वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः ११० · ३९ श्लोकाःSarga 110 · 39 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · ११० · १ ॥
तौ तदा युद्ध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना । ६.११०.१ ॥

tau tadā yuddhyamānau tu samare rāmarāvaṇau ।
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā ।
6.110.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २ ॥
अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ । ६.११०.२ ॥

ardayantau tu samare tayostau syandanottamau ।
parasparamabhikruddhau parasparamabhidrutau ।
6.110.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३ ॥
परस्परवधे युक्तौ घोररूपौ बभूवतुः । मण्डलानि वीथीश्च गतप्रत्यागतानि च । दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् । ६.११०.३ ॥

parasparavadhe yuktau ghorarūpau babhūvatuḥ ।
maṇḍalāni ca vīthīśca gatapratyāgatāni ca ।
darśayantau bahuvidhāṁ sūtasārathyajāṁ gatim ।
6.110.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ४ ॥
अर्दयन् रावणं रामो राघवं चापि रावणः । गतिवेगं समापन्नौ प्रवर्तननिवर्तने । ६.११०.४ ॥

ardayan rāvaṇaṁ rāmo rāghavaṁ cāpi rāvaṇaḥ ।
gativegaṁ samāpannau pravartananivartane ।
6.110.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ५ ॥
क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ । चेरतुः संयुगमहीं सासारौ जलदौ यथा । ६.११०.५ ॥

kṣipatoḥ śarajālāni tayostau syandanottamau ।
ceratuḥ saṁyugamahīṁ sāsārau jaladau yathā ।
6.110.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ६ ॥
दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे । परस्परस्याभिमुखौ पुनरेवावतस्थतुः । ६.११०.६ ॥

darśayitvā tathā tau tu gatiṁ bahuvidhāṁ raṇe ।
parasparasyābhimukhau punarevāvatasthatuḥ ।
6.110.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ७ ॥
धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् । पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा । ६.११०.७ ॥

dhuraṁ dhureṇa rathayorvaktraṁ vaktreṇa vājinām ।
patākāśca patākābhiḥ sameyuḥ sthitayostadā ।
6.110.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ८ ॥
रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः । चतुर्भिश्चतुरो दीप्तैर्हयान् प्रत्यपसर्पयत् । ६.११०.८ ॥

rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ ।
caturbhiścaturo dīptairhayān pratyapasarpayat ।
6.110.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ९ ॥
क्रोधवशमापन्नो हयानामपसर्पणे । मुमोच निशितान् बाणान् राघवाय निशाचरः । ६.११०.९ ॥

sa krodhavaśamāpanno hayānāmapasarpaṇe ।
mumoca niśitān bāṇān rāghavāya niśācaraḥ ।
6.110.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १० ॥
सो ऽतिविद्धो बलवता दशग्रीवेण राघवः । जगाम विकारं चापि व्यथितो ऽभवत् । ६.११०.१० ॥

so 'tividdho balavatā daśagrīveṇa rāghavaḥ ।
jagāma na vikāraṁ ca na cāpi vyathito 'bhavat ।
6.110.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ११ ॥
चिक्षेप पुनर्बाणान् वज्रपातसमस्वनान् । साराथिं वज्रहस्तस्य समुद्दिश्य निशाचरः । ६.११०.११ ॥

cikṣepa ca punarbāṇān vajrapātasamasvanān ।
sārāthiṁ vajrahastasya samuddiśya niśācaraḥ ।
6.110.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १२ ॥
मातलेस्तु महावेगाः शरीरे पतिताः शराः । सूक्ष्ममपि सम्मोहं व्यथां वा प्रददुर्युधि । ६.११०.१२ ॥

mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ ।
na sūkṣmamapi sammohaṁ vyathāṁ vā pradaduryudhi ।
6.110.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १३ ॥
तया धर्षणया क्रुद्धो मातलेर्न तथा ऽत्मनः । चकार शरजालेन राघवो विमुखं रिपुम् । ६.११०.१३ ॥

tayā dharṣaṇayā kruddho mātalerna tathā ' 'tmanaḥ ।
cakāra śarajālena rāghavo vimukhaṁ ripum ।
6.110.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १४ ॥
विंशतं त्रिंशतं षष्टिं शतशो ऽथ सहस्रशः । मुमोच राघवो वीरः सायकान् स्यन्दने रिपोः । ६.११०.१४ ॥

viṁśataṁ triṁśataṁ ṣaṣṭiṁ śataśo 'tha sahasraśaḥ ।
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ ।
6.110.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १५ ॥
रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः । गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे । ६.११०.१५ ॥

rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ ।
gadāmusalavarṣeṇa rāmaṁ pratyardayadraṇe ।
6.110.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १६ ॥
तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् । ६.११०.१६ ॥

tatpravṛttaṁ mahadyuddhaṁ tumulaṁ romaharṣaṇam ।
6.110.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १७ ॥
गदानां मुसलानां परिघाणां निस्वनैः । शराणां पुङ्खपातैश्च क्षुभिताः सप्त सागराः । ६.११०.१७ ॥

gadānāṁ musalānāṁ ca parighāṇāṁ ca nisvanaiḥ ।
śarāṇāṁ puṅkhapātaiśca kṣubhitāḥ sapta sāgarāḥ ।
6.110.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १८ ॥
क्षुब्धानां सागराणां पातालतलवासिनः । व्यथिताः पन्नगाः सर्वे दानवाश्च सहस्रशः । ६.११०.१८ ॥

kṣubdhānāṁ sāgarāṇāṁ ca pātālatalavāsinaḥ ।
vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ ।
6.110.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · १९ ॥
चकम्पे मेदिनी कृत्स्ना सशैलवनकानना । भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः । ६.११०.१९ ॥

cakampe medinī kṛtsnā saśailavanakānanā ।
bhāskaro niṣprabhaścāsīnna vavau cāpi mārutaḥ ।
6.110.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २० ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । चिन्तामापेदिरे सर्वे सकिन्नरमहोरगाः । ६.११०.२० ॥

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ ।
cintāmāpedire sarve sakinnaramahoragāḥ ।
6.110.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २१ ॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकास्तिष्ठन्तु शाश्वताः । जयतां राघवः सङ्ख्ये रावणं राक्षसेश्वरम् । ६.११०.२१ ॥

svasti gobrāhmaṇebhyastu lokāstiṣṭhantu śāśvatāḥ ।
jayatāṁ rāghavaḥ saṅkhye rāvaṇaṁ rākṣaseśvaram ।
6.110.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २२ ॥
एवं जपन्तो ऽपश्यंस्ते देवाः सर्षिगणास्तदा । रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् । ६.११०.२२ ॥

evaṁ japanto 'paśyaṁste devāḥ sarṣigaṇāstadā ।
rāmarāvaṇayoryuddhaṁ sughoraṁ romaharṣaṇam ।
6.110.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २३ ॥
गन्धर्वाप्सरसां सङ्घा दृष्ट्वा युद्धमनूपमम् । ६.११०.२३ ॥

gandharvāpsarasāṁ saṅghā dṛṣṭvā yuddhamanūpamam ।
6.110.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २४ ॥
गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोर्युद्धं रामरावणयोरिव । एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् । ६.११०.२४ ॥

gaganaṁ gaganākāraṁ sāgaraḥ sāgaropamaḥ ।
rāmarāvaṇayoryuddhaṁ rāmarāvaṇayoriva ।
evaṁ bruvanto dadṛśustadyuddhaṁ rāmarāvaṇam ।
6.110.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २५ ॥
ततः क्रुद्धो महाबाहू रघूणां कीर्तिवर्धनः । सन्धाय धनुषा रामः क्षुरमाशीविषोपमम् । ६.११०.२५ ॥

tataḥ kruddho mahābāhū raghūṇāṁ kīrtivardhanaḥ ।
sandhāya dhanuṣā rāmaḥ kṣuramāśīviṣopamam ।
6.110.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २६ ॥
रावणस्य शिरो ऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् । तच्छिरः पतितं भूमौ दृष्ट्वं लोकैस्त्रिभिस्तदा । ६.११०.२६ ॥

rāvaṇasya śiro 'cchindacchrīmajjvalitakuṇḍalam ।
tacchiraḥ patitaṁ bhūmau dṛṣṭvaṁ lokaistribhistadā ।
6.110.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २७ ॥
तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः । तत् क्षिप्रं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा । ६.११०.२७ ॥

tasyaiva sadṛśaṁ cānyadrāvaṇasyotthitaṁ śiraḥ ।
tat kṣipraṁ kṣiprahastena rāmeṇa kṣiprakāriṇā ।
6.110.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २८ ॥
द्वितीयं रावणशिरश्छिन्नं संयति सायकैः । छिन्नमात्रं तु तच्छीर्षं पुनरन्यत् स्म दृश्यते । ६.११०.२८ ॥

dvitīyaṁ rāvaṇaśiraśchinnaṁ saṁyati sāyakaiḥ ।
chinnamātraṁ tu tacchīrṣaṁ punaranyat sma dṛśyate ।
6.110.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · २९ ॥
तदप्यशनिसङ्काशैश्छिन्नं रामेण सायकैः । एवमेकशतं छिन्नं शिरसां तुल्यवर्चसाम् । ६.११०.२९ ॥

tadapyaśanisaṅkāśaiśchinnaṁ rāmeṇa sāyakaiḥ ।
evamekaśataṁ chinnaṁ śirasāṁ tulyavarcasām ।
6.110.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३० ॥
चैव रावणस्यान्तो दृश्यते जीवितक्षये । ६.११०.३० ॥

na caiva rāvaṇasyānto dṛśyate jīvitakṣaye ।
6.110.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३१ ॥
ततः सर्वास्त्रविद्वीरः कौसल्यानन्दवर्धनः । मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः । ६.११०.३१ ॥

tataḥ sarvāstravidvīraḥ kausalyānandavardhanaḥ ।
mārgaṇairbahubhiryuktaścintayāmāsa rāghavaḥ ।
6.110.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३२ ॥
मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः । क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने । ६.११०.३२ ॥

mārīco nihato yaistu kharo yaistu sadūṣaṇaḥ ।
krauñcāvane virādhastu kabandho daṇḍakāvane ।
6.110.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३३ ॥
यैः साला गिरयो भग्ना वाली क्षुभितो ऽम्बुधिः । इमे सायकाः सर्वे युद्धे प्रात्ययिका मम । किं नु तत्कारणं येन रावणे मन्दतेजसः । ६.११०.३३ ॥

yaiḥ sālā girayo bhagnā vālī ca kṣubhito 'mbudhiḥ ।
ta ime sāyakāḥ sarve yuddhe prātyayikā mama ।
kiṁ nu tatkāraṇaṁ yena rāvaṇe mandatejasaḥ ।
6.110.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३४ ॥
इति चिन्तापरश्चासीदप्रमत्तश्च संयुगे । ववर्ष शरवर्षाणि राघवो रावणोरसि । ६.११०.३४ । मम । रावणो ऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः । गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे । ६.११०.३५ ॥

iti cintāparaścāsīdapramattaśca saṁyuge ।
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi ।
6.110.34 ।
ā mama ।
rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ ।
gadāmusalavarṣeṇa rāmaṁ pratyardayadraṇe ।
6.110.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३५ ॥
तत् प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् । अन्तरिक्षे भूमौ पुनश्च गिरिमूर्धनि । ६.११०.३६ ॥

tat pravṛttaṁ mahadyuddhaṁ tumulaṁ romaharṣaṇam ।
antarikṣe ca bhūmau ca punaśca girimūrdhani ।
6.110.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३६ ॥
देवदानवयक्षाणां पिशाचोरगरक्षसाम् । पश्यतां तन्महद्युद्धं सर्वरात्रमवर्तत । ६.११०.३७ ॥

devadānavayakṣāṇāṁ piśācoragarakṣasām ।
paśyatāṁ tanmahadyuddhaṁ sarvarātramavartata ।
6.110.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३७ ॥
नैव रात्रं दिवसं मुहूर्तं क्षणम् । रामरावणयोर्युद्धं विराममुपगच्छति । ६.११०.३८ ॥

naiva rātraṁ na divasaṁ na muhūrtaṁ na ca kṣaṇam ।
rāmarāvaṇayoryuddhaṁ virāmamupagacchati ।
6.110.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३८ ॥
दशरथसुतराक्षसेन्द्रयोर्जयमनवेक्ष्य रणे राघवस्य । सुरवररथसारथिर्महान् रणगतमेनमुवाच वाक्यमाशु । ६.११०.३९ ॥

daśarathasutarākṣasendrayorjayamanavekṣya raṇe sa rāghavasya ।
suravararathasārathirmahān raṇagatamenamuvāca vākyamāśu ।
6.110.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · ११० · ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे दशोत्तरशततमः सर्गः । ११० ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe daśottaraśatatamaḥ sargaḥ ।
110 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.