वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११९ · ३५ श्लोकाःSarga 119 · 35 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११९ · १ ॥
एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिता ऽभवत् । ६.११९.१ ॥

evamuktā tu vaidehī paruṣaṁ romaharṣaṇam ।
rāghaveṇa saroṣeṇa bhṛśaṁ pravyathitā 'bhavat ।
6.119.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २ ॥
सा तदश्रुतपूर्वं हि जने महति मैथिली । श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिता ऽभवत् । ६.११९.२ ॥

sā tadaśrutapūrvaṁ hi jane mahati maithilī ।
śrutvā bhartṛvaco rūkṣaṁ lajjayā vrīḍitā 'bhavat ।
6.119.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३ ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा । वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् । ६.११९.३ ॥

praviśantīva gātrāṇi svānyeva janakātmajā ।
vākchalyaistaiḥ saśalyeva bhṛśamaśrūṇyavartayat ।
6.119.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ४ ॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् । ६.११९.४ ॥

tato bāṣpaparikliṣṭaṁ pramārjantī svamānanam ।
śanairgadgadayā vācā bhartāramidamabravīt ।
6.119.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ५ ॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् । रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव । ६.११९.५ ॥

kiṁ māmasadṛśaṁ vākyamīdṛśaṁ śrotradāruṇam ।
rūkṣaṁ śrāvayase vīra prākṛtaḥ prākṛtāmiva ।
6.119.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ६ ॥
तथा ऽस्मि महाबाहो यथा त्वमवगच्छसि । प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे । ६.११९.६ ॥

na tathā 'smi mahābāho yathā tvamavagacchasi ।
pratyayaṁ gaccha me yena cāritreṇaiva te śape ।
6.119.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ७ ॥
पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे । परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता । ६.११९.७ ॥

pṛthakstrīṇāṁ pracāreṇa jātiṁ tāṁ pariśaṅkase ।
parityajemāṁ śaṅkāṁ tu yadi te 'haṁ parīkṣitā ।
6.119.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ८ ॥
यद्यहं गात्रसंस्पर्शं गता ऽस्मि विवशा प्रभो । कामकारो मे तत्र दैवं तत्रापराध्यति । ६.११९.८ ॥

yadyahaṁ gātrasaṁsparśaṁ gatā 'smi vivaśā prabho ।
kāmakāro na me tatra daivaṁ tatrāparādhyati ।
6.119.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ९ ॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा । ६.११९.९ ॥

madadhīnaṁ tu yattanme hṛdayaṁ tvayi vartate ।
parādhīneṣu gātreṣu kiṁ kariṣyāmyanīśvarā ।
6.119.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १० ॥
सहसंवृद्धभावाच्च संसर्गेण मानद । यद्यहं ते विज्ञाता हता तेनास्मि शाश्वतम् । ६.११९.१० ॥

sahasaṁvṛddhabhāvācca saṁsargeṇa ca mānada ।
yadyahaṁ te na vijñātā hatā tenāsmi śāśvatam ।
6.119.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ११ ॥
प्रेषितस्ते यदा वीरो हनुमानवलोककः । लङ्कास्था ऽहं त्वया वीर किं तदा विसर्जिता । ६.११९.११ ॥

preṣitaste yadā vīro hanumānavalokakaḥ ।
laṅkāsthā 'haṁ tvayā vīra kiṁ tadā na visarjitā ।
6.119.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १२ ॥
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् । त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया । ६.११९.१२ ॥

pratyakṣaṁ vānarendrasya tadvākyasamanantaram ।
tvayā santyaktayā vīra tyaktaṁ syājjīvitaṁ mayā ।
6.119.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १३ ॥
वृथा ते श्रमो ऽयं स्यात् संशये न्यस्य जीवितम् । सुहृज्जनपरिक्लेशो चायं निष्फलस्तव । ६.११९.१३ ॥

na vṛthā te śramo 'yaṁ syāt saṁśaye nyasya jīvitam ।
suhṛjjanaparikleśo na cāyaṁ niṣphalastava ।
6.119.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १४ ॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् । ६.११९.१४ ॥

tvayā tu naraśārdūla krodhamevānuvartatā ।
laghuneva manuṣyeṇa strītvameva puraskṛtam ।
6.119.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १५ ॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् । मम वृत्तं वृत्तज्ञ बहु ते पुरस्कृतम् । ६.११९.१५ ॥

apadeśena janakānnotpattirvasudhātalāt ।
mama vṛttaṁ ca vṛttajña bahu te na puraskṛtam ।
6.119.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १६ ॥
प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । मम भक्तिश्च शीलं सर्वं ते पृष्ठतः कृतम् । ६.११९.१६ ॥

na pramāṇīkṛtaḥ pāṇirbālye bālena pīḍitaḥ ।
mama bhaktiśca śīlaṁ ca sarvaṁ te pṛṣṭhataḥ kṛtam ।
6.119.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १७ ॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी । अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् । ६.११९.१७ ॥

evaṁ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī ।
abravīllakṣmaṇaṁ sītā dīnaṁ dhyānaparaṁ sthitam ।
6.119.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १८ ॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुमुत्सहे । ६.११९.१८ ॥

citāṁ me kuru saumitre vyasanasyāsya bheṣajam ।
mithyopaghātopahatā nāhaṁ jīvitumutsahe ।
6.119.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · १९ ॥
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् । ६.११९.१९ ॥

aprītasya guṇairbhartustyaktāyā janasaṁsadi ।
yā kṣamā me gatirgantuṁ pravekṣye havyavāhanam ।
6.119.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २० ॥
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा । अमर्षवशमापन्नो राघवाननमैक्षत । ६.११९.२० ॥

evamuktastu vaidehyā lakṣmaṇaḥ paravīrahā ।
amarṣavaśamāpanno rāghavānanamaikṣata ।
6.119.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २१ ॥
विज्ञाय ततश्छन्दं रामस्याकारसूचितम् । चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् । ६.११९.२१ ॥

sa vijñāya tataśchandaṁ rāmasyākārasūcitam ।
citāṁ cakāra saumitrirmate rāmasya vīryavān ।
6.119.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २२ ॥
अधोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् । ६.११९.२२ ॥

adhomukhaṁ tadā rāmaṁ śanaiḥ kṛtvā pradakṣiṇam ।
upāsarpata vaidehī dīpyamānaṁ hutāśanam ।
6.119.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २३ ॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः । ६.११९.२३ ॥

praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī ।
baddhāñjalipuṭā cedamuvācāgnisamīpataḥ ।
6.119.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २४ ॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः । ६.११९.२४ ॥

yathā me hṛdayaṁ nityaṁ nāpasarpati rāghavāt ।
tathā lokasya sākṣī māṁ sarvataḥ pātu pāvakaḥ ।
6.119.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २५ ॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः । ६.११९.२५ ॥

yathā māṁ śuddhacāritrāṁ duṣṭāṁ jānāti rāghavaḥ ।
tathā lokasya sākṣī māṁ sarvataḥ pātu pāvakaḥ ।
6.119.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २६ ॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः । ६.११९.२६ ॥

karmaṇā manasā vācā yathā nāticarāmyaham ।
rāghavaṁ sarvadharmajñaṁ tathā māṁ pātu pāvakaḥ ।
6.119.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २७ ॥
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च । अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा । यथान्ये ऽपि विजानन्ति तथा चारित्रसंयुताम् । ६.११९.२७ ॥

ādityo bhagavān vāyurdiśaścandrastathaiva ca ।
ahaścāpi tathā sandhye rātriśca pṛthivī tathā ।
yathānye 'pi vijānanti tathā cāritrasaṁyutām ।
6.119.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २८ ॥
एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् । विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना । ६.११९.२८ ॥

evamuktvā tu vaidehī parikramya hutāśanam ।
viveśa jvalanaṁ dīptaṁ nissaṅgenāntarātmanā ।
6.119.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · २९ ॥
जनः सुमहांस्त्रस्तो बालवृद्धसमाकुलः । ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् । ६.११९.२९ ॥

janaḥ sa sumahāṁstrasto bālavṛddhasamākulaḥ ।
dadarśa maithilīṁ tatra praviśantīṁ hutāśanam ।
6.119.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३० ॥
सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा । पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ । ६.११९.३० ॥

sā taptanavahemābhā taptakāñcanabhūṣaṇā ।
papāta jvalanaṁ dīptaṁ sarvalokasya sannidhau ।
6.119.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३१ ॥
ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् । सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव । ६.११९.३१ ॥

dadṛśustāṁ mahābhāgāṁ praviśantīṁ hutāśanam ।
sītāṁ kṛtsnāstrayo lokāḥ puṇyāmājyāhutīmiva ।
6.119.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३२ ॥
प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने । पतन्तीं संस्कृतां मन्त्रैर्वसोर्धारामिवाध्वरे । ६.११९.३२ ॥

pracukruśuḥ striyaḥ sarvāstāṁ dṛṣṭvā havyavāhane ।
patantīṁ saṁskṛtāṁ mantrairvasordhārāmivādhvare ।
6.119.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३३ ॥
ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः । शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव । ६.११९.३३ ॥

dadṛśustāṁ trayo lokā devagandharvadānavāḥ ।
śaptāṁ patantīṁ niraye tridivāddevatāmiva ।
6.119.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३४ ॥
तस्यामग्निं विशन्त्यां तु हाहेति विपुलस्वनः । रक्षसां वानराणां सम्बभूवाद्भुतोपमः । ६.११९.३४ ॥

tasyāmagniṁ viśantyāṁ tu hāheti vipulasvanaḥ ।
rakṣasāṁ vānarāṇāṁ ca sambabhūvādbhutopamaḥ ।
6.119.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११९ · ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः । ११९ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ekonaviṁśatyuttaraśatatamaḥ sargaḥ ।
119 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.