वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२६ · ५२ श्लोकाःSarga 126 · 52 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२६ · १ ॥
अनुज्ञातंस्तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा । ६.१२६.१ ॥

anujñātaṁstu rāmeṇa tadvimānamanuttamam ।
utpapāta mahāmeghaḥ śvasanenoddhato yathā ।
6.126.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २ ॥
पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अब्रवीन्मैथिलीं सीतां रामः शशिनिभाननाम् । ६.१२६.२ ॥

pātayitvā tataścakṣuḥ sarvato raghunandanaḥ ।
abravīnmaithilīṁ sītāṁ rāmaḥ śaśinibhānanām ।
6.126.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३ ॥
कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मितां विश्वकर्मणा । ६.१२६.३ ॥

kailāsaśikharākāre trikūṭaśikhare sthitām ।
laṅkāmīkṣasva vaidehi nirmitāṁ viśvakarmaṇā ।
6.126.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४ ॥
एतदायोधनं पश्य मांसशोणितकर्दमम् । हरीणां राक्षसानां सीते विशसनं महत् । ६.१२६.४ ॥

etadāyodhanaṁ paśya māṁsaśoṇitakardamam ।
harīṇāṁ rākṣasānāṁ ca sīte viśasanaṁ mahat ।
6.126.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ५ ॥
अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः । तव हेतोर्विशालाक्षि रावणो निहतो मया । ६.१२६.५ । कुम्भकर्णो ऽत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता । ६.१२६.६ ॥

atra dattavaraḥ śete pramāthī rākṣaseśvaraḥ ।
tava hetorviśālākṣi rāvaṇo nihato mayā ।
6.126.5 ।
kumbhakarṇo 'tra nihataḥ prahastaśca niśācaraḥ ।
dhūmrākṣaścātra nihato vānareṇa hanūmatā ।
6.126.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ६ ॥
विद्युन्माली हतश्चात्र सुषेणेन महात्मना । ६.१२६.७ ॥

vidyunmālī hataścātra suṣeṇena mahātmanā ।
6.126.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ७ ॥
लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे । अङ्गदेनात्र निहतो विकटो नाम राक्षसः । ६.१२६.८ ॥

lakṣmaṇenendrajiccātra rāvaṇirnihato raṇe ।
aṅgadenātra nihato vikaṭo nāma rākṣasaḥ ।
6.126.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ८ ॥
विरूपाक्षश्च दुर्धर्षो महापार्श्वमहोदरौ । अकम्पनश्च निहतो बलिनो ऽन्ये राक्षसाः । ६.१२६.९ ॥

virūpākṣaśca durdharṣo mahāpārśvamahodarau ।
akampanaśca nihato balino 'nye ca rākṣasāḥ ।
6.126.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ९ ॥
अत्र मण्डोदरी नाम भार्या तं पर्यदेवयत् । सपत्नीनां सहस्रेण सास्रेण परिवारिता । ६.१२६.१० ॥

atra maṇḍodarī nāma bhāryā taṁ paryadevayat ।
sapatnīnāṁ sahasreṇa sāsreṇa parivāritā ।
6.126.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १० ॥
एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने । यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् । ६.१२६.११ ॥

etattu dṛśyate tīrthaṁ samudrasya varānane ।
yatra sāgaramuttīrya tāṁ rātrimuṣitā vayam ।
6.126.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ११ ॥
एष सेतुर्मया बद्धः सागरे सलिलार्णवे । तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः । ६.१२६.१२ ॥

eṣa seturmayā baddhaḥ sāgare salilārṇave ।
tava hetorviśālākṣi nalasetuḥ suduṣkaraḥ ।
6.126.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १२ ॥
पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् । अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् । ६.१२६.१३ ॥

paśya sāgaramakṣobhyaṁ vaidehi varuṇālayam ।
apāramabhigarjantaṁ śaṅkhaśuktiniṣevitam ।
6.126.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १३ ॥
हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि । विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् । ६.१२६.१४ ॥

hiraṇyanābhaṁ śailendraṁ kāñcanaṁ paśya maithili ।
viśramārthaṁ hanumato bhittvā sāgaramutthitam ।
6.126.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १४ ॥
एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् । ६.१२६.१५ ॥

etat kukṣau samudrasya skandhāvāraniveśanam ।
6.126.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १५ ॥
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् । एतत् पवित्रं परमं महापातकनाशनम् । ६.१२६.१६ ॥

etattu dṛśyate tīrthaṁ sāgarasya mahātmanaḥ ।
setubandha iti khyātaṁ trailokyenābhipūjitam ।
etat pavitraṁ paramaṁ mahāpātakanāśanam ।
6.126.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १६ ॥
अत्र पूर्वं महादेवः प्रसादमकरोत् प्रभुः । ६.१२६.१७ । ि ख्यातं त्रैलोक्येनाभिपूजितम् । अत्र राक्षसराजो ऽयमाजगाम विभीषणः । ६.१२६.१८ । १७ । ि ख्यातं त्रैलोक्येनाभिपूजितम् । एषा सा दृश्यते सीते किष्किन्धा चित्रकानना । सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः । ६.१२६.१९ ॥

atra pūrvaṁ mahādevaḥ prasādamakarot prabhuḥ ।
6.126.17 ।
i khyātaṁ trailokyenābhipūjitam ।
atra rākṣasarājo 'yamājagāma vibhīṣaṇaḥ ।
6.126.18 ।
17 ।
i khyātaṁ trailokyenābhipūjitam ।
eṣā sā dṛśyate sīte kiṣkindhā citrakānanā ।
sugrīvasya purī ramyā yatra vālī mayā hataḥ ।
6.126.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १७ ॥
अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् । अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा । ६.१२६.२० ॥

atha dṛṣṭvā purīṁ sītā kiṣkindhāṁ vālipālitām ।
abravīt praśritaṁ vākyaṁ rāmaṁ praṇayasādhvasā ।
6.126.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १८ ॥
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप । अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहायोध्यां राजधानीं त्वया ऽनघ । ६.१२६.२१ ॥

sugrīvapriyabhāryābhistārāpramukhato nṛpa ।
anyeṣāṁ vānarendrāṇāṁ strībhiḥ parivṛtā hyaham ।
gantumicche sahāyodhyāṁ rājadhānīṁ tvayā 'nagha ।
6.126.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · १९ ॥
एवमुक्तो ऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः । विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह । ६.१२६.२२ ॥

evamukto 'tha vaidehyā rāghavaḥ pratyuvāca tām ।
evamastviti kiṣkindhāṁ prāpya saṁsthāpya rāghavaḥ ।
vimānaṁ prekṣya sugrīvaṁ vākyametaduvāca ha ।
6.126.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २० ॥
ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् । स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया । ६.१२६.२३ ॥

brūhi vānaraśārdūla sarvān vānarapuṅgavān ।
svadārasahitāḥ sarve hyayodhyāṁ yāntu sītayā ।
6.126.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २१ ॥
तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल । अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर । ६.१२६.२४ ॥

tathā tvamapi sarvābhiḥ strībhiḥ saha mahābala ।
abhitvarasva sugrīva gacchāmaḥ plavageśvara ।
6.126.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २२ ॥
एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा । वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः । ६.१२६.२५ ॥

evamuktastu sugrīvo rāmeṇāmitatejasā ।
vānarādhipatiḥ śrīmāṁstaiśca sarvaiḥ samāvṛtaḥ ।
6.126.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २३ ॥
प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत । ६.१२६.२६ ॥

praviśyāntaḥpuraṁ śīghraṁ tārāmudvīkṣya bhāṣata ।
6.126.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २४ ॥
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया । ६.१२६.२७ ॥

priye tvaṁ saha nārībhirvānarāṇāṁ mahātmanām ।
rāghaveṇābhyanujñātā maithilīpriyakāmyayā ।
6.126.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २५ ॥
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः । अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः । ६.१२६.२८ ॥

tvara tvamabhigacchāmo gṛhya vānarayoṣitaḥ ।
ayodhyāṁ darśayiṣyāmaḥ sarvā daśarathastriyaḥ ।
6.126.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २६ ॥
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना । आहूय चाब्रवीत् सर्वा वानराणां तु योषितः । ६.१२६.२९ ॥

sugrīvasya vacaḥ śrutvā tārā sarvāṅgaśobhanā ।
āhūya cābravīt sarvā vānarāṇāṁ tu yoṣitaḥ ।
6.126.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २७ ॥
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः ॥

sugrīveṇābhyanujñātā gantuṁ sarvaiśca vānaraiḥ ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २८ ॥
मम चापि प्रियं कार्यमयोध्यादर्शनेन च । ६.१२६.३० ॥

mama cāpi priyaṁ kāryamayodhyādarśanena ca ।
6.126.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · २९ ॥
प्रवेशं चापि रामस्य पौरजानपदैः सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च । ६.१२६.३१ ॥

praveśaṁ cāpi rāmasya paurajānapadaiḥ saha ।
vibhūtiṁ caiva sarvāsāṁ strīṇāṁ daśarathasya ca ।
6.126.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३० ॥
तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः । नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् । अध्यारोहन् विमानं तत् सीतादर्शनकाङ्क्षया । ६.१२६.३२ ॥

tārayā cābhyanujñātāḥ sarvā vānarayoṣitaḥ ।
nepathyaṁ vidhipūrveṇa kṛtvā cāpi pradakṣiṇam ।
adhyārohan vimānaṁ tat sītādarśanakāṅkṣayā ।
6.126.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३१ ॥
ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः । ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् । ६.१२६.३३ ॥

tābhiḥ sahotthitaṁ śīghraṁ vimānaṁ prekṣya rāghavaḥ ।
ṛśyamūkasamīpe tu vaidehīṁ punarabravīt ।
6.126.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३२ ॥
दृश्यते ऽसौ महान् सीते सविद्युदिव तोयदः । ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः । ६.१२६.३४ ॥

dṛśyate 'sau mahān sīte savidyudiva toyadaḥ ।
ṛśyamūko giriśreṣṭhaḥ kāñcanairdhātubhirvṛtaḥ ।
6.126.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३३ ॥
अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः । समयश्च कृतः सीते वधार्थं वालिनो मया । ६.१२६.३५ ॥

atrāhaṁ vānarendreṇa sugrīveṇa samāgataḥ ।
samayaśca kṛtaḥ sīte vadhārthaṁ vālino mayā ।
6.126.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३४ ॥
एषा सा दृश्यते पम्पा नलिनी चित्रकानना । त्वया विहीनो यत्राहं विललाप सुदुःखितः । अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी । ६.१२६.३६ ॥

eṣā sā dṛśyate pampā nalinī citrakānanā ।
tvayā vihīno yatrāhaṁ vilalāpa suduḥkhitaḥ ।
asyāstīre mayā dṛṣṭā śabarī dharmacāriṇī ।
6.126.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३५ ॥
अत्र योजनबाहुश्च कबन्धो निहतो मया । ६.१२६.३७ । विहीनो यत्राहं विललाप सुदुःखितः । दृश्यते जनस्थाने सीते श्रीमान् वनस्पतिः । यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि । रावणस्य नृशंसस्य जटायोश्च महात्मनः । ६.१२६.३८ ॥

atra yojanabāhuśca kabandho nihato mayā ।
6.126.37 ।
vihīno yatrāhaṁ vilalāpa suduḥkhitaḥ ।
dṛśyate ca janasthāne sīte śrīmān vanaspatiḥ ।
yatra yuddhaṁ mahadvṛttaṁ tava hetorvilāsini ।
rāvaṇasya nṛśaṁsasya jaṭāyośca mahātmanaḥ ।
6.126.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३६ ॥
खरश्च निहतो यत्र दूषणश्च निपातितः । त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः । एतत्तदाश्रमपदमस्माकं वरवर्णिनि । ६.१२६.३९ ॥

kharaśca nihato yatra dūṣaṇaśca nipātitaḥ ।
triśirāśca mahāvīryo mayā bāṇairajihmagaiḥ ।
etattadāśramapadamasmākaṁ varavarṇini ।
6.126.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३७ ॥
पर्णशाला तथा चित्रा दृश्यते शुभदर्शना । यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् । ६.१२६.४० ॥

parṇaśālā tathā citrā dṛśyate śubhadarśanā ।
yatra tvaṁ rākṣasendreṇa rāvaṇena hṛtā balāt ।
6.126.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३८ ॥
एषा गोदावरी रम्या प्रसन्नसलिला शिवा । अगस्त्यस्याश्रमो ह्येष दृश्यते पश्य मैथिलि । ६.१२६.४१ ॥

eṣā godāvarī ramyā prasannasalilā śivā ।
agastyasyāśramo hyeṣa dṛśyate paśya maithili ।
6.126.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ३९ ॥
दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः । ६.१२६.४२ ॥

dīptaścaivāśramo hyeṣa sutīkṣṇasya mahātmanaḥ ।
6.126.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४० ॥
वैदेहि दृश्यते चात्र शरभङ्गाश्रमो महान् । उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः । ६.१२६.४३ ॥

vaidehi dṛśyate cātra śarabhaṅgāśramo mahān ।
upayātaḥ sahasrākṣo yatra śakraḥ purandaraḥ ।
6.126.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४१ ॥
अस्मिन् देशे महाकायो विराधो निहतो मया । ६.१२६.४४ ॥

asmin deśe mahākāyo virādho nihato mayā ।
6.126.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४२ ॥
एते हि तापसावासा दृश्यन्ते तनुमध्यमे । अत्रिः कुलपतिर्यत्र सूर्यवैश्वानप्रभः । अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी । ६.१२६.४५ ॥

ete hi tāpasāvāsā dṛśyante tanumadhyame ।
atriḥ kulapatiryatra sūryavaiśvānaprabhaḥ ।
atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī ।
6.126.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४३ ॥
असौ सुतनु शैलेन्द्रश्चित्रकूटः प्रकाशते । यत्र मां केकयीपुत्रः प्रसादयितुमागतः । ६.१२६.४६ ॥

asau sutanu śailendraścitrakūṭaḥ prakāśate ।
yatra māṁ kekayīputraḥ prasādayitumāgataḥ ।
6.126.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४४ ॥
एषा सा यमुना दूराद्दृश्यते चित्रकानना । ६.१२६.४७ ॥

eṣā sā yamunā dūrāddṛśyate citrakānanā ।
6.126.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४५ ॥
भरद्वाजाश्रमो यत्र श्रीमानेष प्रकाशते । ६.१२६.४८ ॥

bharadvājāśramo yatra śrīmāneṣa prakāśate ।
6.126.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४६ ॥
एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि । नानाद्विजगणाकीर्णा सम्प्रयुष्पितकानना । ६.१२६.४९ ॥

eṣā tripathagā gaṅgā dṛśyate varavarṇini ।
nānādvijagaṇākīrṇā samprayuṣpitakānanā ।
6.126.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४७ ॥
शृङ्गिवेरपुरं चैतद् गुहो यत्र समागतः । ६.१२६.५० ॥

śṛṅgiverapuraṁ caitad guho yatra samāgataḥ ।
6.126.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४८ ॥
एषा सा दृश्यते सीते सरयूर्यूपमालिनी । नानातरुशताकीर्णा सम्प्रपुष्पितकानना । ६.१२६.५१ ॥

eṣā sā dṛśyate sīte sarayūryūpamālinī ।
nānātaruśatākīrṇā samprapuṣpitakānanā ।
6.126.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ४९ ॥
एषा सा दृश्यते ऽयोध्या राजधानी पितुर्मम् । अयोध्यां कुरु वैदेहि प्रणामं पुनरागता । ६.१२६.५२ ॥

eṣā sā dṛśyate 'yodhyā rājadhānī piturmam ।
ayodhyāṁ kuru vaidehi praṇāmaṁ punarāgatā ।
6.126.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ५० ॥
ततस्ते वानराः सर्वे राक्षसश्च विभीषणः । उत्पत्योत्पत्य ददृशुस्तां पुरीं शुभदर्शनाम् । ६.१२६.५३ ॥

tataste vānarāḥ sarve rākṣasaśca vibhīṣaṇaḥ ।
utpatyotpatya dadṛśustāṁ purīṁ śubhadarśanām ।
6.126.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ५१ ॥
ततस्तु तां पाम्डुरहर्म्यमालिनीं विशालकक्ष्यां गजवाजिसङ्कुलाम् । पुरीमयोध्यां ददृशुः प्लवङ्गमाः पुरीं महेन्द्रस्य यथा ऽमरावतीम् । ६.१२६.५४ ॥

tatastu tāṁ pāmḍuraharmyamālinīṁ viśālakakṣyāṁ gajavājisaṅkulām ।
purīmayodhyāṁ dadṛśuḥ plavaṅgamāḥ purīṁ mahendrasya yathā 'marāvatīm ।
6.126.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२६ · ५२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षड्विंशत्युत्तरशततमः सर्गः । १२६ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ṣaḍviṁśatyuttaraśatatamaḥ sargaḥ ।
126 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.