वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२५ · ३० श्लोकाःSarga 125 · 30 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२५ · १ ॥
उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् । अविदूरस्थितो रामं प्रत्युवाच विभीषणः । ६.१२५.१ ॥

upasthitaṁ tu taṁ dṛṣṭvā puṣpakaṁ puṣpabhūṣitam ।
avidūrasthito rāmaṁ pratyuvāca vibhīṣaṇaḥ ।
6.125.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २ ॥
तु बद्धाञ्जलिः प्रह्वो विनीतो राक्षसेश्वरः । अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् । ६.१२५.२ ॥

sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ ।
abravīttvarayopetaḥ kiṁ karomīti rāghavam ।
6.125.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ३ ॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः । विमृश्य राघवो वाक्यमिदं स्नेहपुरस्कृतम् । ६.१२५.३ ॥

tamabravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ ।
vimṛśya rāghavo vākyamidaṁ snehapuraskṛtam ।
6.125.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ४ ॥
कृतप्रयत्नकर्माणो विभीषण वनौकसः । रत्नैरर्थैश्च विविधैर्भूषणैश्चापि पूजय । ६.१२५.४ ॥

kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ ।
ratnairarthaiśca vividhairbhūṣaṇaiścāpi pūjaya ।
6.125.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ५ ॥
सहैभिरजिता लङ्का निर्जिता राक्षसेश्वर । हृष्टैः प्राणभयं त्यक्त्वा सङ्ग्रामेष्वनिवर्तिभिः । ६.१२५.५ ॥

sahaibhirajitā laṅkā nirjitā rākṣaseśvara ।
hṛṣṭaiḥ prāṇabhayaṁ tyaktvā saṅgrāmeṣvanivartibhiḥ ।
6.125.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ६ ॥
इमे कृतकर्माणः पूज्यन्तां सर्ववानराः । ६.१२५.६ ॥

ta ime kṛtakarmāṇaḥ pūjyantāṁ sarvavānarāḥ ।
6.125.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ७ ॥
धनरत्नप्रदानेन कर्मैषां सफलं कुरु । ६.१२५.७ ॥

dhanaratnapradānena karmaiṣāṁ saphalaṁ kuru ।
6.125.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ८ ॥
एव सम्मानिताश्चैते मानार्हा मानद त्वया । भविष्यन्ति कृतज्ञेन निर्वृता हरियूथपाः । ६.१२५.८ ॥

eva sammānitāścaite mānārhā mānada tvayā ।
bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ ।
6.125.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ९ ॥
त्यागिनं सङ्ग्रहीतारं सानुक्रोशं यशस्विनम् । सर्वे त्वामवगच्छन्ति ततः सम्बोधयाम्यहम् । ६.१२५.९ ॥

tyāginaṁ saṅgrahītāraṁ sānukrośaṁ yaśasvinam ।
sarve tvāmavagacchanti tataḥ sambodhayāmyaham ।
6.125.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १० ॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे । त्यजन्ति नृपतिं सैन्याः संविग्नास्तं नरेश्वरम् । ६.१२५.१० ॥

hīnaṁ ratiguṇaiḥ sarvairabhihantāramāhave ।
tyajanti nṛpatiṁ sainyāḥ saṁvignāstaṁ nareśvaram ।
6.125.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ११ ॥
एवमुक्तस्तु रामेण वानरांस्तान् विभीषणः । रत्नार्थैः संविभागेन सर्वानेवाभ्यपूजयत् । ६.१२५.११ ॥

evamuktastu rāmeṇa vānarāṁstān vibhīṣaṇaḥ ।
ratnārthaiḥ saṁvibhāgena sarvānevābhyapūjayat ।
6.125.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १२ ॥
ततस्तान् पूजितान् दृष्ट्वा रत्नैरर्थैश्च यूथपान् । आरुरोह ततो रामस्तद्विमानमनुत्तमम् । ६.१२५.१२ ॥

tatastān pūjitān dṛṣṭvā ratnairarthaiśca yūthapān ।
āruroha tato rāmastadvimānamanuttamam ।
6.125.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १३ ॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता । ६.१२५.१३ ॥

aṅkenādāya vaidehīṁ lajjamānāṁ yaśasvinīm ।
lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā ।
6.125.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १४ ॥
अब्रवीच्च विमानस्थः पूजयन् सर्ववानरान् । सुग्रीवं महावीर्यं काकुत्स्थः सविभीषणम् । ६.१२५.१४ ॥

abravīcca vimānasthaḥ pūjayan sarvavānarān ।
sugrīvaṁ ca mahāvīryaṁ kākutsthaḥ savibhīṣaṇam ।
6.125.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १५ ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरोत्तमाः । अनुज्ञाता मया सर्वे यथेष्टं प्रतिगच्छत । ६.१२५.१५ ॥

mitrakāryaṁ kṛtamidaṁ bhavadbhirvānarottamāḥ ।
anujñātā mayā sarve yatheṣṭaṁ pratigacchata ।
6.125.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १६ ॥
यत्तु कार्यं वयस्येन सुहृदा वा परन्तप । कृतं सुग्रीव तत् सर्वं भवता ऽधर्म भीरुणा । ६.१२५.१६ ॥

yattu kāryaṁ vayasyena suhṛdā vā parantapa ।
kṛtaṁ sugrīva tat sarvaṁ bhavatā 'dharma bhīruṇā ।
6.125.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १७ ॥
विष्किन्धां प्रतियाह्याशु स्वसैन्येनाभिसंवृतः । ६.१२५.१७ ॥

viṣkindhāṁ pratiyāhyāśu svasainyenābhisaṁvṛtaḥ ।
6.125.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १८ ॥
स्वराज्ये वस लङ्कायां मया दत्ते विभीषण । त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः । ६.१२५.१८ ॥

svarājye vasa laṅkāyāṁ mayā datte vibhīṣaṇa ।
na tvāṁ dharṣayituṁ śaktāḥ sendrā api divaukasaḥ ।
6.125.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · १९ ॥
अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम । अभ्यनुज्ञातुमिच्छामि सर्वांश्चामन्त्रयामि वः । ६.१२५.१९ ॥

ayodhyāṁ pratiyāsyāmi rājadhānīṁ piturmama ।
abhyanujñātumicchāmi sarvāṁścāmantrayāmi vaḥ ।
6.125.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २० ॥
एवमुक्तास्तु रामेण वानरास्ते महाबलाः । ऊचुः प्राञ्जलयो रामं राक्षसश्च विभीषणः । ६.१२५.२० ॥

evamuktāstu rāmeṇa vānarāste mahābalāḥ ।
ūcuḥ prāñjalayo rāmaṁ rākṣasaśca vibhīṣaṇaḥ ।
6.125.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २१ ॥
अयोध्यां गन्तुमिच्छामः सर्वान्नयतु नो भवान् । उद्युक्ता विचरिष्यामो वनानि नगराणि च । ६.१२५.२१ ॥

ayodhyāṁ gantumicchāmaḥ sarvānnayatu no bhavān ।
udyuktā vicariṣyāmo vanāni nagarāṇi ca ।
6.125.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २२ ॥
दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च । अचिरेणागमिष्यामः स्वान् गृहान् नृपतेः सुत । ६.१२५.२२ ॥

dṛṣṭvā tvāmabhiṣekārdraṁ kausalyāmabhivādya ca ।
acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta ।
6.125.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २३ ॥
एवमुक्तस्तु धर्मात्मा वानरैः सविभीषणैः । अब्रवीद्राघवः श्रीमान् ससुग्रीवविभीषणान् । ६.१२५.२३ ॥

evamuktastu dharmātmā vānaraiḥ savibhīṣaṇaiḥ ।
abravīdrāghavaḥ śrīmān sasugrīvavibhīṣaṇān ।
6.125.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २४ ॥
प्रियात् प्रियतरं लब्धं यदहं ससुहृज्जनः । सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः । ६.१२५.२४ ॥

priyāt priyataraṁ labdhaṁ yadahaṁ sasuhṛjjanaḥ ।
sarvairbhavadbhiḥ sahitaḥ prītiṁ lapsye purīṁ gataḥ ।
6.125.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २५ ॥
क्षिप्रमारोह सुग्रीव विमानं वानरै सह । त्वमध्यारोह सामात्यो राक्षसेन्द्र विभीषण । ६.१२५.२५ ॥

kṣipramāroha sugrīva vimānaṁ vānarai saha ।
tvamadhyāroha sāmātyo rākṣasendra vibhīṣaṇa ।
6.125.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २६ ॥
ततस्तत् पुष्पकं दिव्यं सुग्रीवः सह सेनया । अध्यारोहत्त्वरन् शीघ्रं सामात्यश्च विभीषणः । ६.१२५.२६ ॥

tatastat puṣpakaṁ divyaṁ sugrīvaḥ saha senayā ।
adhyārohattvaran śīghraṁ sāmātyaśca vibhīṣaṇaḥ ।
6.125.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २७ ॥
तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् । राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् । ६.१२५.२७ ॥

teṣvārūḍheṣu sarveṣu kauberaṁ paramāsanam ।
rāghaveṇābhyanujñātamutpapāta vihāyasam ।
6.125.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २८ ॥
ययौ तेन विमानेन हंसयुक्तेन भास्वता । प्रहृष्टश्च प्रतीतश्च बभौ रामः कुबेरवत् । ६.१२५.२८ ॥

yayau tena vimānena haṁsayuktena bhāsvatā ।
prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat ।
6.125.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · २९ ॥
ते सर्वे वानरा हृष्टा राक्षसाश्च महाबलाः । यथासुखमसम्बाधं दिव्ये तस्मिन्नुपाविशन् । ६.१२५.२९ ॥

te sarve vānarā hṛṣṭā rākṣasāśca mahābalāḥ ।
yathāsukhamasambādhaṁ divye tasminnupāviśan ।
6.125.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२५ · ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चविंशत्युत्तरशततमः सर्गः । १२५ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe pañcaviṁśatyuttaraśatatamaḥ sargaḥ ।
125 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.