी । तां सुकेशाय धर्मेण ददौ रक्षःश्रियं यथा । ७.५.२ ॥ ॥

tasya devavatī nāma dvitīyā śrīrivātmajā ।
triṣu lokeṣu vikhyātā rūpayauvanaśālinī ।
tāṁ sukeśāya dharmeṇa dadau rakṣaḥśriyaṁ yathā ।
7.5.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३ ॥
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम् । आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः । ७.५.३ ॥ ॥

varadānakṛtaiśvaryaṁ sā taṁ prāpya patiṁ priyam ।
āsīddevavatī tuṣṭā dhanaṁ prāpyeva nirdhanaḥ ।
7.5.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४ ॥
तया सह संयुक्तो रराज रजनीचरः । अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः । ७.५.४ ॥ ॥

sa tayā saha saṁyukto rarāja rajanīcaraḥ ।
añjanādabhiniṣkrāntaḥ kareṇveva mahāgajaḥ ।
7.5.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ५ ॥
देववत्यां सुकेशस्तु जनयामास राघव । ७.५.५ ॥ ॥

devavatyāṁ sukeśastu janayāmāsa rāghava ।
7.5.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ६ ॥
त्रीन् पुत्रान् जनयामास त्रेताग्निसमविग्रहान् । माल्यवन्तं सुमालिं मालिं बलिनां वरम् । त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः । ७.५.६ ॥ ॥

trīn putrān janayāmāsa tretāgnisamavigrahān ।
mālyavantaṁ sumāliṁ ca māliṁ ca balināṁ varam ।
trīṁstrinetrasamānputrānrākṣasānrākṣasādhipaḥ ।
7.5.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ७ ॥
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः । त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः । ७.५.७ ॥ ॥

trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ ।
trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ ।
7.5.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ८ ॥
त्रयः सुकेशस्य सुतास्त्रेताग्निसमतेजसः । विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव । ७.५.८ ॥ ॥

trayaḥ sukeśasya sutāstretāgnisamatejasaḥ ।
vivṛddhimagamaṁstatra vyādhayopekṣitā iva ।
7.5.8 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ९ ॥
वरप्राप्तिं पितुस्ते तु ज्ञात्वेश्वरतपोबलात् । तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः । ७.५.९ ॥ ॥

varaprāptiṁ pituste tu jñātveśvaratapobalāt ।
tapastaptuṁ gatā meruṁ bhrātaraḥ kṛtaniścayāḥ ।
7.5.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १० ॥
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम । विचेरुस्ते तपो घोरं सर्वभूतभयावहम् । ७.५.१० ॥ ॥

pragṛhya niyamānghorānrākṣasā nṛpasattama ।
viceruste tapo ghoraṁ sarvabhūtabhayāvaham ।
7.5.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ११ ॥
सत्यार्जवशमोपेतैस्तपोभिरतिदुष्करैः । सन्तापयन्तस्त्रील्लोँकान्सदेवासुरमानुषान् । ७.५.११ ॥ ॥

satyārjavaśamopetaistapobhiratiduṣkaraiḥ ।
santāpayantastrīllom̐kānsadevāsuramānuṣān ।
7.5.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १२ ॥
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः । सुकेशपुत्रानामन्त्र्य वरदो ऽस्मीत्यभाषत । ७.५.१२ ॥ ॥

tato vibhuścaturvaktro vimānavaramāsthitaḥ ।
sukeśaputrānāmantrya varado 'smītyabhāṣata ।
7.5.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १३ ॥
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम् । ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः । ७.५.१३ ॥ ॥

brahmāṇaṁ varadaṁ jñātvā sendrairdevagaṇairvṛtam ।
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ ।
7.5.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १४ ॥
तपसाराधितो देव यदि नो दिशसे वरम् । अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः । ७.५.१४ ॥ ॥

tapasārādhito deva yadi no diśase varam ।
ajeyāḥ śatruhantārastathaiva cirajīvinaḥ ।
7.5.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १५ ॥
प्रभविष्ण्वो भवामेति परस्परमनुव्रताः । ७.५.१५ ॥ ॥

prabhaviṣṇvo bhavāmeti parasparamanuvratāḥ ।
7.5.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १६ ॥
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्विभुः । ययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः । ७.५.१६ ॥ ॥

evaṁ bhaviṣyatītyuktvā sukeśatanayānvibhuḥ ।
sa yayau brahmalokāya brahmā brāhmaṇavatsalaḥ ।
7.5.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १७ ॥
वरं लब्ध्वा तु ते सर्वे राम रात्रिञ्चरास्तदा । सुरासुरान्प्रबाधन्ते वरदानसुनिर्भयाः । ७.५.१७ ॥ ॥

varaṁ labdhvā tu te sarve rāma rātriñcarāstadā ।
surāsurānprabādhante varadānasunirbhayāḥ ।
7.5.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १८ ॥
तैर्वध्यमानास्त्रिदशाः सर्षिसङ्घाः सचारणाः । त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः । ७.५.१८ ॥ ॥

tairvadhyamānāstridaśāḥ sarṣisaṅghāḥ sacāraṇāḥ ।
trātāraṁ nādhigacchanti nirayasthā yathā narāḥ ।
7.5.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · १९ ॥
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम् । ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम । ७.५.१९ ॥ ॥

atha te viśvakarmāṇaṁ śilpināṁ varamavyayam ।
ūcuḥ sametya saṁhṛṣṭā rākṣasā raghusattama ।
7.5.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २० ॥
ओजस्तेजोबलवतां महतामात्मतेजसा । गृहकर्ता भवानेव देवानां हृदयेप्सितम् । ७.५.२० ॥ ॥

ojastejobalavatāṁ mahatāmātmatejasā ।
gṛhakartā bhavāneva devānāṁ hṛdayepsitam ।
7.5.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २१ ॥
अस्माकमपि तावत्त्वं गृहं कुरु महामते । हिमवन्तमपाश्रित्य मेरुमन्दरमेव वा । महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् । ७.५.२१ ॥ ॥

asmākamapi tāvattvaṁ gṛhaṁ kuru mahāmate ।
himavantamapāśritya merumandarameva vā ।
maheśvaragṛhaprakhyaṁ gṛhaṁ naḥ kriyatāṁ mahat ।
7.5.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २२ ॥
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः । निवासं कथयामास शक्रस्येवामरावतीम् । ७.५.२२ ॥ ॥

viśvakarmā tatasteṣāṁ rākṣasānāṁ mahābhujaḥ ।
nivāsaṁ kathayāmāsa śakrasyevāmarāvatīm ।
7.5.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २३ ॥
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः । सुवेल इति चाप्यन्यो द्वितीयस्तत्र सत्तमाः । ७.५.२३ ॥ ॥

dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ ।
suvela iti cāpyanyo dvitīyastatra sattamāḥ ।
7.5.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २४ ॥
शिखरे तस्य शैलस्य मध्यमे ऽम्बुदसन्निभे । शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि । ७.५.२४ ॥ ॥

śikhare tasya śailasya madhyame 'mbudasannibhe ।
śakunairapi duṣprāpe ṭaṅkacchinnacaturdiśi ।
7.5.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २५ ॥
त्रिंशद्योजनक्स्तीर्णा शतयोजनमायता । स्वर्णप्राकारसंवीता हेमतोरणसंवृता । ७.५.२५ ॥ ॥

triṁśadyojanakstīrṇā śatayojanamāyatā ।
svarṇaprākārasaṁvītā hematoraṇasaṁvṛtā ।
7.5.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २६ ॥
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता । तस्यां वसत दुर्धर्षा यूयं राक्षसपुङ्गवाः । ७.५.२६ ॥ ॥

mayā laṅketi nagarī śakrājñaptena nirmitā ।
tasyāṁ vasata durdharṣā yūyaṁ rākṣasapuṅgavāḥ ।
7.5.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २७ ॥
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः । लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः । ७.५.२७ ॥ ॥

amarāvatīṁ samāsādya sendrā iva divaukasaḥ ।
laṅkādurgaṁ samāsādya rākṣasairbahubhirvṛtāḥ ।
7.5.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २८ ॥
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः । ७.५.२८ ॥ ॥

bhaviṣyatha durādharṣāḥ śatrūṇāṁ śatrusūdanāḥ ।
7.5.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · २९ ॥
विश्वकर्मवचः श्रुत्वा ततस्ते राक्षसोत्तमाः । सहस्रानुचरा भूत्वा गत्वा तामवसन्पुरीम् । ७.५.२९ ॥ ॥

viśvakarmavacaḥ śrutvā tataste rākṣasottamāḥ ।
sahasrānucarā bhūtvā gatvā tāmavasanpurīm ।
7.5.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३० ॥
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम् । लङ्कामवाप्य ते हृष्टा न्यवसन्रजनीचराः । ७.५.३० ॥ ॥

dṛḍhaprākāraparikhāṁ haimairgṛhaśatairvṛtām ।
laṅkāmavāpya te hṛṣṭā nyavasanrajanīcarāḥ ।
7.5.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३१ ॥
एतस्मिन्नेव काले तु यथाकामं राघव । नर्मदा नाम गन्धर्वी बभूव रघुनन्दन । ७.५.३१ ॥ ॥

etasminneva kāle tu yathākāmaṁ ca rāghava ।
narmadā nāma gandharvī babhūva raghunandana ।
7.5.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३२ ॥
तस्याः कान्यात्रयं ह्यासीत् धीश्रीकिर्तिसमद्युति । ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी । ७.५.३२ ॥ ॥

tasyāḥ kānyātrayaṁ hyāsīt dhīśrīkirtisamadyuti ।
jyeṣṭhakrameṇa sā teṣāṁ rākṣasānāmarākṣasī ।
7.5.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३३ ॥
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः । त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः । ७.५.३३ ॥ ॥

kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ ।
trayāṇāṁ rākṣasendrāṇāṁ tisro gandharvakanyakāḥ ।
7.5.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३४ ॥
दत्ता मात्रा महाभागा नक्षत्रे भगदैवते । कुतदारास्तु ते राम सुकेशतनयास्तदा । ७.५.३४ ॥ ॥

dattā mātrā mahābhāgā nakṣatre bhagadaivate ।
kutadārāstu te rāma sukeśatanayāstadā ।
7.5.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३५ ॥
चिक्रीडुः सह भार्याभिरप्सरोभिरिवामराः । ततो माल्यवतो भार्या सुन्दरी नाम सुन्दरी । ७.५.३५ ॥ ॥

cikrīḍuḥ saha bhāryābhirapsarobhirivāmarāḥ ।
tato mālyavato bhāryā sundarī nāma sundarī ।
7.5.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३६ ॥
तस्यां जनयामास यदपत्यं निबोध तत् । वज्रमुष्टिर्विरूपाक्षोदुर्मुखश्चैव राक्षसः । ७.५.३६ ॥ ॥

sa tasyāṁ janayāmāsa yadapatyaṁ nibodha tat ।
vajramuṣṭirvirūpākṣodurmukhaścaiva rākṣasaḥ ।
7.5.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३७ ॥
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च । अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी । ७.५.३७ ॥ ॥

suptaghno yajñakopaśca mattonmattau tathaiva ca ।
analā cābhavatkanyā sundaryāṁ rāma sundarī ।
7.5.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३८ ॥
सुमालिनो ऽपि भार्यासीत्पूर्णचद्रनिभानना । नाम्ना केतुमती राम प्राणेभ्यो ऽपि गरीयसी । ७.५.३८ ॥ ॥

sumālino 'pi bhāryāsītpūrṇacadranibhānanā ।
nāmnā ketumatī rāma prāṇebhyo 'pi garīyasī ।
7.5.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ३९ ॥
सुमाली जनयामास यदपत्यं निशाचरः । केतुमत्यां महाराज तन्निबोधानुपूर्वशः । ७.५.३९ ॥ ॥

sumālī janayāmāsa yadapatyaṁ niśācaraḥ ।
ketumatyāṁ mahārāja tannibodhānupūrvaśaḥ ।
7.5.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४० ॥
प्रहस्तो ऽकम्पनश्चैव विकटः कालकार्मुखः । धूम्राक्षश्चैव दण्डश्च सुपार्श्वश्च महाबलः । ७.५.४० ॥ ॥

prahasto 'kampanaścaiva vikaṭaḥ kālakārmukhaḥ ।
dhūmrākṣaścaiva daṇḍaśca supārśvaśca mahābalaḥ ।
7.5.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४१ ॥
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः । राका पुष्पोत्कटा चैव कैकसी शुचिस्मिता ॥ ॥

saṁhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ ।
rākā puṣpotkaṭā caiva kaikasī ca śucismitā ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४२ ॥
कुम्भीनसी इत्येते सुमालेः प्रसवाः स्मृताः । ७.५.४१ ॥ ॥

kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ ।
7.5.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४३ ॥
मालेस्तु वसुधा नाम गन्धर्वी रूपशालिनी । भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा । ७.५.४२ ॥ ॥

mālestu vasudhā nāma gandharvī rūpaśālinī ।
bhāryāsītpadmapatrākṣī svakṣī yakṣīvaropamā ।
7.5.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४४ ॥
सुमालेरनुजस्तस्यां जनयामास यत् प्रभो । अपत्यं कथ्यमानं तु मया त्वं शृणु राघव । ७.५.४३ ॥ ॥

sumāleranujastasyāṁ janayāmāsa yat prabho ।
apatyaṁ kathyamānaṁ tu mayā tvaṁ śṛṇu rāghava ।
7.5.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४५ ॥
अनिलश्चानलश्चैव हरः सम्पातिरेव च । एते विभीषणामात्या मालेयास्तु निशाचरः । ७.५.४४ ॥ ॥

anilaścānalaścaiva haraḥ sampātireva ca ।
ete vibhīṣaṇāmātyā māleyāstu niśācaraḥ ।
7.5.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४६ ॥
ततस्तु ते राक्षसपुङ्गवास्त्रयो निशाचरैः पुत्रशतैश्च संवृताः । सुरान्सहेन्द्रानृषिनागयक्षान्बबाधिरे तान्बहुवीर्यदर्पिताः । ७.५.४५ ॥ ॥

tatastu te rākṣasapuṅgavāstrayo niśācaraiḥ putraśataiśca saṁvṛtāḥ ।
surānsahendrānṛṣināgayakṣānbabādhire tānbahuvīryadarpitāḥ ।
7.5.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ५ · ४७ ॥
जगद्भ्रमन्तो ऽनिलवद्दुरासदा रणेषु मृत्युप्रतिमानतेजसः । वरप्रदानादतिगर्विता भृशं क्रतुक्रियाणां प्रशमङ्कराः सदा । ७.५.४६ ॥

jagadbhramanto 'nilavaddurāsadā raṇeṣu mṛtyupratimānatejasaḥ ।
varapradānādatigarvitā bhṛśaṁ kratukriyāṇāṁ praśamaṅkarāḥ sadā ।
7.5.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.