वाल्मीकि रामायणम् · उत्तरकाण्डम्Uttara Kāṇḍa

उत्तरकाण्डम्Uttara Kāṇḍa

सर्गः ६ · ७१ श्लोकाःSarga 6 · 71 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ७ · ६ · १ ॥
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः । भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् । ७.६.१ ॥ ॥

tairvadhyamānā devāśca ṛṣayaśca tapodhanāḥ ।
bhayārtāḥ śaraṇaṁ jagmurdevadevaṁ maheśvaram ।
7.6.1 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २ ॥
जगत्सृष्ट्यन्तकर्तारमजमव्यक्तरूपिणम् । आधारं सर्वलोकानामाराध्यं परमं गुरुम् । ७.६.२ ॥ ॥

jagatsṛṣṭyantakartāramajamavyaktarūpiṇam ।
ādhāraṁ sarvalokānāmārādhyaṁ paramaṁ gurum ।
7.6.2 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३ ॥
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम् । ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः । ७.६.३ ॥ ॥

te sametya tu kāmāriṁ tripurāriṁ trilocanam ।
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ ।
7.6.3 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४ ॥
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः । प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधनैः । ७.६.४ ॥ ॥

sukeśaputrairbhagavanpitāmahavaroddhataiḥ ।
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhanaiḥ ।
7.6.4 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५ ॥
शरण्यान्यशरण्यानि ह्याश्रमाणि कृतानि नः । स्वर्गाच्च देवान्प्रच्याव्य स्वर्गे क्रीडन्ति देववत् । ७.६.५ ॥ ॥

śaraṇyānyaśaraṇyāni hyāśramāṇi kṛtāni naḥ ।
svargācca devānpracyāvya svarge krīḍanti devavat ।
7.6.5 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६ ॥
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम् । अहं यमश्च वरुणश्चन्द्रो ऽहं रविरप्यहम् । ७.६.६ ॥ ॥

ahaṁ viṣṇurahaṁ rudro brahmāhaṁ devarāḍaham ।
ahaṁ yamaśca varuṇaścandro 'haṁ ravirapyaham ।
7.6.6 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ७ ॥
इति माली सुमाली माल्यवांश्चैव राक्षसाः । बाधन्ते समरोद्धर्षा ये तेषां पुरःसराः । तन्नो देव भयार्तानामभयं दातुमर्हसि । ७.६.७ ॥ ॥

iti mālī sumālī ca mālyavāṁścaiva rākṣasāḥ ।
bādhante samaroddharṣā ye ca teṣāṁ puraḥsarāḥ ।
tanno deva bhayārtānāmabhayaṁ dātumarhasi ।
7.6.7 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ८ ॥
अशिवं वपुरास्थाय जहि वै देवकण्टकान् । ७.६.८ । धन्ते समरोद्धर्षा ये तेषां पुरःसराः । इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः । सुकेशं प्रति सापेक्षः प्राह देवगणान्प्रभुः । ७.६.९ ॥ ॥

aśivaṁ vapurāsthāya jahi vai devakaṇṭakān ।
7.6.8 ।
dhante samaroddharṣā ye ca teṣāṁ puraḥsarāḥ ।
ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ ।
sukeśaṁ prati sāpekṣaḥ prāha devagaṇānprabhuḥ ।
7.6.9 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ९ ॥
अहं तान्न हनिष्यामि मयावध्या हि ते सुराः । किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति । ७.६.१० ॥ ॥

ahaṁ tānna haniṣyāmi mayāvadhyā hi te surāḥ ।
kiṁ tu mantraṁ pradāsyāmi yo vai tānnihaniṣyati ।
7.6.10 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १० ॥
एतमेव समुद्योगं पुरस्कृत्य महर्षयः । गच्छध्वं शरणं विष्णुं हनिष्यति तान्प्रभुः । ७.६.११ ॥ ॥

etameva samudyogaṁ puraskṛtya maharṣayaḥ ।
gacchadhvaṁ śaraṇaṁ viṣṇuṁ haniṣyati sa tānprabhuḥ ।
7.6.11 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ११ ॥
ततस्तु जयशब्देन प्रतिनन्द्य महेश्वरम् । विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः । ७.६.१२ ॥ ॥

tatastu jayaśabdena pratinandya maheśvaram ।
viṣṇoḥ samīpamājagmurniśācarabhayārditāḥ ।
7.6.12 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १२ ॥
शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च । ऊचुः सम्भ्रान्तवद्वाक्यं सुकेशतनयान्प्रति । ७.६.१३ ॥ ॥

śaṅkhacakradharaṁ devaṁ praṇamya bahumānya ca ।
ūcuḥ sambhrāntavadvākyaṁ sukeśatanayānprati ।
7.6.13 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १३ ॥
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसन्निभैः । आक्रम्य वरदानेन स्थानान्यपहृतानि नः । ७.६.१४ ॥ ॥

sukeśatanayairdeva tribhistretāgnisannibhaiḥ ।
ākramya varadānena sthānānyapahṛtāni naḥ ।
7.6.14 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १४ ॥
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता । तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः । ७.६.१५ ॥ ॥

laṅkā nāma purī durgā trikūṭaśikhare sthitā ।
tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ ।
7.6.15 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १५ ॥
त्वमस्मद्धितार्थाय जहि तान्मधुसूदन । शरणं त्वां वयं प्राप्ता गतिर्भव सुरेश्वर । ७.६.१६ ॥ ॥

sa tvamasmaddhitārthāya jahi tānmadhusūdana ।
śaraṇaṁ tvāṁ vayaṁ prāptā gatirbhava sureśvara ।
7.6.16 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १६ ॥
चक्रकृत्तास्यकमलान्निवेदय यमाय वै । भयेष्वभयदो ऽस्माकं नान्यो ऽस्ति भवता विना । ७.६.१७ ॥ ॥

cakrakṛttāsyakamalānnivedaya yamāya vai ।
bhayeṣvabhayado 'smākaṁ nānyo 'sti bhavatā vinā ।
7.6.17 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १७ ॥
राक्षसान्समरे दुष्टान्सानुबन्धान्मदोद्धतान् । नुदं त्वं नो भयं देव नीहारमिव भास्करः । ७.६.१८ ॥ ॥

rākṣasānsamare duṣṭānsānubandhānmadoddhatān ।
nudaṁ tvaṁ no bhayaṁ deva nīhāramiva bhāskaraḥ ।
7.6.18 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १८ ॥
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः । अभयं भयदो ऽरीणां दत्त्वा देवानुवाच ह । ७.६.१९ ॥ ॥

ityevaṁ daivatairukto devadevo janārdanaḥ ।
abhayaṁ bhayado 'rīṇāṁ dattvā devānuvāca ha ।
7.6.19 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · १९ ॥
सुकेशं राक्षसं जाने ईशानवरदर्पितम् । तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः माल्यवान् । ७.६.२० ॥ ॥

sukeśaṁ rākṣasaṁ jāne īśānavaradarpitam ।
tāṁścāsya tanayāñjāne yeṣāṁ jyeṣṭhaḥ sa mālyavān ।
7.6.20 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २० ॥
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान् । निहनिष्यामि सङ्क्रुद्धः सुरा भवत विज्वराः । ७.६.२१ ॥ ॥

tānahaṁ samatikrāntamaryādānrākṣasādhamān ।
nihaniṣyāmi saṅkruddhaḥ surā bhavata vijvarāḥ ।
7.6.21 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २१ ॥
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना । यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् । ७.६.२२ ॥ ॥

ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā ।
yathāvāsaṁ yayurhṛṣṭāḥ praśaṁsanto janārdanam ।
7.6.22 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २२ ॥
विबुधानां समुद्योगं माल्यवांस्तु निशाचरः । श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् । ७.६.२३ ॥ ॥

vibudhānāṁ samudyogaṁ mālyavāṁstu niśācaraḥ ।
śrutvā tau bhrātarau vīrāvidaṁ vacanamabravīt ।
7.6.23 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २३ ॥
अमरा ऋषयश्चैव सङ्गम्य किल शकरम् । अस्मद्वधं परीप्सन्त इदं वचनमब्रुवन् । ७.६.२४ ॥ ॥

amarā ṛṣayaścaiva saṅgamya kila śakaram ।
asmadvadhaṁ parīpsanta idaṁ vacanamabruvan ।
7.6.24 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २४ ॥
सुकेशतनया देव वरदानबलोद्धताः । बाधन्ते ऽस्मान्समुद्दृप्ता घोररूपाः पदे पदे । ७.६.२५ ॥ ॥

sukeśatanayā deva varadānabaloddhatāḥ ।
bādhante 'smānsamuddṛptā ghorarūpāḥ pade pade ।
7.6.25 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २५ ॥
राक्षसैरभिभूताः स्म शक्ताः स्म प्रजापते । स्वेषु सद्मसु संस्थातुं भयात्तेषां दुरात्मनाम् । ७.६.२६ ॥ ॥

rākṣasairabhibhūtāḥ sma na śaktāḥ sma prajāpate ।
sveṣu sadmasu saṁsthātuṁ bhayātteṣāṁ durātmanām ।
7.6.26 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २६ ॥
तदस्माकं हितार्थाय जहि तांश्च त्रिलोचन । राक्षसान्हुङ्कृतेनैव दह प्रदहतां वर । ७.६.२७ ॥ ॥

tadasmākaṁ hitārthāya jahi tāṁśca trilocana ।
rākṣasānhuṅkṛtenaiva daha pradahatāṁ vara ।
7.6.27 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २७ ॥
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः । शिरः करं धुन्वान इदं वचनमब्रवीत् । ७.६.२८ ॥ ॥

ityevaṁ tridaśairukto niśamyāndhakasūdanaḥ ।
śiraḥ karaṁ ca dhunvāna idaṁ vacanamabravīt ।
7.6.28 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २८ ॥
अवध्या मम ते देवाः सुकेशतनया रणे । मन्त्रं तु वः प्रदास्यामि यस्तान्वै निहनिष्यति । ७.६.२९ ॥ ॥

avadhyā mama te devāḥ sukeśatanayā raṇe ।
mantraṁ tu vaḥ pradāsyāmi yastānvai nihaniṣyati ।
7.6.29 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · २९ ॥
यो ऽसौ चक्रगदापाणिः पीतवासा जनार्दनः । हरिर्नारायणः श्रीमान् शरणं तं प्रपद्यथ । ७.६.३० ॥ ॥

yo 'sau cakragadāpāṇiḥ pītavāsā janārdanaḥ ।
harirnārāyaṇaḥ śrīmān śaraṇaṁ taṁ prapadyatha ।
7.6.30 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३० ॥
हरादवाप्य ते मन्त्रं कामारिमभिवाद्य च । नारायणालयं प्राप्य तस्मै सर्वं न्यवेदयन् । ७.६.३१ ॥ ॥

harādavāpya te mantraṁ kāmārimabhivādya ca ।
nārāyaṇālayaṁ prāpya tasmai sarvaṁ nyavedayan ।
7.6.31 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३१ ॥
ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः । सुरारींस्तान्हनिष्यामि सुरा भवत विज्वराः । ७.६.३२ ॥ ॥

tato nārāyaṇenoktā devā indrapurogamāḥ ।
surārīṁstānhaniṣyāmi surā bhavata vijvarāḥ ।
7.6.32 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३२ ॥
देवानां भयभीतानां हरिणा राक्षसर्षभौ । प्रतिज्ञातो वधो ऽस्माकं चिन्त्यतां यदिह क्षमम् । ७.६.३३ ॥ ॥

devānāṁ bhayabhītānāṁ hariṇā rākṣasarṣabhau ।
pratijñāto vadho 'smākaṁ cintyatāṁ yadiha kṣamam ।
7.6.33 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३३ ॥
हिरण्यकशिपोर्मृत्युरन्येषां सुरद्विषाम् । नमुचिः कालनेमिश्च संह्रादो वीरसत्तमः । ७.६.३४ ॥ ॥

hiraṇyakaśipormṛtyuranyeṣāṁ ca suradviṣām ।
namuciḥ kālanemiśca saṁhrādo vīrasattamaḥ ।
7.6.34 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३४ ॥
राधेयो बहुमायी लोकपालो ऽथ धार्मिकः । यमलार्जुनौ हार्दिक्यः शुम्भश्चैव निशुम्भकः । ७.६.३५ ॥ ॥

rādheyo bahumāyī ca lokapālo 'tha dhārmikaḥ ।
yamalārjunau ca hārdikyaḥ śumbhaścaiva niśumbhakaḥ ।
7.6.35 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३५ ॥
असुरा दानवाश्चैव सत्त्ववन्तो महाबलाः । सर्वे समरमासाद्य श्रूयन्ते ऽपराजिताः । ७.६.३६ ॥ ॥

asurā dānavāścaiva sattvavanto mahābalāḥ ।
sarve samaramāsādya na śrūyante 'parājitāḥ ।
7.6.36 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३६ ॥
सर्वैः क्रतुशतैरिष्टं सर्वे मायाविदस्तथा । सर्वे सर्वास्त्रकुशलाः सर्वे शत्रुभयङ्कराः । ७.६.३७ ॥ ॥

sarvaiḥ kratuśatairiṣṭaṁ sarve māyāvidastathā ।
sarve sarvāstrakuśalāḥ sarve śatrubhayaṅkarāḥ ।
7.6.37 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३७ ॥
नारायणेन निहताः शतशो ऽथ सहस्रशः । एतज्ज्ञात्वा तु सर्वेषां क्षमं कर्तुमिहार्हथ । ७.६.३८ ॥ ॥

nārāyaṇena nihatāḥ śataśo 'tha sahasraśaḥ ।
etajjñātvā tu sarveṣāṁ kṣamaṁ kartumihārhatha ।
7.6.38 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३८ ॥
ततः सुमाली माली श्रुत्वा माल्यवतो वचः । ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् । ७.६.३९ ॥ ॥

tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ ।
ūcaturbhrātaraṁ jyeṣṭhaṁ bhagāṁśāviva vāsavam ।
7.6.39 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ३९ ॥
स्वधीतं दत्तमिष्टं चाप्यैश्वर्यं परिपालितम् । आयुर्निरामयं प्राप्तं सुधर्मः प्रापितः पथि । ७.६.४० ॥ ॥

svadhītaṁ dattamiṣṭaṁ cāpyaiśvaryaṁ paripālitam ।
āyurnirāmayaṁ prāptaṁ sudharmaḥ prāpitaḥ pathi ।
7.6.40 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४० ॥
देवसागरमक्षोभ्यं शस्त्रैः समवगाह्य च । जिता द्विषो ह्यप्रतिमास्तन्नो मृत्युकृतं भयम् । ७.६.४१ ॥ ॥

devasāgaramakṣobhyaṁ śastraiḥ samavagāhya ca ।
jitā dviṣo hyapratimāstanno mṛtyukṛtaṁ bhayam ।
7.6.41 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४१ ॥
नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा । अस्माकं प्रमुखे स्थातुं सर्वे बिभ्यति सर्वदा । ७.६.४२ ॥ ॥

nārāyaṇaśca rudraśca śakraścāpi yamastathā ।
asmākaṁ pramukhe sthātuṁ sarve bibhyati sarvadā ।
7.6.42 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४२ ॥
विष्णोर्देवस्य नास्त्येव कारणं राक्षसेश्वर । देवानामेव दोषेण विष्णोः प्रचलितं मनः । ७.६.४३ ॥ ॥

viṣṇordevasya nāstyeva kāraṇaṁ rākṣaseśvara ।
devānāmeva doṣeṇa viṣṇoḥ pracalitaṁ manaḥ ।
7.6.43 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४३ ॥
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः । देवानेव जिघांसाम एभ्यो दोषः समुत्थितः । ७.६.४४ ॥ ॥

tasmādadya samudyuktāḥ sarvasainyasamāvṛtāḥ ।
devāneva jighāṁsāma ebhyo doṣaḥ samutthitaḥ ।
7.6.44 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४४ ॥
एवं सम्मन्त्र्य बलिनः सर्वे सैन्यसमावृताः । उद्योगं घोषयित्वा तु सर्वे नैर्ऋतपुङ्गवाः ॥ ॥

evaṁ sammantrya balinaḥ sarve sainyasamāvṛtāḥ ।
udyogaṁ ghoṣayitvā tu sarve nairṛtapuṅgavāḥ ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४५ ॥
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव । ७.६.४५ ॥ ॥

yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva ।
7.6.45 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४६ ॥
इति ते राम सम्मन्त्र्य सर्वोद्योगेन राक्षसाः । युद्धाय निर्ययुः सर्वे महाकाया महाबलाः । ७.६.४६ ॥ ॥

iti te rāma sammantrya sarvodyogena rākṣasāḥ ।
yuddhāya niryayuḥ sarve mahākāyā mahābalāḥ ।
7.6.46 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४७ ॥
स्यन्दनैर्वारणैश्चैव हयैश्च गिरिसन्निभैः । खरैर्गोभी रथोष्ट्रैश्च शिंशुमारैर्भुजङ्गमैः । ७.६.४७ ॥ ॥

syandanairvāraṇaiścaiva hayaiśca girisannibhaiḥ ।
kharairgobhī rathoṣṭraiśca śiṁśumārairbhujaṅgamaiḥ ।
7.6.47 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४८ ॥
मकरैः कच्छपैर्मीनैर्विहङ्गैर्गरुडोपमैः । सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि । ७.६.४८ ॥ ॥

makaraiḥ kacchapairmīnairvihaṅgairgaruḍopamaiḥ ।
siṁhairvyāghrairvarāhaiśca sṛmaraiścamarairapi ।
7.6.48 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ४९ ॥
त्यक्त्वा लङ्कां गताः सर्वे राक्षसा बलगर्विताः । प्रयाता देवलोकाय योद्धुं दैवतशत्रवः । ७.६.४९ ॥ ॥

tyaktvā laṅkāṁ gatāḥ sarve rākṣasā balagarvitāḥ ।
prayātā devalokāya yoddhuṁ daivataśatravaḥ ।
7.6.49 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५० ॥
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ । भूतानि भयदर्शीनि विमनस्कानि सर्वशः । ७.६.५० ॥ ॥

laṅkāviparyayaṁ dṛṣṭvā yāni laṅkālayānyatha ।
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ ।
7.6.50 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५१ ॥
रथोत्तमैरुह्यमानाः शतशो ऽथ सहस्रशः । ७.६.५१ ॥ ॥

rathottamairuhyamānāḥ śataśo 'tha sahasraśaḥ ।
7.6.51 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५२ ॥
प्रयाता राक्षसास्तूर्णं देवलोकं प्रयत्नतः । रक्षसामेव मार्गेण दैवतान्यपचक्रमुः । ७.६.५२ ॥ ॥

prayātā rākṣasāstūrṇaṁ devalokaṁ prayatnataḥ ।
rakṣasāmeva mārgeṇa daivatānyapacakramuḥ ।
7.6.52 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५३ ॥
भौमाश्चैवान्तरिक्षाश्च कालाज्ञप्ता भयावहाः । उत्पाता राक्षसेन्द्राणामभावाय समुत्थिताः । ७.६.५३ ॥ ॥

bhaumāścaivāntarikṣāśca kālājñaptā bhayāvahāḥ ।
utpātā rākṣasendrāṇāmabhāvāya samutthitāḥ ।
7.6.53 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५४ ॥
अस्थीनि मेघा ववृषुरुष्णं शोणितमेव च । वेलां समुद्राश्चोत्क्रान्ताश्चेलुश्चाप्यथ भूधराः । ७.६.५४ ॥ ॥

asthīni meghā vavṛṣuruṣṇaṁ śoṇitameva ca ।
velāṁ samudrāścotkrāntāśceluścāpyatha bhūdharāḥ ।
7.6.54 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५५ ॥
अट्टहासान्विमुञ्चन्तो घननादसमस्वनाः । वाश्यन्त्यश्च शिवास्तत्र दारुणं घोरदर्शनाः । ७.६.५५ ॥ ॥

aṭṭahāsānvimuñcanto ghananādasamasvanāḥ ।
vāśyantyaśca śivāstatra dāruṇaṁ ghoradarśanāḥ ।
7.6.55 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५६ ॥
सम्पतन्त्यथ भूतानि दृश्यन्ते यथाक्रमम् । गृध्रचक्रं महच्चात्र ज्वलनोद्गारिभिर्मुखैः । ७.६.५६ ॥ ॥

sampatantyatha bhūtāni dṛśyante ca yathākramam ।
gṛdhracakraṁ mahaccātra jvalanodgāribhirmukhaiḥ ।
7.6.56 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५७ ॥
राक्षसानामुपरि खे भ्रमते ऽलातचक्रवत् । कपोता रक्तपादाश्च शारिका विद्रुता ययुः ॥ ॥

rākṣasānāmupari khe bhramate 'lātacakravat ।
kapotā raktapādāśca śārikā vidrutā yayuḥ ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५८ ॥
काका वाश्यन्ति तत्रैव बिडाला वै द्विपादयः । ७.६.५७ ॥ ॥

kākā vāśyanti tatraiva biḍālā vai dvipādayaḥ ।
7.6.57 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ५९ ॥
उत्पातांस्ताननादृत्य राक्षसा बलगर्विताः । यान्त्येव निवर्त्तन्ते मृत्युपाशावपाशिताः । ७.६.५८ ॥ ॥

utpātāṁstānanādṛtya rākṣasā balagarvitāḥ ।
yāntyeva na nivarttante mṛtyupāśāvapāśitāḥ ।
7.6.58 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६० ॥
माल्यवांश्च सुमाली माली सुमहाबलाः । आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः । ७.६.५९ ॥ ॥

mālyavāṁśca sumālī ca mālī ca sumahābalāḥ ।
āsanpuraḥsarāsteṣāṁ kratūnāmiva pāvakāḥ ।
7.6.59 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६१ ॥
माल्यवन्तं ते सर्वे माल्यवन्तमिवाचलम् । निशाचरा ह्याश्रयन्ति धातारमिव देवताः । ७.६.६० ॥ ॥

mālyavantaṁ ca te sarve mālyavantamivācalam ।
niśācarā hyāśrayanti dhātāramiva devatāḥ ।
7.6.60 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६२ ॥
तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम् । जयेप्सया देवलोकं ययौ मालिवशे स्थितम् । ७.६.६१ ॥ ॥

tadbalaṁ rākṣasendrāṇāṁ mahābhraghananāditam ।
jayepsayā devalokaṁ yayau mālivaśe sthitam ।
7.6.61 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६३ ॥
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः । देवदूतादुपश्रुत्य चक्रे युद्धे तदा मनः । ७.६.६२ ॥ ॥

rākṣasānāṁ samudyogaṁ taṁ tu nārāyaṇaḥ prabhuḥ ।
devadūtādupaśrutya cakre yuddhe tadā manaḥ ।
7.6.62 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६४ ॥
सज्जायुधतूणीरो वैनतेयोपरि स्थितः । आसज्ज्य कवचं दिव्यं सहस्रार्कसमद्युति । ७.६.६३ ॥ ॥

sa sajjāyudhatūṇīro vainateyopari sthitaḥ ।
āsajjya kavacaṁ divyaṁ sahasrārkasamadyuti ।
7.6.63 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६५ ॥
आबध्य शरसम्पूर्णे इषुधी विमले तदा । श्रोणिसूत्रं खड्गं विमलं कमलेक्षणः ॥ ॥

ābadhya śarasampūrṇe iṣudhī vimale tadā ।
śroṇisūtraṁ ca khaḍgaṁ ca vimalaṁ kamalekṣaṇaḥ ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६६ ॥
शङ्खचक्रगदाशार्ङ्गखड्गाख्यप्रवरायुधान् । ७.६.६४ ॥ ॥

śaṅkhacakragadāśārṅgakhaḍgākhyapravarāyudhān ।
7.6.64 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६७ ॥
सुपर्णं गिरिसङ्काशं वैनतेयमथास्थितः । राक्षसानामभावाय ययौ तूर्णतरं प्रभुः । ७.६.६५ ॥ ॥

suparṇaṁ girisaṅkāśaṁ vainateyamathāsthitaḥ ।
rākṣasānāmabhāvāya yayau tūrṇataraṁ prabhuḥ ।
7.6.65 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६८ ॥
सुपर्णपृष्ठे बभौ श्यामः पीताम्बरो हरिः । काञ्चनस्य गिरेः शृङ्गे सतडित्तोयदो यथा । ७.६.६६ ॥ ॥

suparṇapṛṣṭhe sa babhau śyāmaḥ pītāmbaro hariḥ ।
kāñcanasya gireḥ śṛṅge sataḍittoyado yathā ।
7.6.66 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ६९ ॥
सिद्धदेवर्षिमहोरगैश्च गन्धर्वयक्षैरुपगीयमानः । समाससादासुरसैन्यशत्रूंश्चक्रासिशार्ङ्गायुधशङ्खपाणिः । ७.६.६७ ॥ ॥

sa siddhadevarṣimahoragaiśca gandharvayakṣairupagīyamānaḥ ।
samāsasādāsurasainyaśatrūṁścakrāsiśārṅgāyudhaśaṅkhapāṇiḥ ।
7.6.67 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ७० ॥
सुपर्णपक्षानिलनुन्नपक्षं भ्रमत्पताकं प्रविकीर्णशस्त्रम् । चचाल तद्राक्षसराजसैन्यं चलोपलं नील इवाचलेन्द्रः । ७.६.६८ ॥ ॥

suparṇapakṣānilanunnapakṣaṁ bhramatpatākaṁ pravikīrṇaśastram ।
cacāla tadrākṣasarājasainyaṁ calopalaṁ nīla ivācalendraḥ ।
7.6.68 ॥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ७ · ६ · ७१ ॥
ततः शरैः शोणितमांसरूषितैर्युगान्तवैश्वानरतुल्यविग्रहैः । निशाचराः सम्परिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः । ७.६.६९ ॥

tataḥ śaraiḥ śoṇitamāṁsarūṣitairyugāntavaiśvānaratulyavigrahaiḥ ।
niśācarāḥ samparivārya mādhavaṁ varāyudhairnirbibhiduḥ sahasraśaḥ ।
7.6.69 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.