वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११५ · २६ श्लोकाःSarga 115 · 26 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११५ · १ ॥
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः । जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः । ६.११५.१ ॥

te rāvaṇavadhaṁ dṛṣṭvā devagandharvadānavāḥ ।
jagmuḥ svaisvairvimānaiste kathayantaḥ śubhāḥ kathāḥ ।
6.115.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २ ॥
रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां सुग्रीवस्य मन्त्रितम् । ६.११५.२ ॥

rāvaṇasya vadhaṁ ghoraṁ rāghavasya parākramam ।
suyuddhaṁ vānarāṇāṁ ca sugrīvasya ca mantritam ।
6.115.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ३ ॥
अनुरागं वीर्यं सौमित्रेर्लक्ष्मणस्य च । कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् । ६.११५.३ ॥

anurāgaṁ ca vīryaṁ ca saumitrerlakṣmaṇasya ca ।
kathayanto mahābhāgā jagmurhṛṣṭā yathāgatam ।
6.115.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ४ ॥
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् । अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् । ६.११५.४ ॥

rāghavastu rathaṁ divyamindradattaṁ śikhiprabham ।
anujñāya mahābhāgo mātaliṁ pratyapūjayat ।
6.115.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ५ ॥
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः । दिव्यं तं रथमास्थाय दिवमेवारुरोह सः । ६.११५.५ ॥

rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ ।
divyaṁ taṁ rathamāsthāya divamevāruroha saḥ ।
6.115.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ६ ॥
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे । राघवः परमप्रीतः सुग्रीवं परिषस्वजे । ६.११५.६ ॥

tasmiṁstu divamārūḍhe surasārathisattame ।
rāghavaḥ paramaprītaḥ sugrīvaṁ pariṣasvaje ।
6.115.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ७ ॥
परिष्वज्य सुग्रीवं लक्ष्मणेन प्रचोदितः । पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् । ६.११५.७ ॥

pariṣvajya ca sugrīvaṁ lakṣmaṇena pracoditaḥ ।
pūjyamāno hariśreṣṭhairājagāma balālayam ।
6.115.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ८ ॥
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् । सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् । ६.११५.८ ॥

abravīcca tadā rāmaḥ samīpaparivartinam ।
saumitriṁ satyasampannaṁ lakṣmaṇaṁ dīptatejasam ।
6.115.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ९ ॥
विभीषणमिमं सौम्य लङ्कायामभिषेचय । अनुरक्तं भक्तं मम चैवोपकारिणम् । ६.११५.९ ॥

vibhīṣaṇamimaṁ saumya laṅkāyāmabhiṣecaya ।
anuraktaṁ ca bhaktaṁ ca mama caivopakāriṇam ।
6.115.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १० ॥
एष मे परमः कामो यदीमं रावणानुजम् । लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् । ६.११५.१० ॥

eṣa me paramaḥ kāmo yadīmaṁ rāvaṇānujam ।
laṅkāyāṁ saumya paśyeyamabhiṣiktaṁ vibīṣaṇam ।
6.115.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · ११ ॥
एवमुक्तस्तु सौमित्री राघवेण महात्मना । तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे । ६.११५.११ ॥

evamuktastu saumitrī rāghaveṇa mahātmanā ।
tathetyuktvā tu saṁhṛṣṭaḥ sauvarṇaṁ ghaṭamādade ।
6.115.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १२ ॥
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् । आदिदेश महासत्त्वान् समुद्रसलिलानये । ६.११५.१२ ॥

taṁ ghaṭaṁ vānarendrāṇāṁ haste dattvā manojavān ।
ādideśa mahāsattvān samudrasalilānaye ।
6.115.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १३ ॥
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः । आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः । ६.११५.१३ ॥

iti śīghraṁ tato gatvā vānarāste mahābalāḥ ।
āgatāstajjalaṁ gṛhya samudrādvānarottamāḥ ।
6.115.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १४ ॥
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने । घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् । ६.११५.१४ ॥

tatastvekaṁ ghaṭaṁ gṛhya saṁsthāpya paramāsane ।
ghaṭena tena saumitrirabhyaṣiñcadvibhīṣaṇam ।
6.115.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १५ ॥
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् । विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् । अभ्यषिञ्चत् धर्मात्मा शुद्धात्मानं विभीषणम् । ६.११५.१५ ॥

laṅkāyāṁ rakṣasāṁ madhye rājānaṁ rāmaśāsanāt ।
vidhinā mantradṛṣṭena suhṛdgaṇasamāvṛtam ।
abhyaṣiñcat sa dharmātmā śuddhātmānaṁ vibhīṣaṇam ।
6.115.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १६ ॥
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः । दृष्ट्वा ऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् । ६.११५.१६ ॥

tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ ।
dṛṣṭvā 'bhiṣiktaṁ laṅkāyāṁ rākṣasendraṁ vibhīṣaṇam ।
6.115.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १७ ॥
तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः । प्रकृतीः सान्त्वयित्वा ततो राममुपागमत् । ६.११५.१७ ॥

sa tadrājyaṁ mahat prāpya rāmadattaṁ vibhīṣaṇaḥ ।
prakṛtīḥ sāntvayitvā ca tato rāmamupāgamat ।
6.115.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १८ ॥
अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा । आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः । ६.११५.१८ ॥

akṣatān modakān lājān divyāḥ sumanasastadā ।
ājahruratha saṁhṛṣṭāḥ paurāstasmai niśācarāḥ ।
6.115.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · १९ ॥
तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् । मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय वीर्यवान् । ६.११५.१९ ॥

sa tān gṛhītvā durdharṣo rāghavāya nyavedayat ।
maṅgalyaṁ maṅgalaṁ sarvaṁ lakṣmaṇāya ca vīryavān ।
6.115.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २० ॥
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् । प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया । ६.११५.२० ॥

kṛtakāryaṁ samṛddhārthaṁ dṛṣṭvā rāmo vibhīṣaṇam ।
pratijagrāha tat sarvaṁ tasyaiva priyakāmyayā ।
6.115.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २१ ॥
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् । अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् । ६.११५.२१ ॥

tataḥ śailopamaṁ vīraṁ prāñjaliṁ pārśvataḥ sthitam ।
abravīdrāghavo vākyaṁ hanumantaṁ plavaṅgamam ।
6.115.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २२ ॥
अनुमान्यं महाराजमिमं सौम्य विभीषणम् । ६.११५.२२ ॥

anumānyaṁ mahārājamimaṁ saumya vibhīṣaṇam ।
6.115.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २३ ॥
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि । प्रविश्य रावणगृहं विजयेनाभिनन्द्य च । ६.११५.२३ ॥

gaccha saumya purīṁ laṅkāmanujñāpya yathāvidhi ।
praviśya rāvaṇagṛhaṁ vijayenābhinandya ca ।
6.115.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २४ ॥
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् । आचक्ष्व जयतां श्रेष्ठ रावणं मया हतम् । ६.११५.२४ ॥

vaidehyai māṁ kuśalinaṁ sasugrīvaṁ salakṣmaṇam ।
ācakṣva jayatāṁ śreṣṭha rāvaṇaṁ ca mayā hatam ।
6.115.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २५ ॥
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर । प्रतिगृह्य सन्देशमुपावर्तितुमर्हसि । ६.११५.२५ ॥

priyametadudāhṛtya maithilyāstvaṁ harīśvara ।
pratigṛhya ca sandeśamupāvartitumarhasi ।
6.115.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११५ · २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः । ११५ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe pañcadaśottaraśatatamaḥ sargaḥ ।
115 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.