वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १२० · ३५ श्लोकाःSarga 120 · 35 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १२० · १ ॥
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः । ६.१२०.१ ॥

tato hi durmanā rāmaḥ śrutvaivaṁ vadatāṁ giraḥ ।
dadhyau muhūrtaṁ dharmātmā bāṣpavyākulalocanaḥ ।
6.120.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २ ॥
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः । सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः । ६.१२०.२ ॥

tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ ।
sahasrākṣo mahendraśca varuṇaśca parantapaḥ ।
6.120.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३ ॥
षडर्धनयनः श्रीमान् महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः । ६.१२०.३ ॥

ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ ।
kartā sarvasya lokasya brahmā brahmavidāṁ varaḥ ।
6.120.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ४ ॥
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् । ६.१२०.४ ॥

ete sarve samāgamya vimānaiḥ sūryasannibhaiḥ ।
āgamya nagarīṁ laṅkāmabhijagmuśca rāghavam ।
6.120.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ५ ॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवंस्त्रिदशश्रैष्ठाः प्राञ्जलिं राघवं स्थितम् । ६.१२०.५ ॥

tataḥ sahastābharaṇān pragṛhya vipulān bhujān ।
abruvaṁstridaśaśraiṣṭhāḥ prāñjaliṁ rāghavaṁ sthitam ।
6.120.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ६ ॥
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः । उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने । ६.१२०.६ ॥

kartā sarvasya lokasya śreṣṭho jñānavatāṁ varaḥ ।
upekṣase kathaṁ sītāṁ patantīṁ havyavāhane ।
6.120.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ७ ॥
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे । ६.१२०.७ ॥

kathaṁ devagaṇaśreṣṭhamātmānaṁ nāvabudhyase ।
6.120.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ८ ॥
ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः । त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः । ६.१२०.८ ॥

ṛtadhāmā vasuḥ pūrvaṁ vasūnāṁ tvaṁ prajāpatiḥ ।
trayāṇāṁ tvaṁ hi lokānāmādikartā svayamprabhuḥ ।
rudrāṇāmaṣṭamo rudraḥ sādhyānāmasi pañcamaḥ ।
6.120.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ९ ॥
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ चक्षुषी । अन्ते चादौ लोकानां दृश्यसे त्वं परन्तप । ६.१२०.९ ॥

aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī ।
ante cādau ca lokānāṁ dṛśyase tvaṁ parantapa ।
6.120.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १० ॥
उपेक्षसे वैदेहीं मानुषः पाकृतो यथा । ६.१२०.१० ॥

upekṣase ca vaidehīṁ mānuṣaḥ pākṛto yathā ।
6.120.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ११ ॥
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः । अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । ६.१२०.११ ॥

ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ ।
abravītridaśaśreṣṭhān rāmo dharmabhṛtāṁ varaḥ ।
6.120.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १२ ॥
आत्मानं मानुषं मन्ये रामं दशरथात्मजम् । यो ऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे । ६.१२०.१२ ॥

ātmānaṁ mānuṣaṁ manye rāmaṁ daśarathātmajam ।
yo 'haṁ yasya yataścāhaṁ bhagavāṁstad bravītu me ।
6.120.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १३ ॥
इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः । अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम । ६.१२०.१३ ॥

iti bruvantaṁ kākutsthaṁ brahmā brahmavidāṁ varaḥ ।
abravīcchṛṇu me rāma satyaṁ satyaparākrama ।
6.120.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १४ ॥
भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः । एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । ६.१२०.१४ ॥

bhavānnārāyaṇo devaḥ śrīmāṁścakrāyudho vibhuḥ ।
ekaśṛṅgo varāhastvaṁ bhūtabhavyasapatnajit ।
6.120.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १५ ॥
अक्षरं ब्रह्म सत्यं मध्ये चान्ते राघव । लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । ६.१२०.१५ ॥

akṣaraṁ brahma satyaṁ ca madhye cānte ca rāghava ।
lokānāṁ tvaṁ paro dharmo viṣvaksenaścaturbhujaḥ ।
6.120.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १६ ॥
शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्बलः । ६.१२०.१६ ॥

śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ ।
ajitaḥ khaḍgadhṛdviṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ ।
6.120.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १७ ॥
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः । प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः । ६.१२०.१७ ॥

senānīrgrāmaṇīśca tvaṁ buddhiḥ sattvaṁ kṣamā damaḥ ।
prabhavaścāpyayaśca tvamupendro madhusūdanaḥ ।
6.120.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १८ ॥
इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् । शरण्यं शरणं त्वामाहुर्दिव्या महर्षयः । ६.१२०.१८ ॥

indrakarmā mahendrastvaṁ padmanābho raṇāntakṛt ।
śaraṇyaṁ śaraṇaṁ ca tvāmāhurdivyā maharṣayaḥ ।
6.120.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · १९ ॥
सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः । ६.१२०.१९ ॥

sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ ।
6.120.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २० ॥
त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः । ६.१२०.२० ॥

tvaṁ trayāṇāṁ hi lokānāmādikartā svayamprabhuḥ ।
siddhānāmapi sādhyānāmāśrayaścāsi pūrvajaḥ ।
6.120.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २१ ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तपः । प्रभवं निधनं वा ते विदुः को भवानिति । ६.१२०.२१ ॥

tvaṁ yajñastvaṁ vaṣaṭkārastvamoṅkāraḥ parantapaḥ ।
prabhavaṁ nidhanaṁ vā te na viduḥ ko bhavāniti ।
6.120.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २२ ॥
दृश्यसे सर्वभूतेषु ब्राह्मणेषु गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च । ६.१२०.२२ ॥

dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca ।
dikṣu sarvāsu gagane parvateṣu vaneṣu ca ।
6.120.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २३ ॥
सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि वसुधां सपर्वताम् । ६.१२०.२३ ॥

sahasracaraṇaḥ śrīmān śataśīrṣaḥ sahasradṛk ।
tvaṁ dhārayasi bhūtāni vasudhāṁ ca saparvatām ।
6.120.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २४ ॥
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रील्लोँकान् धारयन् राम देवगन्धर्वदानवान् । ६.१२०.२४ ॥

ante pṛthivyāḥ salile dṛśyase tvaṁ mahoragaḥ ।
trīllom̐kān dhārayan rāma devagandharvadānavān ।
6.120.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २५ ॥
अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो । ६.१२०.२५ ॥

ahaṁ te hṛdayaṁ rāma jihvā devī sarasvatī ।
devā gātreṣu romāṇi nirmitā brahmaṇaḥ prabho ।
6.120.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २६ ॥
निमेषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा । संस्कारास्ते ऽभवन् वेदा तदस्ति त्वया विना । ६.१२०.२६ ॥

nimeṣaste bhavedrātrirunmeṣaste bhaveddivā ।
saṁskārāste 'bhavan vedā na tadasti tvayā vinā ।
6.120.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २७ ॥
जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः । ६.१२०.२७ ॥

jagat sarvaṁ śarīraṁ te sthairyaṁ te vasudhātalam ।
agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇaḥ ।
6.120.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २८ ॥
त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् । ६.१२०.२८ ॥

tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ ।
mahendraśca kṛto rājā baliṁ baddhvā mahāsuram ।
6.120.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · २९ ॥
सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् । ६.१२०.२९ ॥

sītā lakṣmīrbhavān viṣṇurdevaḥ kṛṣṇaḥ prajāpatiḥ ।
vadhārthaṁ rāvaṇasyeha praviṣṭo mānuṣīṁ tanum ।
6.120.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३० ॥
तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर । निहतो रावणो राम प्रहृष्टो दिवमाक्रम । ६.१२०.३० ॥

tadidaṁ naḥ kṛtaṁ kāryaṁ tvayā dharmabhṛtāṁ vara ।
nihato rāvaṇo rāma prahṛṣṭo divamākrama ।
6.120.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३१ ॥
अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः । अमोघं दर्शनं राम मोघः स्तवस्तव । ६.१२०.३१ ॥

amoghaṁ balavīryaṁ te amoghaste parākramaḥ ।
amoghaṁ darśanaṁ rāma na ca moghaḥ stavastava ।
6.120.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३२ ॥
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः । ६.१२०.३२ ॥

amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ ।
6.120.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३३ ॥
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् । प्राप्नुवन्ति सदा कामानिह लोके परत्र च । ६.१२०.३३ ॥

ye tvāṁ devaṁ dhruvaṁ bhaktāḥ purāṇaṁ puruṣottamam ।
prāpnuvanti sadā kāmāniha loke paratra ca ।
6.120.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३४ ॥
इममार्षं स्तवं नित्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः । ६.१२०.३४ ॥

imamārṣaṁ stavaṁ nityamitihāsaṁ purātanam ।
ye narāḥ kīrtayiṣyanti nāsti teṣāṁ parābhavaḥ ।
6.120.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १२० · ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे विंशत्युत्तरशततमः सर्गः । १२० ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe viṁśatyuttaraśatatamaḥ sargaḥ ।
120 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.