वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२३ · २५ श्लोकाःSarga 123 · 25 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२३ · १ ॥
प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः । अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् । ६.१२३.१ ॥

pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ ।
abravīt paramaprīto rāghavaṁ prāñjaliṁ sthitam ।
6.123.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २ ॥
अमोघं दर्शनं राम तवास्माकं परन्तप । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि । ६.१२३.२ ॥

amoghaṁ darśanaṁ rāma tavāsmākaṁ parantapa ।
prītiyuktāḥ sma tena tvaṁ brūhi yanmanasecchasi ।
6.123.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ३ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया । ६.१२३.३ ॥

evamuktastu kākutsthaḥ pratyuvāca kṛtāñjaliḥ ।
lakṣmaṇena saha bhrātrā sītayā saha bhāryayā ।
6.123.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ४ ॥
यदि प्रीतिः समुत्पन्नामयि सर्वसुरेश्वर । वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर । ६.१२३.४ ॥

yadi prītiḥ samutpannāmayi sarvasureśvara ।
vakṣyāmi kuru te satyaṁ vacanaṁ vadatāṁ vara ।
6.123.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ५ ॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जिवितं प्राप्य समुत्तिष्ठन्तु वानराः । ६.१२३.५ ॥

mama hetoḥ parākrāntā ye gatā yamasādanam ।
te sarve jivitaṁ prāpya samuttiṣṭhantu vānarāḥ ।
6.123.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ६ ॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः । मत्प्रियेष्वभियुक्ताश्च मृत्युं गणयन्ति च । ६.१२३.६ ॥

matkṛte viprayuktā ye putrairdāraiśca vānarāḥ ।
matpriyeṣvabhiyuktāśca na mṛtyuṁ gaṇayanti ca ।
6.123.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ७ ॥
त्वत्प्रसादात् समेयुस्ते वरमेतदहं वृणे । ६.१२३.७ ॥

tvatprasādāt sameyuste varametadahaṁ vṛṇe ।
6.123.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ८ ॥
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् । गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद । ६.१२३.८ ॥

nīrujo nirvraṇāṁścaiva sampannabalapauruṣān ।
golāṅgūlāṁstathaivarkṣān draṣṭumicchāmi mānada ।
6.123.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ९ ॥
अकाले चापि मुख्यानि मूलानि फलानि च । नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः । ६.१२३.९ ॥

akāle cāpi mukhyāni mūlāni ca phalāni ca ।
nadyaśca vimalāstatra tiṣṭheyuryatra vānarāḥ ।
6.123.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १० ॥
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः । महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् । ६.१२३.१० ॥

śrutvā tu vacanaṁ tasya rāghavasya mahātmanaḥ ।
mahendraḥ pratyuvācedaṁ vacanaṁ prītilakṣaṇam ।
6.123.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · ११ ॥
महानयं वरस्तात त्वयोक्तो रघुनन्दन । द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति । ६.१२३.११ ॥

mahānayaṁ varastāta tvayokto raghunandana ।
dvirmayā noktapūrvaṁ hi tasmādetadbhaviṣyati ।
6.123.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १२ ॥
समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः । ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः । नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः । ६.१२३.१२ ॥

samutthāsyanti harayo ye hatā yudhi rākṣasaiḥ ।
ṛkṣāśca sahagopucchā nikṛttānanabāhavaḥ ।
nīrujo nirvraṇāścaiva sampannabalapauruṣāḥ ।
6.123.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १३ ॥
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा । सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि । सर्व एव समेष्यन्ति संयुक्ताः परया मुदा । ६.१२३.१३ ॥

samutthāsyanti harayaḥ suptā nidrākṣaye yathā ।
suhṛdbhirbāndhavaiścaiva jñātibhiḥ svajanairapi ।
sarva eva sameṣyanti saṁyuktāḥ parayā mudā ।
6.123.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १४ ॥
अकाले पुष्पशबलाः फलवन्तश्च पादपाः । भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः । ६.१२३.१४ ॥

akāle puṣpaśabalāḥ phalavantaśca pādapāḥ ।
bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ ।
6.123.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १५ ॥
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः । ६.१२३.१५ । ्च सलिलायुताः । ६.१२३.१४ ॥

savraṇaiḥ prathamaṁ gātraiḥ saṁvṛttairnirvraṇaiḥ punaḥ ।
6.123.15 ।
ca salilāyutāḥ ।
6.123.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १६ ॥
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः । बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः । ६.१२३.१६ ॥

tataḥ samutthitāḥ sarve suptveva haripuṅgavāḥ ।
babhūvurvānarāḥ sarve kimetaditi vismitāḥ ।
6.123.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १७ ॥
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् । ६.१२३.१७ ॥

te sarve vānarāstasmai rāghavāyābhyavādayan ।
6.123.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १८ ॥
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः । ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् । ६.१२३.१८ ॥

kākutsthaṁ paripūrṇārthaṁ dṛṣṭvā sarve surottamāḥ ।
ūcuste prathamaṁ stutvā stavārhaṁ sahalakṣmaṇam ।
6.123.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · १९ ॥
गच्छायोध्यामितो वीर विसर्जय वानरान् । ६.१२३.१९ ॥

gacchāyodhyāmito vīra visarjaya ca vānarān ।
6.123.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २० ॥
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् । शत्रुघ्नं महात्मानं मातऽः सर्वाः परन्तप । ६.१२३.२० ॥

maithilīṁ sāntvayasvaināmanuraktāṁ tapasvinīm ।
śatrughnaṁ ca mahātmānaṁ māta'ḥ sarvāḥ parantapa ।
6.123.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २१ ॥
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् । अभिषेचय चात्मानं पौरान् गत्वा प्रहर्षय । ६.१२३.२१ ॥

bhrātaraṁ paśya bharataṁ tvacchokādvratadhāriṇam ।
abhiṣecaya cātmānaṁ paurān gatvā praharṣaya ।
6.123.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २२ ॥
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह । विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् । ६.१२३.२२ ॥

evamuktvā tamāmantrya rāmaṁ saumitriṇā saha ।
vimānaiḥ sūryasaṅkāśairhṛṣṭā jagmuḥ surā divam ।
6.123.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २३ ॥
अभिवाद्य काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् । लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा । ६.१२३.२३ ॥

abhivādya ca kākutsthaḥ sarvāṁstāṁstridaśottamān ।
lakṣmaṇena saha bhrātrā vāsamājñāpayattadā ।
6.123.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २४ ॥
ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी । श्रिया ज्वलन्ती विरराज सर्वतो निशा प्रणीतेव हि शीतरश्मिना । ६.१२३.२४ ॥

tatastu sā lakṣmaṇarāmapālitā mahācamūrhṛṣṭajanā yaśasvinī ।
śriyā jvalantī virarāja sarvato niśā praṇīteva hi śītaraśminā ।
6.123.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२३ · २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः । १२३ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe trayoviṁśatyuttaraśatatamaḥ sargaḥ ।
123 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.