वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२१ · २४ श्लोकाःSarga 121 · 24 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२१ · १ ॥
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् । अङ्केनादाय वैदेहीमुत्पपात विभावसुः । ६.१२१.१ ॥

etacchrutvā śubhaṁ vākyaṁ pitāmahasamīritam ।
aṅkenādāya vaidehīmutpapāta vibhāvasuḥ ।
6.121.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २ ॥
विधूय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् । ६.१२१.२ ॥

sa vidhūya citāṁ tāṁ tu vaidehīṁ havyavāhanaḥ ।
uttasthau mūrtimānāśu gṛhītvā janakātmajām ।
6.121.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ३ ॥
तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् । ६.१२१.३ ॥

taruṇādityasaṅkāśāṁ taptakāñcanabhūṣaṇām ।
raktāmbaradharāṁ bālāṁ nīlakuñcitamūrdhajām ।
6.121.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ४ ॥
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः । ६.१२१.४ ॥

akliṣṭamālyābharaṇāṁ tathārūpāṁ manasvinīm ।
dadau rāmāya vaidehīmaṅke kṛtvā vibhāvasuḥ ।
6.121.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ५ ॥
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः । ६.१२१.५ ॥

abravīcca tadā rāmaṁ sākṣī lokasya pāvakaḥ ।
6.121.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ६ ॥
एषा ते राम वैदेही पापमस्यां विद्यते । ६.१२१.६ ॥

eṣā te rāma vaidehī pāpamasyāṁ na vidyate ।
6.121.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ७ ॥
नैव वाचा मनसा नानुध्यानान्न चक्षुषा । सुवृत्ता वृत्तशौण्डीर त्वामतिचचार ह । ६.१२१.७ ॥

naiva vācā na manasā nānudhyānānna cakṣuṣā ।
suvṛttā vṛttaśauṇḍīra na tvāmaticacāra ha ।
6.121.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ८ ॥
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा । त्वया विरहिता दीना विवशा निर्जनाद्वनात् । ६.१२१.८ ॥

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā ।
tvayā virahitā dīnā vivaśā nirjanādvanāt ।
6.121.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ९ ॥
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा । रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः । ६.१२१.९ ॥

ruddhā cāntaḥpure guptā tvaccittā tvatparāyaṇā ।
rakṣitā rākṣasīsaṅghairvikṛtairghoradarśanaiḥ ।
6.121.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १० ॥
प्रलोभ्यमाना विविधं भर्त्स्यमाना मैथिली । नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना । ६.१२१.१० ॥

pralobhyamānā vividhaṁ bhartsyamānā ca maithilī ।
nācintayata tadrakṣastvadgatenāntarātmanā ।
6.121.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · ११ ॥
विशुद्धभावां निष्पापां पतिगृह्णीष्व राघव । किञ्चिदभिधातव्यमहमाज्ञापयामि ते । ६.१२१.११ ॥

viśuddhabhāvāṁ niṣpāpāṁ patigṛhṇīṣva rāghava ।
na kiñcidabhidhātavyamahamājñāpayāmi te ।
6.121.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १२ ॥
ततः प्रीतमना रामः श्रुत्वैतद्वदतां वरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः । ६.१२१.१२ ॥

tataḥ prītamanā rāmaḥ śrutvaitadvadatāṁ varaḥ ।
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalocanaḥ ।
6.121.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १३ ॥
एवमुक्तो महातेजा द्युतिमान् दृढविक्रमः । अब्रवीत् त्रिदशश्रेष्ठं रामो धर्मभृतां वरः । ६.१२१.१३ ॥

evamukto mahātejā dyutimān dṛḍhavikramaḥ ।
abravīt tridaśaśreṣṭhaṁ rāmo dharmabhṛtāṁ varaḥ ।
6.121.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १४ ॥
अवश्यं त्रिषु लोकेषु सीता पापमर्हति । दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा । ६.१२१.१४ ॥

avaśyaṁ triṣu lokeṣu na sītā pāpamarhati ।
dīrghakāloṣitā hīyaṁ rāvaṇāntaḥpure śubhā ।
6.121.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १५ ॥
बालिशः खलु कामात्मा रामो दशरथात्मजः । इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि । ६.१२१.१५ ॥

bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ ।
iti vakṣyanti māṁ santo jānakīmaviśodhya hi ।
6.121.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १६ ॥
अनन्यहृदयां भक्तां मच्चित्तपरिवर्तिनीम् । अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् । ६.१२१.१६ ॥

ananyahṛdayāṁ bhaktāṁ maccittaparivartinīm ।
ahamapyavagacchāmi maithilīṁ janakātmajām ।
6.121.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १७ ॥
प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः । उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् । ६.१२१.१७ ॥

pratyayārthaṁ tu lokānāṁ trayāṇāṁ satyasaṁśrayaḥ ।
upekṣe cāpi vaidehīṁ praviśantīṁ hutāśanam ।
6.121.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १८ ॥
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा । रावणो नातिवर्तेत वेलामिव महोदधिः । ६.१२१.१८ ॥

imāmapi viśālākṣīṁ rakṣitāṁ svena tejasā ।
rāvaṇo nātivarteta velāmiva mahodadhiḥ ।
6.121.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · १९ ॥
हि शक्तः दुष्टात्मा मनसा ऽपि हि मैथिलीम् । प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव । ६.१२१.१९ ॥

na hi śaktaḥ sa duṣṭātmā manasā 'pi hi maithilīm ।
pradharṣayitumaprāptāṁ dīptāmagniśikhāmiva ।
6.121.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २० ॥
नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा । अनन्या हि मया सीता भास्करेण प्रभा यथा । ६.१२१.२० ॥

neyamarhati caiśvaryaṁ rāvaṇāntaḥpure śubhā ।
ananyā hi mayā sītā bhāskareṇa prabhā yathā ।
6.121.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २१ ॥
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा । हि हातुमियं शक्या कीर्तिरात्मवता यथा । ६.१२१.२१ ॥

viśuddhā triṣu lokeṣu maithilī janakātmajā ।
na hi hātumiyaṁ śakyā kīrtirātmavatā yathā ।
6.121.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २२ ॥
अवश्यं तु मया कार्यं सर्वेषां वो वचः शुभम् । स्निग्धानां लोकमान्यानामेवं ब्रुवतां हितम् । ६.१२१.२२ ॥

avaśyaṁ tu mayā kāryaṁ sarveṣāṁ vo vacaḥ śubham ।
snigdhānāṁ lokamānyānāmevaṁ ca bruvatāṁ hitam ।
6.121.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २३ ॥
इतीदमुक्त्वा विदितं महाबलैः प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामः प्रियया महाबलः सुखं सुखार्हो ऽनुबभूव राघवः । ६.१२१.२३ ॥

itīdamuktvā viditaṁ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā ।
sametya rāmaḥ priyayā mahābalaḥ sukhaṁ sukhārho 'nubabhūva rāghavaḥ ।
6.121.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२१ · २४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकविंशत्युत्तरशततमः सर्गः । १२१ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ekaviṁśatyuttaraśatatamaḥ sargaḥ ।
121 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.