वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११८ · २६ श्लोकाःSarga 118 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११८ · १ ॥
तां तु पार्श्वस्थितां प्रह्वां रामः सम्प्रेक्ष्य मैथिलीम् । हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे । ६.११८.१ ॥

tāṁ tu pārśvasthitāṁ prahvāṁ rāmaḥ samprekṣya maithilīm ।
hṛdayāntargatakrodho vyāhartumupacakrame ।
6.118.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २ ॥
एषा ऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे । पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम् । ६.११८.२ ॥

eṣā 'si nirjitā bhadre śatruṁ jitvā mayā raṇe ।
pauruṣādyadanuṣṭheyaṁ tadetadupapāditam ।
6.118.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ३ ॥
गतो ऽस्म्यन्तममर्षस्य धर्षणा सम्प्रमार्जिता । अवमानश्च शत्रुश्च मया युगपदुद्धृतौ । ६.११८.३ ॥

gato 'smyantamamarṣasya dharṣaṇā sampramārjitā ।
avamānaśca śatruśca mayā yugapaduddhṛtau ।
6.118.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ४ ॥
अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः । ६.११८.४ ॥

adya me pauruṣaṁ dṛṣṭamadya me saphalaḥ śramaḥ ।
adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ ।
6.118.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ५ ॥
या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितो दोषो मानुषेण मया जितः । ६.११८.५ ॥

yā tvaṁ virahitā nītā calacittena rakṣasā ।
daivasampādito doṣo mānuṣeṇa mayā jitaḥ ।
6.118.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ६ ॥
सम्प्राप्तमवमानं यस्तेजसा प्रमार्जति । कस्तस्य पुरुषार्थो ऽस्ति पुरुषस्याल्पतेजसः । ६.११८.६ ॥

samprāptamavamānaṁ yastejasā na pramārjati ।
kastasya puruṣārtho 'sti puruṣasyālpatejasaḥ ।
6.118.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ७ ॥
लङ्घनं समुद्रस्य लङ्कायाश्चावमर्दनम् । सफलं तस्य तच्छ्लाध्यं महत् कर्म हनूमतः । ६.११८.७ ॥

laṅghanaṁ ca samudrasya laṅkāyāścāvamardanam ।
saphalaṁ tasya tacchlādhyaṁ mahat karma hanūmataḥ ।
6.118.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ८ ॥
युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे । सुग्रीवस्य ससैन्यस्य सफलो ऽद्य परिश्रमः । ६.११८.८ ॥

yuddhe vikramataścaiva hitaṁ mantrayataśca me ।
sugrīvasya sasainyasya saphalo 'dya pariśramaḥ ।
6.118.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ९ ॥
निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः । विभीषणस्य भक्तस्य सफलो ऽद्य परिश्रमः । ६.११८.९ ॥

nirguṇaṁ bhrātaraṁ tyaktvā yo māṁ svayamupasthitaḥ ।
vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ ।
6.118.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १० ॥
इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः । मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता । ६.११८.१० ॥

ityevaṁ bruvatastasya sītā rāmasya tadvacaḥ ।
mṛgīvotphullanayanā babhūvāśrupariplutā ।
6.118.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · ११ ॥
पश्यतस्तां तु रामस्य भूयः क्रोधो व्यवर्धत । प्रभूताज्यावसिक्त्स्य पावकस्येव दीप्यतः । ६.११८.११ ॥

paśyatastāṁ tu rāmasya bhūyaḥ krodho vyavardhata ।
prabhūtājyāvasiktsya pāvakasyeva dīpyataḥ ।
6.118.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १२ ॥
बद्ध्वा भ्रुकुटीं वक्त्रे तिर्यक्प्रेक्षितलोचनः । अब्रवीत् परुषं सीतां मध्ये वानररक्षसाम् । ६.११८.१२ ॥

sa baddhvā bhrukuṭīṁ vaktre tiryakprekṣitalocanaḥ ।
abravīt paruṣaṁ sītāṁ madhye vānararakṣasām ।
6.118.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १३ ॥
यत् कर्तव्यं मनुष्येण धर्षणां परिमार्जता । तत् कृतं सकलं सीते शत्रुहस्तादमर्षणात् । ६.११८.१३ ॥

yat kartavyaṁ manuṣyeṇa dharṣaṇāṁ parimārjatā ।
tat kṛtaṁ sakalaṁ sīte śatruhastādamarṣaṇāt ।
6.118.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १४ ॥
निर्जिता जीवलोकस्य तपसा भावितात्मना । अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् । ६.११८.१४ ॥

nirjitā jīvalokasya tapasā bhāvitātmanā ।
agastyena durādharṣā muninā dakṣiṇeva dik ।
6.118.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १५ ॥
विदितश्चास्तु ते भद्रे यो ऽयं रणपरिश्रमः । तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः । ६.११८.१५ ॥

viditaścāstu te bhadre yo 'yaṁ raṇapariśramaḥ ।
sa tīrṇaḥ suhṛdāṁ vīryānna tvadarthaṁ mayā kṛtaḥ ।
6.118.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १६ ॥
रक्षता तु मया वृत्तमपावदं सर्वशः । प्रख्यातस्यात्मवंशस्य न्यङ्गं परिरक्षता । ६.११८.१६ ॥

rakṣatā tu mayā vṛttamapāvadaṁ ca sarvaśaḥ ।
prakhyātasyātmavaṁśasya nyaṅgaṁ ca parirakṣatā ।
6.118.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १७ ॥
प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता । दीपो नेत्रातुरस्येव प्रतिकूला ऽसि मे दृढम् । ६.११८.१७ ॥

prāptacāritrasandehā mama pratimukhe sthitā ।
dīpo netrāturasyeva pratikūlā 'si me dṛḍham ।
6.118.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १८ ॥
तद्गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे । एता दश दिशो भद्रे कार्यमस्ति मे त्वया । ६.११८.१८ ॥

tadgaccha hyabhyanujñātā yatheṣṭaṁ janakātmaje ।
etā daśa diśo bhadre kāryamasti na me tvayā ।
6.118.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · १९ ॥
कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् । तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा । ६.११८.१९ ॥

kaḥ pumān hi kule jātaḥ striyaṁ paragṛhoṣitām ।
tejasvī punarādadyāt suhṛllekhyena cetasā ।
6.118.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २० ॥
रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा । कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् । ६.११८.२० ॥

rāvaṇāṅkaparibhraṣṭāṁ dṛṣṭāṁ duṣṭena cakṣuṣā ।
kathaṁ tvāṁ punarādadyāṁ kulaṁ vyapadiśan mahat ।
6.118.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २१ ॥
तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया । नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः । ६.११८.२१ ॥

tadarthaṁ nirjitā me tvaṁ yaśaḥ pratyāhṛtaṁ mayā ।
nāsti me tvayyabhiṣvaṅgo yatheṣṭaṁ gamyatāmitaḥ ।
6.118.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २२ ॥
इति प्रव्याहृतं भद्रे मयैतत् कृतबुद्धिना । लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम् । ६.११८.२२ ॥

iti pravyāhṛtaṁ bhadre mayaitat kṛtabuddhinā ।
lakṣmaṇe bharate vā tvaṁ kuru buddhiṁ yathāsukham ।
6.118.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २३ ॥
सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे । निवेशय मनः सीते यथा वा सुखमात्मनः । ६.११८.२३ ॥

sugrīve vānarendre vā rākṣasendre vibhīṣaṇe ।
niveśaya manaḥ sīte yathā vā sukhamātmanaḥ ।
6.118.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २४ ॥
हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम् । मर्षयेत चिरं सीते स्वगृहे परिवर्तिनीम् । ६.११८.२४ ॥

na hi tvāṁ rāvaṇo dṛṣṭvā divyarūpāṁ manoramām ।
marṣayeta ciraṁ sīte svagṛhe parivartinīm ।
6.118.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २५ ॥
ततः प्रियार्हश्रवणा तदप्रियं प्रियादुपश्रुत्य चिरस्य मैथिली । मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिहतेव सल्लकी । ६.११८.२५ ॥

tataḥ priyārhaśravaṇā tadapriyaṁ priyādupaśrutya cirasya maithilī ।
mumoca bāṣpaṁ subhṛśaṁ pravepitā gajendrahastābhihateva sallakī ।
6.118.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११८ · २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टादशोत्तरशततमः सर्गः । ११८ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe aṣṭādaśottaraśatatamaḥ sargaḥ ।
118 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.