वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११२ · २७ श्लोकाःSarga 112 · 27 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११२ · १ ॥
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः । ६.११२.१ ॥

bhrātaraṁ nihataṁ dṛṣṭvā śayānaṁ rāmanirjitam ।
śokavegaparītātmā vilalāpa vibhīṣaṇaḥ ।
6.112.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २ ॥
वीर विक्रान्त विख्यात विनीत नयकोविद । महार्हशयनोपेत किं शेषे ऽद्य हतो भुवि । ६.११२.२ ॥

vīra vikrānta vikhyāta vinīta nayakovida ।
mahārhaśayanopeta kiṁ śeṣe 'dya hato bhuvi ।
6.112.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ३ ॥
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ । मुकुटेनापवृत्तेन भास्कराकारवर्चसा । ६.११२.३ ॥

vikṣipya dīrghau niśceṣṭau bhujāvaṅgadabhūṣitau ।
mukuṭenāpavṛttena bhāskarākāravarcasā ।
6.112.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ४ ॥
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् । काममोहपरीतस्य यत्ते रुचितं वचः । ६.११२.४ ॥

tadidaṁ vīra samprāptaṁ mayā pūrvaṁ samīritam ।
kāmamohaparītasya yatte na rucitaṁ vacaḥ ।
6.112.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ५ ॥
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः । कुम्भकर्णो ऽतिरथो नातिकायो नरान्तकः । स्वयं त्वममन्येथास्तस्योदर्को ऽयमागतः । ६.११२.५ ॥

yanna darpāt prahasto vā nendrajinnāpare janāḥ ।
na kumbhakarṇo 'tiratho nātikāyo narāntakaḥ ।
na svayaṁ tvamamanyethāstasyodarko 'yamāgataḥ ।
6.112.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ६ ॥
गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः । गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता । ६.११२.६ ॥

gataḥ setuḥ sunītānāṁ gato dharmasya vigrahaḥ ।
gataḥ sattvasya saṅkṣepaḥ prastāvānāṁ gatirgatā ।
6.112.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ७ ॥
आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः । ६.११२.७ ॥

ādityaḥ patito bhūmau magnastamasi candramāḥ ।
6.112.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ८ ॥
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः । अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे । ६.११२.८ ॥

citrabhānuḥ praśāntārcirvyavasāyo nirudyamaḥ ।
asminnipatite bhūmau vīre śastrabhṛtāṁ vare ।
6.112.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ९ ॥
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु । ६.११२.९ ॥

kiṁ śeṣamiva lokasya hatavīrasya sāmpratam ।
raṇe rākṣasaśārdūle prasupta iva pāṁsuṣu ।
6.112.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १० ॥
धृतिप्रवालः प्रसहाग्र्यपुष्पस्तपोबलः शौर्यनिबद्धमूलः । रणे महान् राक्षसराजवृक्षः सम्मर्दितो राघवमारुतेन । ६.११२.१० ॥

dhṛtipravālaḥ prasahāgryapuṣpastapobalaḥ śauryanibaddhamūlaḥ ।
raṇe mahān rākṣasarājavṛkṣaḥ sammardito rāghavamārutena ।
6.112.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · ११ ॥
तेजोविषाणः कुलवंशवंशः कोपप्रसादापरगात्रहस्तः । इक्ष्वाकुसिंहावगृहीतदेहः सुप्तः क्षितौ रावणगन्धहस्ती । ६.११२.११ ॥

tejoviṣāṇaḥ kulavaṁśavaṁśaḥ kopaprasādāparagātrahastaḥ ।
ikṣvākusiṁhāvagṛhītadehaḥ suptaḥ kṣitau rāvaṇagandhahastī ।
6.112.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १२ ॥
पराक्रमोत्साहविजृम्भितार्चिर्निश्वासधूमः स्वबलप्रतापः । प्रतापवान् संयति राक्षसाग्निर्निर्वापितो रामपयोधरेण । ६.११२.१२ ॥

parākramotsāhavijṛmbhitārcirniśvāsadhūmaḥ svabalapratāpaḥ ।
pratāpavān saṁyati rākṣasāgnirnirvāpito rāmapayodhareṇa ।
6.112.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १३ ॥
सिंहर्क्षलाङ्गूलककुद्विषाणः पराभिजिद्गन्धनगन्धहस्ती । रक्षोवृषश्चापलकर्णचक्षुः क्षितीश्वरव्याघ्रहतो ऽवसन्नः । ६.११२.१३ ॥

siṁharkṣalāṅgūlakakudviṣāṇaḥ parābhijidgandhanagandhahastī ।
rakṣovṛṣaścāpalakarṇacakṣuḥ kṣitīśvaravyāghrahato 'vasannaḥ ।
6.112.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १४ ॥
वदन्तं हेतुमद्वाक्यं परिमृष्टार्थनिश्चयम् । रामः शोकसमाविष्टमित्युवाच विभीषणम् । ६.११२.१४ ॥

vadantaṁ hetumadvākyaṁ parimṛṣṭārthaniścayam ।
rāmaḥ śokasamāviṣṭamityuvāca vibhīṣaṇam ।
6.112.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १५ ॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः । अत्युन्नतमहोत्साहः पतितो ऽयमशङ्कितः । ६.११२.१५ ॥

nāyaṁ vinaṣṭo niśceṣṭaḥ samare caṇḍavikramaḥ ।
atyunnatamahotsāhaḥ patito 'yamaśaṅkitaḥ ।
6.112.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १६ ॥
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्ममवस्थिताः । वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे । ६.११२.१६ ॥

naivaṁ vinaṣṭāḥ śocyante kṣatradharmamavasthitāḥ ।
vṛddhimāśaṁsamānā ye nipatanti raṇājire ।
6.112.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १७ ॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता । तस्मिन् कालसमायुक्ते कालः परिशोचितुम् । ६.११२.१७ ॥

yena sendrāstrayo lokāstrāsitā yudhi dhīmatā ।
tasmin kālasamāyukte na kālaḥ pariśocitum ।
6.112.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १८ ॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन । परैर्वा हन्यते वीरः परान् वा हन्ति संयुगे । ६.११२.१८ ॥

naikāntavijayo yuddhe bhūtapūrvaḥ kadācana ।
parairvā hanyate vīraḥ parān vā hanti saṁyuge ।
6.112.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · १९ ॥
इयं हि पूर्वैः सन्दिष्टा गतिः क्षत्रियसम्मता । क्षत्रियो निहतः सङ्ख्ये शोच्य इति निश्चय । ६.११२.१९ ॥

iyaṁ hi pūrvaiḥ sandiṣṭā gatiḥ kṣatriyasammatā ।
kṣatriyo nihataḥ saṅkhye na śocya iti niścaya ।
6.112.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २० ॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः । यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय । ६.११२.२० ॥

tadevaṁ niścayaṁ dṛṣṭvā tattvamāsthāya vijvaraḥ ।
yadihānantaraṁ kāryaṁ kalpyaṁ tadanucintaya ।
6.112.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २१ ॥
तमुक्तवाक्यं विक्रान्तं राजपुत्रं विभीषणः । उवाच शोकसन्तप्तो भ्रातुर्हितमनन्तरम् । ६.११२.२१ ॥

tamuktavākyaṁ vikrāntaṁ rājaputraṁ vibhīṣaṇaḥ ।
uvāca śokasantapto bhrāturhitamanantaram ।
6.112.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २२ ॥
यो ऽयं विमर्देषु भग्नपूर्वः सुरैः समेतैः सह वासवेन । भवन्तमासाद्य रणे विभग्नो वेलामिवासाद्य यथा समुद्रः । ६.११२.२२ ॥

yo 'yaṁ vimardeṣu na bhagnapūrvaḥ suraiḥ sametaiḥ saha vāsavena ।
bhavantamāsādya raṇe vibhagno velāmivāsādya yathā samudraḥ ।
6.112.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २३ ॥
अनेन दत्तानि सुपूजितानि भुक्ताश्च भोगा निभृताश्च भृत्याः । धनानि मित्रेषु समर्पितानि वैराण्यमित्रेषु यापितानि । ६.११२.२३ ॥

anena dattāni supūjitāni bhuktāśca bhogā nibhṛtāśca bhṛtyāḥ ।
dhanāni mitreṣu samarpitāni vairāṇyamitreṣu ca yāpitāni ।
6.112.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २४ ॥
एषोहिताग्निश्च महातपाश्च वेदान्तगः कर्मसु चाग्र्यवीर्यः । एतस्य यत् प्रेतगतस्य कृत्यं तत् कर्तुमिच्छामि तव प्रसादात् । ६.११२.२४ ॥

eṣohitāgniśca mahātapāśca vedāntagaḥ karmasu cāgryavīryaḥ ।
etasya yat pretagatasya kṛtyaṁ tat kartumicchāmi tava prasādāt ।
6.112.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २५ ॥
तस्य वाक्यैः करुणैर्महात्मा सम्बोधितः साधु विभीषणेन । आज्ञापयामास नरेन्द्रसूनुः स्वर्गीयमाधानमदीनसत्त्वः । ६.११२.२५ ॥

sa tasya vākyaiḥ karuṇairmahātmā sambodhitaḥ sādhu vibhīṣaṇena ।
ājñāpayāmāsa narendrasūnuḥ svargīyamādhānamadīnasattvaḥ ।
6.112.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २६ ॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव । ६.११२.२६ ॥

maraṇāntāni vairāṇi nirvṛttaṁ naḥ prayojanam ।
kriyatāmasya saṁskāro mamāpyeṣa yathā tava ।
6.112.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११२ · २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्वादशोत्तरशततमः सर्गः । ११२ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe dvādaśottaraśatatamaḥ sargaḥ ।
112 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.