वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११७ · ३७ श्लोकाःSarga 117 · 37 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११७ · १ ॥
उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः । रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् । ६.११७.१ ॥

sa uvāca mahāprājñamabhigamya plavaṅgamaḥ ।
rāmaṁ vacanamarthajño varaṁ sarvadhanuṣmatām ।
6.117.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २ ॥
यन्निमित्तो ऽयमारम्भः कर्मणां फलोदयः । तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि । ६.११७.२ ॥

yannimitto 'yamārambhaḥ karmaṇāṁ ca phalodayaḥ ।
tāṁ devīṁ śokasantaptāṁ maithilīṁ draṣṭumarhasi ।
6.117.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३ ॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा । मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् । ६.११७.३ ॥

sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā ।
maithilī vijayaṁ śrutvā tava harṣamupāgamat ।
6.117.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ४ ॥
पूर्वकात् प्रत्ययाच्चाहमुक्तो विश्वस्तया तया । भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् । ६.११७.४ ॥

pūrvakāt pratyayāccāhamukto viśvastayā tayā ।
bhartāraṁ draṣṭumicchāmi kṛtārthaṁ sahalakṣmaṇam ।
6.117.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ५ ॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः । अगच्छत् सहसा ध्यानमीषद्बाष्पपरिप्लुतः । ६.११७.५ ॥

evamukto hanumatā rāmo dharmabhṛtāṁ varaḥ ।
agacchat sahasā dhyānamīṣadbāṣpapariplutaḥ ।
6.117.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ६ ॥
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् । उवाच मेघसङ्काशं विभीषणमुपस्थितम् । ६.११७.६ ॥

dīrghamuṣṇaṁ viniśvasya medinīmavalokayan ।
uvāca meghasaṅkāśaṁ vibhīṣaṇamupasthitam ।
6.117.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ७ ॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां शिरस्स्नातामुपस्थापय मा चिरम् । ६.११७.७ ॥

divyāṅgarāgāṁ vaidehīṁ divyābharaṇabhūṣitām ।
iha sītāṁ śirassnātāmupasthāpaya mā ciram ।
6.117.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ८ ॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् । ६.११७.८ ॥

evamuktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ ।
praviśyāntaḥpuraṁ sītāṁ svābhiḥ strībhiracodayat ।
6.117.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ९ ॥
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति । ६.११७.९ ॥

divyāṅgarāgā vaidehi divyābharaṇabhūṣitā ।
yānamāroha bhadraṁ te bhartā tvāṁ draṣṭumicchati ।
6.117.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १० ॥
एवमुक्ता तु वेदेही प्रत्युवाच विभीषणम् । अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप । ६.११७.१० ॥

evamuktā tu vedehī pratyuvāca vibhīṣaṇam ।
asnātā draṣṭumicchāmi bhartāraṁ rākṣasādhipa ।
6.117.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ११ ॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः । यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि । ६.११७.११ ॥

tasyāstadvacanaṁ śrutvā pratyuvāca vibhīṣaṇaḥ ।
yadāha rājā bhartā te tattathā kartumarhasi ।
6.117.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १२ ॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता । भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत । ६.११७.१२ ॥

tasya tadvacanaṁ śrutvā maithilī bhartṛdevatā ।
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata ।
6.117.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १३ ॥
ततः सीतां शिरस्स्नातां युवतीभिरलङ्कृताम् । महार्हाभरणोपेतां महार्हाम्बरधारिणीम् । ६.११७.१३ ॥

tataḥ sītāṁ śirassnātāṁ yuvatībhiralaṅkṛtām ।
mahārhābharaṇopetāṁ mahārhāmbaradhāriṇīm ।
6.117.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १४ ॥
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः । ६.११७.१४ ॥

āropya śibikāṁ dīptāṁ parārdhyāmbarasaṁvṛtām ।
rakṣobhirbahubhirguptāmājahāra vibhīṣaṇaḥ ।
6.117.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १५ ॥
सो ऽभिगम्य महात्मानं ज्ञात्वा ऽपि ध्यानमास्थितम् । प्रणतश्च प्रहृष्टश्च प्राप्तं सीतां न्यवेदयत् । ६.११७.१५ ॥

so 'bhigamya mahātmānaṁ jñātvā 'pi dhyānamāsthitam ।
praṇataśca prahṛṣṭaśca prāptaṁ sītāṁ nyavedayat ।
6.117.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १६ ॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् । हर्षो दैन्यं रोषश्च त्रयं राघवमाविशत् । ६.११७.१६ ॥

tāmāgatāmupaśrutya rakṣogṛhaciroṣitām ।
harṣo dainyaṁ ca roṣaśca trayaṁ rāghavamāviśat ।
6.117.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १७ ॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् । विभीषणमिदं वाक्यमहृष्टं राघवो ऽब्रवीत् । ६.११७.१७ ॥

tataḥ pārśvagataṁ dṛṣṭvā savimarśaṁ vicārayan ।
vibhīṣaṇamidaṁ vākyamahṛṣṭaṁ rāghavo 'bravīt ।
6.117.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १८ ॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत । वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु । ६.११७.१८ ॥

rākṣasādhipate saumya nityaṁ madvijaye rata ।
vaidehī sannikarṣaṁ me śīghraṁ samupagacchatu ।
6.117.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · १९ ॥
तद्वचनमाज्ञाय राघवस्य विभीषणः । तूर्णमुत्सारणे यत्नं कारयामास सर्वतः । ६.११७.१९ ॥

sa tadvacanamājñāya rāghavasya vibhīṣaṇaḥ ।
tūrṇamutsāraṇe yatnaṁ kārayāmāsa sarvataḥ ।
6.117.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २० ॥
कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः । उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः । ६.११७.२० ॥

kañcukoṣṇīṣiṇastatra vetrajarjarapāṇayaḥ ।
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ ।
6.117.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २१ ॥
ऋक्षाणां वानराणां राक्षसानां सर्वशः । वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा । ६.११७.२१ ॥

ṛkṣāṇāṁ vānarāṇāṁ ca rākṣasānāṁ ca sarvaśaḥ ।
vṛndānyutsāryamāṇāni dūramutsasṛjustadā ।
6.117.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २२ ॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः । वायुनोद्वर्तमानस्य सागरस्येव निस्वनः । ६.११७.२२ ॥

teṣāmutsāryamāṇānāṁ sarveṣāṁ dhvanirutthitaḥ ।
vāyunodvartamānasya sāgarasyeva nisvanaḥ ।
6.117.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २३ ॥
उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसम्भ्रमान् । दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः । ६.११७.२३ ॥

utsāryamāṇāṁstān dṛṣṭvā samantājjātasambhramān ।
dākṣiṇyāttadamarṣācca vārayāmāsa rāghavaḥ ।
6.117.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २४ ॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव । विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः । ६.११७.२४ ॥

saṁrabdhaścābravīdrāmaścakṣuṣā pradahanniva ।
vibhīṣaṇaṁ mahāprājñaṁ sopālambhamidaṁ vacaḥ ।
6.117.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २५ ॥
किमर्थं मामनादृत्य क्लिश्यते ऽयं त्वया जनः । निवर्तयैनमुद्योगं जनो ऽयं स्वजनो मम । ६.११७.२५ ॥

kimarthaṁ māmanādṛtya kliśyate 'yaṁ tvayā janaḥ ।
nivartayainamudyogaṁ jano 'yaṁ svajano mama ।
6.117.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २६ ॥
गृहाणि वस्त्राणि प्राकारास्तिरस्क्रियाः । नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः । ६.११७.२६ ॥

na gṛhāṇi na vastrāṇi na prākārāstiraskriyāḥ ।
nedṛśā rājasatkārā vṛttamāvaraṇaṁ striyāḥ ।
6.117.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २७ ॥
व्यसनेषु कृच्छ्रेषु युद्धेषु स्वयंवरे । क्रुतौ विवाहे दर्शनं दुष्यति स्त्रियाः । ६.११७.२७ ॥

vyasaneṣu na kṛcchreṣu na yuddheṣu svayaṁvare ।
na krutau na vivāhe ca darśanaṁ duṣyati striyāḥ ।
6.117.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २८ ॥
सैषा युद्धगता चैव कृच्छ्रे महति स्थिता । दर्शने ऽस्या दोषः स्यान्मत्समीपे विशेषतः । ६.११७.२८ ॥

saiṣā yuddhagatā caiva kṛcchre ca mahati sthitā ।
darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ ।
6.117.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · २९ ॥
तदानय समीपं मे शीघ्रमेनां विभीषण । सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् । ६.११७.२९ ॥

tadānaya samīpaṁ me śīghramenāṁ vibhīṣaṇa ।
sītā paśyatu māmeṣā suhṛdgaṇavṛtaṁ sthitam ।
6.117.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३० ॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः । रामस्योपानयत् सीतां सन्निकर्षं विनीतवत् । ६.११७.३० ॥

evamuktastu rāmeṇa savimarśo vibhīṣaṇaḥ ।
rāmasyopānayat sītāṁ sannikarṣaṁ vinītavat ।
6.117.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३१ ॥
ततो लक्ष्मणसुग्रीवौ हनुमांश्च प्लवङ्गमः । निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् । ६.११७.३१ ॥

tato lakṣmaṇasugrīvau hanumāṁśca plavaṅgamaḥ ।
niśamya vākyaṁ rāmasya babhūvurvyathitā bhṛśam ।
6.117.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३२ ॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः । अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् । ६.११७.३२ ॥

kalatranirapekṣaiśca iṅgitairasya dāruṇaiḥ ।
aprītamiva sītāyāṁ tarkayanti sma rāghavam ।
6.117.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३३ ॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली । विभीषणेनानुगता भर्तारं सा ऽभ्यवर्तत । ६.११७.३३ ॥

lajjayā tvavalīyantī sveṣu gātreṣu maithilī ।
vibhīṣaṇenānugatā bhartāraṁ sā 'bhyavartata ।
6.117.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३४ ॥
सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि । रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी । ६.११७.३४ ॥

sā vastrasaṁruddhamukhī lajjayā janasaṁsadi ।
rurodāsādya bhartāramāryaputreti bhāṣiṇī ।
6.117.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३५ ॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता । उदैक्षत मुखं भर्तुः सौम्यं सोम्यतरानना । ६.११७.३५ ॥

vismayācca praharṣācca snehācca patidevatā ।
udaikṣata mukhaṁ bhartuḥ saumyaṁ somyatarānanā ।
6.117.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३६ ॥
अथ समपनुदन्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् । ६.११७.३६ ॥

atha samapanudanmanaḥklamaṁ sā suciramadṛṣṭamudīkṣya vai priyasya ।
vadanamuditapūrṇacandrakāntaṁ vimalaśaśāṅkanibhānanā tadānīm ।
6.117.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११७ · ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः । ११७ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe saptadaśottaraśatatamaḥ sargaḥ ।
117 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.