वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२४ · २८ श्लोकाःSarga 124 · 28 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२४ · १ ॥
तां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् । अब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः । ६.१२४.१ ॥

tāṁ rātrimuṣitaṁ rāmaṁ sukhotthitamarindamam ।
abravīt prāñjalirvākyaṁ jayaṁ pṛṣṭvā vibhīṣaṇaḥ ।
6.124.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २ ॥
स्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च । चन्दनानि दिव्यानि माल्यानि विविधानि च । ६.१२४.२ ॥

snānāni cāṅgarāgāṇi vastrāṇyābharaṇāni ca ।
candanāni ca divyāni mālyāni vividhāni ca ।
6.124.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ३ ॥
अलङ्कारविदश्चेमा नार्यः पद्मनिभेक्षणाः । उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव । प्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया । ६.१२४.३ ॥

alaṅkāravidaścemā nāryaḥ padmanibhekṣaṇāḥ ।
upasthitāstvāṁ vidhivat snāpayiṣyanti rāghava ।
pratigṛhṇīṣva tat sarvaṁ madanugrahakāmyayā ।
6.124.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ४ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् । ६.१२४.४ । ां विधिवत् स्नापयिष्यन्ति राघव । हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय । ६.१२४.५ । िधिवत् स्नापयिष्यन्ति राघव । तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः । सुकुमारो महाबाहुः कुमारः सत्यसंश्रवः । ६.१२४.६ ॥

evamuktastu kākutsthaḥ pratyuvāca vibhīṣamam ।
6.124.4 ।
āṁ vidhivat snāpayiṣyanti rāghava ।
harīn sugrīvamukhyāṁstvaṁ snānenābhinimantraya ।
6.124.5 ।
idhivat snāpayiṣyanti rāghava ।
sa tu tāmyati dharmātmā mama hetoḥ sukhocitaḥ ।
sukumāro mahābāhuḥ kumāraḥ satyasaṁśravaḥ ।
6.124.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ५ ॥
तं विना केकयीपुत्रं भरतं धर्मचारिणम् । मे स्नानं बहुमतं वस्त्राण्याभरणानि च । ६.१२४.७ ॥

taṁ vinā kekayīputraṁ bharataṁ dharmacāriṇam ।
na me snānaṁ bahumataṁ vastrāṇyābharaṇāni ca ।
6.124.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ६ ॥
इत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् । अयोध्यामागतो ह्येष पन्थाः परमदुर्गमः । ६.१२४.८ ॥

ita eva pathā kṣipraṁ pratigacchāmi tāṁ purīm ।
ayodhyāmāgato hyeṣa panthāḥ paramadurgamaḥ ।
6.124.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ७ ॥
एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । ६.१२४.९ ॥

evamuktastu kākutsthaṁ pratyuvāca vibhīṣaṇaḥ ।
6.124.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ८ ॥
अह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज । पुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् । ६.१२४.१० ॥

ahnā tvāṁ prāpayiṣyāmi tāṁ purīṁ pārthivātmaja ।
puṣpakaṁ nāma bhadraṁ te vimānaṁ sūryasannibham ।
6.124.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ९ ॥
मम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् । हृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् । ६.१२४.११ ॥

mama bhrātuḥ kuberasya rāvaṇenāhṛtaṁ balāt ।
hṛtaṁ nirjitya saṅgrāme kāmagaṁ divyamuttamam ।
6.124.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १० ॥
त्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम । तदिदं मेघसङ्काशं विमानमिह तिष्ठति । ६.१२४.१२ ॥

tvadarthe pālitaṁ caitattiṣṭhatyatulavikrama ।
tadidaṁ meghasaṅkāśaṁ vimānamiha tiṣṭhati ।
6.124.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · ११ ॥
तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः । ६.१२४.१३ ॥

tena yāsyasi yānena tvamayodhyāṁ gatajvaraḥ ।
6.124.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १२ ॥
अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् । ६.१२४.१४ ॥

ahaṁ te yadyanugrāhyo yadi smarasi me guṇān ।
6.124.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १३ ॥
वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ् । लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया । ६.१२४.१५ ॥

vasa tāvadiha prājña yadyasti mayi sauhṛdabh ।
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā ।
6.124.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १४ ॥
अर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि । प्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः । ६.१२४.१६ ॥

arcitaḥ sarvakāmaistvaṁ tato rāma gamiṣyasi ।
prītiyuktasya me rāma sasainyaḥ sasuhṛdgaṇaḥ ।
6.124.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १५ ॥
सत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् । प्रणयाद्वहुमानाच्च सौहृदेन राघव । प्रसादयामि प्रेष्यो ऽहं खल्वाज्ञापयामि ते । ६.१२४.१७ ॥

satkriyāṁ vihitāṁ tāvadgṛhāṇa tvaṁ mayodyatām ।
praṇayādvahumānācca sauhṛdena ca rāghava ।
prasādayāmi preṣyo 'haṁ na khalvājñāpayāmi te ।
6.124.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १६ ॥
एवमुक्तस्ततो रामः प्रत्युवाच विभिषणम् । रक्षसां वानराणां सर्वेषां चोपशृण्वताम् । ६.१२४.१८ ॥

evamuktastato rāmaḥ pratyuvāca vibhiṣaṇam ।
rakṣasāṁ vānarāṇāṁ ca sarveṣāṁ copaśṛṇvatām ।
6.124.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १७ ॥
पूजितो ऽहं त्वया सौम्य साचिव्येन परन्तप । सर्वात्मना चेष्टाभिः सौहृदेनोत्तमेन च । ६.१२४.१९ ॥

pūjito 'haṁ tvayā saumya sācivyena parantapa ।
sarvātmanā ca ceṣṭābhiḥ sauhṛdenottamena ca ।
6.124.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १८ ॥
खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर । तं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः । मां निवर्तयितुं यो ऽसौ चित्रकूटमुपागतः । ६.१२४.२० ॥

na khalvetanna kuryāṁ te vacanaṁ rākṣaseśvara ।
taṁ tu me bhrātaraṁ draṣṭuṁ bharataṁ tvarate manaḥ ।
māṁ nivartayituṁ yo 'sau citrakūṭamupāgataḥ ।
6.124.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · १९ ॥
शिरसा याचतो यस्य वचनं कृतं मया । ६.१२४.२१ । तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः । कौसल्यां सुमित्रां कैकेयीं यशस्विनीम् । गुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह । ६.१२४.२२ ॥

śirasā yācato yasya vacanaṁ na kṛtaṁ mayā ।
6.124.21 ।
tu me bhrātaraṁ draṣṭuṁ bharataṁ tvarate manaḥ ।
kausalyāṁ ca sumitrāṁ ca kaikeyīṁ ca yaśasvinīm ।
gurūṁśca suhṛdaścaiva paurāṁśca tanayaiḥ saha ।
6.124.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २० ॥
उपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर । कृतकार्यस्य मे वासः कथं स्यादिह सम्मतः । ६.१२४.२३ ॥

upasthāpaya me kṣipraṁ vimānaṁ rākṣaseśvara ।
kṛtakāryasya me vāsaḥ kathaṁ syādiha sammataḥ ।
6.124.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २१ ॥
अनुजानीहि मां सौम्य पूजितो ऽस्मि विभीषण । मन्युर्न खलु कर्तव्यस्त्वरितं त्वा ऽनुमानये । ६.१२४.२४ ॥

anujānīhi māṁ saumya pūjito 'smi vibhīṣaṇa ।
manyurna khalu kartavyastvaritaṁ tvā 'numānaye ।
6.124.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २२ ॥
राघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः । तं विमानं समादाय तूर्णं प्रतिनिवर्तत । ६.१२४.२५ ॥

rāghavasya vacaḥ śrutvā rākṣasendro vibhīṣaṇaḥ ।
taṁ vimānaṁ samādāya tūrṇaṁ pratinivartata ।
6.124.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २३ ॥
ततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् । कूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् । ६.१२४.२६ ॥

tataḥ kāñcanacitrāṅgaṁ vaiḍūryamayavedikam ।
kūṭāgāraiḥ parikṣiptaṁ sarvato rajataprabham ।
6.124.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २४ ॥
पाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् । शोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् । ६.१२४.२७ ॥

pāṇḍurābhiḥ patākābhirdhvajaiśca samalaṅkṛtam ।
śobhitaṁ kāñcanairharmyairhemapadmavibhūṣitam ।
6.124.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २५ ॥
प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् । घण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् । ६.१२४.२८ ॥

prakīrṇaṁ kiṅkiṇījālairmuktāmaṇigavākṣitam ।
ghaṇṭājālaiḥ parikṣiptaṁ sarvato madhurasvanam ।
6.124.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २६ ॥
यन्मेरुशिखराकारं निर्मितं विश्वकर्मणा । बहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः । ६.१२४.२९ ॥

yanmeruśikharākāraṁ nirmitaṁ viśvakarmaṇā ।
bahubhirbhūṣitaṁ harmyairmuktārajatasannibhaiḥ ।
6.124.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २७ ॥
तलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः । महार्हास्तरणो पेतैरुपपन्नं महाधनैः । ६.१२४.३० । उपस्थितमनाधृष्यं तद्विमानं मनोजवम् । निवेदयित्वा रामाय तस्थौ तत्र विभीषणः । ६.१२४.३१ ॥

talaiḥ sphāṭikacitrāṅgairvaiḍūryaiśca varāsanaiḥ ।
mahārhāstaraṇo petairupapannaṁ mahādhanaiḥ ।
6.124.30 ।
upasthitamanādhṛṣyaṁ tadvimānaṁ manojavam ।
nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ ।
6.124.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२४ · २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुर्विंशत्युत्तरशततमः सर्गः । १२४ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe caturviṁśatyuttaraśatatamaḥ sargaḥ ।
124 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.