वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १११ · ३४ श्लोकाःSarga 111 · 34 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १११ · १ ॥
अथ संस्मारयामास राघवं मातलिस्तदा । अजानन्निव किं वीर त्वमेनमनुवर्तसे । ६.१११.१ ॥

atha saṁsmārayāmāsa rāghavaṁ mātalistadā ।
ajānanniva kiṁ vīra tvamenamanuvartase ।
6.111.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २ ॥
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो । विनाशकालः कथितो यः सुरैः सो ऽद्य वर्तत । ६.१११.२ ॥

visṛjāsmai vadhāya tvamastraṁ paitāmahaṁ prabho ।
vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartata ।
6.111.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३ ॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः । जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् । ६.१११.३ ॥

tataḥ saṁsmārito rāmastena vākyena mātaleḥ ।
jagrāha saśaraṁ dīptaṁ niśvasantamivoragam ।
6.111.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ४ ॥
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः । ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् । ६.१११.४ ॥

yamasmai prathamaṁ prādādagastyo bhagavānṛṣiḥ ।
brahmadattaṁ mahābāṇamamoghaṁ yudhi vīryavān ।
6.111.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ५ ॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा । दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः । ६.१११.५ ॥

brahmaṇā nirmitaṁ pūrvamindrārthamamitaujasā ।
dattaṁ surapateḥ pūrvaṁ trilokajayakāṅkṣiṇaḥ ।
6.111.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ६ ॥
यस्य वाजेषु पवनः फले पावकभास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दरौ । ६.१११.६ ॥

yasya vājeṣu pavanaḥ phale pāvakabhāskarau ।
śarīramākāśamayaṁ gaurave merumandarau ।
6.111.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ७ ॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् । तेजसा सर्वभूतानां कृतं भास्करवर्चसम् । ६.१११.७ ॥

jājvalyamānaṁ vapuṣā supuṅkhaṁ hemabhūṣitam ।
tejasā sarvabhūtānāṁ kṛtaṁ bhāskaravarcasam ।
6.111.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ८ ॥
सधूममिव कालाग्निं दीप्तमाशीविषं यथा । परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् । ६.१११.८ ॥

sadhūmamiva kālāgniṁ dīptamāśīviṣaṁ yathā ।
paranāgāśvavṛndānāṁ bhedanaṁ kṣiprakāriṇam ।
6.111.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ९ ॥
द्वाराणां परिघाणां गिरीणामपि भेदनम् । नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् । ६.१११.९ ॥

dvārāṇāṁ parighāṇāṁ ca girīṇāmapi bhedanam ।
nānārudhirasiktāṅgaṁ medodigdhaṁ sudāruṇam ।
6.111.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १० ॥
वज्रसारं महानादं नानासमितिदारणम् । सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् । ६.१११.१० ॥

vajrasāraṁ mahānādaṁ nānāsamitidāraṇam ।
sarvavitrāsanaṁ bhīmaṁ śvasantamiva pannagam ।
6.111.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ११ ॥
कङ्कगृध्रवलानां गोमायुगणरक्षसाम् । नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् । ६.१११.११ ॥

kaṅkagṛdhravalānāṁ ca gomāyugaṇarakṣasām ।
nityaṁ bhakṣyapradaṁ yuddhe yamarūpaṁ bhayāvaham ।
6.111.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १२ ॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् । वाजितं विविधैर्वाजैश्चारुचित्रैर्गरुत्मतः । ६.१११.१२ ॥

nandanaṁ vānarendrāṇāṁ rakṣasāmavasādanam ।
vājitaṁ vividhairvājaiścārucitrairgarutmataḥ ।
6.111.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १३ ॥
तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् । द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः । ६.१११.१३ ॥

tamuttameṣuṁ lokānāmikṣvākubhayanāśanam ।
dviṣatāṁ kīrtiharaṇaṁ praharṣakaramātmanaḥ ।
6.111.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १४ ॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः । वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली । ६.१११.१४ ॥

abhimantrya tato rāmastaṁ maheṣuṁ mahābalaḥ ।
vedaproktena vidhinā sandadhe kārmuke balī ।
6.111.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १५ ॥
तस्मिन् सन्धीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि वित्रेसुश्चचाल वसुन्धरा । ६.१११.१५ । रावणाय सङ्क्रुद्धो भृशमायम्य कार्मुकम् । चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् । ६.१११.१६ ॥

tasmin sandhīyamāne tu rāghaveṇa śarottame ।
sarvabhūtāni vitresuścacāla ca vasundharā ।
6.111.15 ।
sa rāvaṇāya saṅkruddho bhṛśamāyamya kārmukam ।
cikṣepa paramāyattastaṁ śaraṁ marmaghātinam ।
6.111.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १६ ॥
वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः । कृतान्त इव चावार्यो न्यपतद्रावणोरसि । ६.१११.१७ ॥

sa vajra iva durdharṣo vajribāhuvisarjitaḥ ।
kṛtānta iva cāvāryo nyapatadrāvaṇorasi ।
6.111.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १७ ॥
विसृष्टो महावेगः शरीरान्तकरः शरः । बिभेद हृदयं तस्य रावणस्य दुरात्मनः । ६.१११.१८ ॥

sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ ।
bibheda hṛdayaṁ tasya rāvaṇasya durātmanaḥ ।
6.111.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १८ ॥
रुधिराक्तः वेगेन जीवितान्तकरः शरः । रावणस्य हरन् प्राणान् विवेश धरणीतलम् । ६.१११.१९ ॥

rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ ।
rāvaṇasya haran prāṇān viveśa dharaṇītalam ।
6.111.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · १९ ॥
शरो रावणं हत्वा रुधिरार्दीकृतच्छविः । कृतकर्मा निभृतवत् स्वतूणीं पुनरागमत् । ६.१११.२० ॥

sa śaro rāvaṇaṁ hatvā rudhirārdīkṛtacchaviḥ ।
kṛtakarmā nibhṛtavat svatūṇīṁ punarāgamat ।
6.111.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २० ॥
तस्य हस्ताद्धतस्याशु कार्मुकं तत् ससायकम् । निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् । ६.१११.२१ ॥

tasya hastāddhatasyāśu kārmukaṁ tat sasāyakam ।
nipapāta saha prāṇairbhraśyamānasya jīvitāt ।
6.111.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २१ ॥
गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः । पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा । ६.१११.२२ ॥

gatāsurbhīmavegastu nairṛtendro mahādyutiḥ ।
papāta syandanādbhūmau vṛtro vajrahato yathā ।
6.111.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २२ ॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः । हतनाथा भयत्रस्ताः सर्वतः सम्प्रदुद्रुवुः । ६.१११.२३ ॥

taṁ dṛṣṭvā patitaṁ bhūmau hataśeṣā niśācarāḥ ।
hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ ।
6.111.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २३ ॥
नर्दन्तश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः । ६.१११.२४ ॥

nardantaścābhipetustān vānarā drumayodhinaḥ ।
6.111.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २४ ॥
दशग्रीववधं दृष्ट्वा विजयं राघवस्य च । अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन् भयात् । गताश्रयत्वात् करुणैर्बाष्पप्रस्रवणैर्मुखैः । ६.१११.२५ ॥

daśagrīvavadhaṁ dṛṣṭvā vijayaṁ rāghavasya ca ।
arditā vānarairhṛṣṭairlaṅkāmabhyapatan bhayāt ।
gatāśrayatvāt karuṇairbāṣpaprasravaṇairmukhaiḥ ।
6.111.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २५ ॥
ततो विनेदुः संहृष्टा वानरा जितकाशिनः । वदन्तो राघवजयं रावणस्य तद्वधम् । ६.१११.२६ ॥

tato vineduḥ saṁhṛṣṭā vānarā jitakāśinaḥ ।
vadanto rāghavajayaṁ rāvaṇasya ca tadvadham ।
6.111.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २६ ॥
अथान्तरिक्षे व्यनदत् सौम्यस्त्रिदशदुन्दुभिः । दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ । ६.१११.२७ ॥

athāntarikṣe vyanadat saumyastridaśadundubhiḥ ।
divyagandhavahastatra mārutaḥ sasukho vavau ।
6.111.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २७ ॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि । किरन्ती राघवरथं दुरवापा मनोरमा । ६.१११.२८ ॥

nipapātāntarikṣācca puṣpavṛṣṭistadā bhuvi ।
kirantī rāghavarathaṁ duravāpā manoramā ।
6.111.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २८ ॥
राघवस्तवसंयुक्ता गगने ऽपि शुश्रुवे । साधु साध्विति वागग्र्या दैवतानां महात्मनाम् । ६.१११.२९ ॥

rāghavastavasaṁyuktā gagane 'pi ca śuśruve ।
sādhu sādhviti vāgagryā daivatānāṁ mahātmanām ।
6.111.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · २९ ॥
आविवेश महाहर्षो देवानां चारणैः सह । रावणे निहते रौद्रे सर्वलोकभयङ्करे । ६.१११.३० ॥

āviveśa mahāharṣo devānāṁ cāraṇaiḥ saha ।
rāvaṇe nihate raudre sarvalokabhayaṅkare ।
6.111.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३० ॥
ततः सकामं सुग्रीवमङ्गदं महाबलम् । चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् । ६.१११.३१ ॥

tataḥ sakāmaṁ sugrīvamaṅgadaṁ ca mahābalam ।
cakāra rāghavaḥ prīto hatvā rākṣasapuṅgavam ।
6.111.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३१ ॥
ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभो ऽबवत् । मही चकम्पे हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः । ६.१११.३२ ॥

tataḥ prajagmuḥ praśamaṁ marudgaṇā diśaḥ prasedurvimalaṁ nabho 'bavat ।
mahī cakampe na hi māruto vavau sthiraprabhaścāpyabhavaddivākaraḥ ।
6.111.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३२ ॥
ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा । समेत्य हृष्टा विजयेन राघवं रणे ऽभिरामं विधिना ह्यपूजयन् । ६.१११.३३ ॥

tatastu sugrīvavibhīṣaṇādayaḥ suhṛdviśeṣāḥ sahalakṣmaṇāstadā ।
sametya hṛṣṭā vijayena rāghavaṁ raṇe 'bhirāmaṁ vidhinā hyapūjayan ।
6.111.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३३ ॥
तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रणे रराज । रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः । ६.१११.३४ ॥

sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja ।
raghukulanṛpanandano mahaujāstridaśagaṇairabhisaṁvṛto yathendraḥ ।
6.111.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १११ · ३४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकादशोत्तरशततमः सर्गः । १११ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ekādaśottaraśatatamaḥ sargaḥ ।
111 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.