वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११६ · ५२ श्लोकाःSarga 116 · 52 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११६ · १ ॥
इति प्रतिसमादिष्टो हनुमान् मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः । ६.११६.१ ॥

iti pratisamādiṣṭo hanumān mārutātmajaḥ ।
praviveśa purīṁ laṅkāṁ pūjyamāno niśācaraiḥ ।
6.116.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २ ॥
प्रविश्य महातेजा रावणस्य निवेशनम् । ददर्श मृजया हीनां सातङ्कामिव रोहिणीम् । वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् । ६.११६.२ ॥

praviśya ca mahātejā rāvaṇasya niveśanam ।
dadarśa mṛjayā hīnāṁ sātaṅkāmiva rohiṇīm ।
vṛkṣamūle nirānandāṁ rākṣasībhiḥ samāvṛtām ।
6.116.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३ ॥
निभृतः प्रणतः प्रह्वः सो ऽभिगम्याभिवाद्य च । ६.११६.३ ॥

nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca ।
6.116.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४ ॥
दृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् । तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिता ऽभवत् । ६.११६.४ ॥

dṛṣṭvā tamāgataṁ devī hanumantaṁ mahābalam ।
tūṣṇīmāsta tadā dṛṣṭvā smṛtvā pramuditā 'bhavat ।
6.116.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ५ ॥
सौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः । रामस्य वचनं सर्वमाख्यातुमुपचक्रमे । ६.११६.५ ॥

saumyaṁ dṛṣṭvā mukhaṁ tasyā hanumān plavagottamaḥ ।
rāmasya vacanaṁ sarvamākhyātumupacakrame ।
6.116.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ६ ॥
वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । विभीषणसहायश्च हरीणां सहितो बलैः । ६.११६.६ ॥

vaidehi kuśalī rāmaḥ sahasugrīvalakṣmaṇaḥ ।
vibhīṣaṇasahāyaśca harīṇāṁ sahito balaiḥ ।
6.116.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ७ ॥
कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः । ६.११६.७ ॥

kuśalaṁ cāhu siddhārtho hataśatrurarindamaḥ ।
6.116.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ८ ॥
विभीषणसहायेन रामेण हरिभिः सह । निहतो रावणो देवि लक्ष्मणस्य नयेन च । ६.११६.८ ॥

vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha ।
nihato rāvaṇo devi lakṣmaṇasya nayena ca ।
6.116.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ९ ॥
पृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः । अब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना । ६.११६.९ ॥

pṛṣṭvā tu kuśalaṁ rāmo vīrastvāṁ raghunandanaḥ ।
abravīt paramaprītaḥ kṛtārthenāntarātmanā ।
6.116.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १० ॥
प्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये । दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे । ६.११६.१० ॥

priyamākhyāmi te devi tvāṁ tu bhūyaḥ sabhājaye ।
diṣṭyā jīvasi dharmajñe jayena mama saṁyuge ।
6.116.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ११ ॥
लब्धो नो विजयः सीते स्वस्था भव गतव्यथा । रावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता । ६.११६.११ ॥

labdho no vijayaḥ sīte svasthā bhava gatavyathā ।
rāvaṇaśca hataḥ śatrurlaṅkā ceyaṁ vaśe sthitā ।
6.116.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १२ ॥
मया ह्यलब्धनिद्रेण दृढेन तव निर्जये । प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ । ६.११६.१२ ॥

mayā hyalabdhanidreṇa dṛḍhena tava nirjaye ।
pratijñaiṣā vinistīrṇā baddhvā setuṁ mahodadhau ।
6.116.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १३ ॥
सम्भ्रमश्च गन्तव्यो वर्तन्त्या रावणालये । विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् । ६.११६.१३ ॥

sambhramaśca na gantavyo vartantyā rāvaṇālaye ।
vibhīṣaṇavidheyaṁ hi laṅkaiśvaryamidaṁ kṛtam ।
6.116.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १४ ॥
तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे । अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः । ६.११६.१४ ॥

tadāśvasihi viśvastā svagṛhe parivartase ।
ayaṁ cābhyeti saṁhṛṣṭastvaddarśanasamutsukaḥ ।
6.116.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १५ ॥
एवमुक्ता समुत्पत्य सीता शशिनिभानना । प्रहर्षेणावरुद्धा सा व्याजहार किञ्चन । ६.११६.१५ ॥

evamuktā samutpatya sītā śaśinibhānanā ।
praharṣeṇāvaruddhā sā vyājahāra na kiñcana ।
6.116.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १६ ॥
अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् । किं नु चिन्तयसे देवि किं नु मां नाभिभाषसे । ६.११६.१६ ॥

abravīcca hariśreṣṭhaḥ sītāmapratijalpatīm ।
kiṁ nu cintayase devi kiṁ nu māṁ nābhibhāṣase ।
6.116.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १७ ॥
एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता । अब्रवीत् परमप्रीता हर्षगद्गदया गिरा । ६.११६.१७ ॥

evamuktā hanumatā sītā dharme vyavasthitā ।
abravīt paramaprītā harṣagadgadayā girā ।
6.116.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १८ ॥
प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । प्रहर्षवशमापन्ना निर्वाक्या ऽस्मि क्षणान्तरम् । ६.११६.१८ ॥

priyametadupaśrutya bharturvijayasaṁśritam ।
praharṣavaśamāpannā nirvākyā 'smi kṣaṇāntaram ।
6.116.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · १९ ॥
हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम । मत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् । ६.११६.१९ ॥

na hi paśyāmi sadṛśaṁ cintayantī plavaṅgama ।
matpriyākhyānākasyeha tava pratyabhinandanam ।
6.116.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २० ॥
हि पश्यामि तत् सौम्य पृथिव्यामपि वानर । सदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् । ६.११६.२० ॥

na hi paśyāmi tat saumya pṛthivyāmapi vānara ।
sadṛśaṁ matpriyākhyāne tava dātuṁ bhavet samam ।
6.116.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २१ ॥
हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च । राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् । ६.११६.२१ ॥

hiraṇyaṁ vā suvarṇaṁ vā ratnāni vividhāni ca ।
rājyaṁ vā triṣu lokeṣu naitadarhati bhāṣitum ।
6.116.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २२ ॥
एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः । गृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः । ६.११६.२२ ॥

evamuktastu vaidehyā pratyuvāca plavaṅgamaḥ ।
gṛhītaprāñjalirvākyaṁ sītāyāḥ pramukhe sthitaḥ ।
6.116.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २३ ॥
भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि । स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् । ६.११६.२३ ॥

bhartuḥ priyahite yukte bharturvijayakāṅkṣiṇi ।
snigdhamevaṁvidhaṁ vākyaṁ tvamevārhasi bhāṣitum ।
6.116.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २४ ॥
तवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च । रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते । ६.११६.२४ ॥

tavaitadvacanaṁ saumye sāravat snigdhameva ca ।
ratnaughādvividhāccāpi devarājyādviśiṣyate ।
6.116.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २५ ॥
अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् । ६.११६.२५ ॥

arthataśca mayā prāptā devarājyādayo guṇāḥ ।
hataśatruṁ vijayinaṁ rāmaṁ paśyāmi susthitam ।
6.116.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २६ ॥
तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा । ततः शुभतरं वाक्यमुवाच पवनात्मजम् । ६.११६.२६ ॥

tasya tadvacanaṁ śrutvā maithilī janakātmajā ।
tataḥ śubhataraṁ vākyamuvāca pavanātmajam ।
6.116.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २७ ॥
अतिलक्षणसम्पन्नं माधुर्यगुणभूषितम् । बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् । ६.११६.२७ ॥

atilakṣaṇasampannaṁ mādhuryaguṇabhūṣitam ।
buddhyā hyaṣṭāṅgayā yuktaṁ tvamevārhasi bhāṣitum ।
6.116.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २८ ॥
श्लाघनीयो ऽनिलस्य त्वं पुत्रः परमधार्मिकः । बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् । ६.११६.२८ ॥

ślāghanīyo 'nilasya tvaṁ putraḥ paramadhārmikaḥ ।
balaṁ śauryaṁ śrutaṁ sattvaṁ vikramo dākṣyamuttamam ।
6.116.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · २९ ॥
तेजः क्षमाधृतिर्धैर्यं विनीतत्वं संशयः । एते चान्ये बहवो गुणास्त्वय्येव शोभनाः । ६.११६.२९ ॥

tejaḥ kṣamādhṛtirdhairyaṁ vinītatvaṁ na saṁśayaḥ ।
ete cānye ca bahavo guṇāstvayyeva śobhanāḥ ।
6.116.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३० ॥
अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् । प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः । ६.११६.३० ॥

athovāca punaḥ sītāmasambhrānto vinītavat ।
pragṛhītāñjalirharṣāt sītāyāḥ pramukhe sthitaḥ ।
6.116.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३१ ॥
इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा । ६.११६.३१ ॥

imāstu khalu rākṣasyo yadi tvamanumanyase ।
hantumicchāmyahaṁ sarvā yābhistvaṁ tarjitā purā ।
6.116.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३२ ॥
क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् । ६.११६.३२ ॥

kliśyantīṁ patidevāṁ tvāmaśokavanikāṁ gatām ।
6.116.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३३ ॥
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः । राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे । ६.११६.३३ । मुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने । इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः । ६.११६.३४ ॥

ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ ।
rākṣasyo dāruṇakathā varametat prayaccha me ।
6.116.33 ।
muṣṭibhiḥ pāṇibhiḥ sarvāścaraṇaiścaiva śobhane ।
icchāmi vividhairghātairhantumetāḥ sudāruṇāḥ ।
6.116.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३४ ॥
घातैर्जानुप्रहारैश्च दशनानां पातनैः । भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा । ६.११६.३५ ॥

ghātairjānuprahāraiśca daśanānāṁ ca pātanaiḥ ।
bhakṣaṇaiḥ karṇanāsānāṁ keśānāṁ luñcanaistathā ।
6.116.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३५ ॥
नखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः । निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः । ६.११६.३६ ॥

nakhaiḥ śuṣkamukhībhiśca dāraṇairlaṅghanairhataiḥ ।
nipātya hantumicchāmi tava vipriyakāriṇīḥ ।
6.116.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३६ ॥
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि । हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः । ६.११६.३७ ॥

evaṁprakārairbahubhirviprakārairyaśasvini ।
hantumicchāmyahaṁ devi tavemāḥ kṛtakilbiṣāḥ ।
6.116.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३७ ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा । उवाच धर्मसहितं हनुमन्तं यशस्विनी । ६.११६.३८ ॥

evamuktā hanumatā vaidehī janakātmajā ।
uvāca dharmasahitaṁ hanumantaṁ yaśasvinī ।
6.116.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३८ ॥
राजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया । विधेयानां दासीनां कः कुप्येद्वानरोत्तम । ६.११६.३९ ॥

rājasaṁśrayavaśyānāṁ kurvantīnāṁ parājñayā ।
vidheyānāṁ ca dāsīnāṁ kaḥ kupyedvānarottama ।
6.116.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ३९ ॥
भाग्यवैषम्ययोगेन पुरादुश्चरितेन च । मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते । ६.११६.४० ॥

bhāgyavaiṣamyayogena purāduścaritena ca ।
mayaitat prāpyate sarvaṁ svakṛtaṁ hyupabhujyate ।
6.116.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४० ॥
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । दासीनां रावणस्याहं मर्षयामीह दुर्बला । ६.११६.४१ ॥

prāptavyaṁ tu daśāyogānmayaitaditi niścitam ।
dāsīnāṁ rāvaṇasyāhaṁ marṣayāmīha durbalā ।
6.116.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४१ ॥
आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् । हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम । ६.११६.४२ ॥

ājñaptā rāvaṇenaitā rākṣasyo māmatarjayan ।
hate tasminna kuryurhi tarjanaṁ vānarottama ।
6.116.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४२ ॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः । ऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम । ६.११६.४३ ॥

ayaṁ vyāghrasamīpe tu purāṇo dharmasaṁsthitaḥ ।
ṛkṣeṇa gītaḥ śloko me tannibodha plavaṅgama ।
6.116.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४३ ॥
परः पापमादत्ते परेषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः । ६.११६.४४ ॥

na paraḥ pāpamādatte pareṣāṁ pāpakarmaṇām ।
samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ ।
6.116.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४४ ॥
पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । कार्यं करुणमार्येण कश्चिन्नापराध्यति । ६.११६.४५ ॥

pāpānāṁ vā śubhānāṁ vā vadhārhāṇāṁ plavaṅgama ।
kāryaṁ karuṇamāryeṇa na kaścinnāparādhyati ।
6.116.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४५ ॥
लोकहिंसाविहाराणां रक्षसां कामरूपिणाम् । कुर्वतामपि पापानि नैव कार्यमशोभनम् । ६.११६.४६ ॥

lokahiṁsāvihārāṇāṁ rakṣasāṁ kāmarūpiṇām ।
kurvatāmapi pāpāni naiva kāryamaśobhanam ।
6.116.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४६ ॥
एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः । प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् । ६.११६.४७ ॥

evamuktastu hanumān sītayā vākyakovidaḥ ।
pratyuvāca tataḥ sītāṁ rāmapatnīṁ yaśasvinīm ।
6.116.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४७ ॥
युक्ता रामस्य भवती धर्मपत्नी यशस्विनी । प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः । ६.११६.४८ ॥

yuktā rāmasya bhavatī dharmapatnī yaśasvinī ।
pratisandiśa māṁ devi gamiṣye yatra rāghavaḥ ।
6.116.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४८ ॥
एवमुक्ता हनुमता वैदेही जनकात्मजा । अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम । ६.११६.४९ ॥

evamuktā hanumatā vaidehī janakātmajā ।
abravīddraṣṭumicchāmi bhartāraṁ vānarottama ।
6.116.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ४९ ॥
तस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः । हर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः । ६.११६.५० ॥

tasyāstadvanaṁ śrutvā hanumān mārutātmajaḥ ।
harṣayan maithilīṁ vākyamuvācedaṁ mahādyutiḥ ।
6.116.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ५० ॥
पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् । स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् । ६.११६.५१ ॥

pūrṇacandrānanaṁ rāmaṁ drakṣyasyārye salakṣmaṇam ।
sthiramitraṁ hatāmitraṁ śacīva tridaśeśvaram ।
6.116.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ५१ ॥
तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् । आजगाम महावेगो हनुमान् यत्र राघवः । ६.११६.५२ ॥

tāmevamuktvā rājantīṁ sītāṁ sākṣādiva śriyam ।
ājagāma mahāvego hanumān yatra rāghavaḥ ।
6.116.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११६ · ५२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षोडशोत्तरशततमः सर्गः । ११६ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ṣoḍaśottaraśatatamaḥ sargaḥ ।
116 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.