वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १०९ · ३० श्लोकाःSarga 109 · 30 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १०९ · १ ॥
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् । ६.१०९.१ ॥

tataḥ pravṛttaṁ sukrūraṁ rāmarāvaṇayostadā ।
sumahaddvairathaṁ yuddhaṁ sarvalokabhayāvaham ।
6.109.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २ ॥
ततो राक्षससैन्यं हरीणां महद्बलम् । प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत । ६.१०९.२ ॥

tato rākṣasasainyaṁ ca harīṇāṁ ca mahadbalam ।
pragṛhītapraharaṇaṁ niśceṣṭaṁ samatiṣṭhata ।
6.109.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ३ ॥
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः । ६.१०९.३ ॥

samprayuddhau tato dṛṣṭvā balavannararākṣasau ।
vyākṣiptahṛdayāḥ sarve paraṁ vismayamāgatāḥ ।
6.109.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ४ ॥
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् । ६.१०९.४ ॥

nānāpraharaṇairvyagrairbhujairvismitabuddhayaḥ ।
sarpantaṁ prekṣya saṅgrāmaṁ nābhijagmuḥ parasparam ।
6.109.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ५ ॥
रक्षसां रावणं चापि वानराणां राघवम् । पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ । ६.१०९.५ ॥

rakṣasāṁ rāvaṇaṁ cāpi vānarāṇāṁ ca rāghavam ।
paśyatāṁ vismitākṣāṇāṁ sainyaṁ citramivābabhau ।
6.109.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ६ ॥
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ । कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् । ६.१०९.६ ॥

tau tu tatra nimittāni dṛṣṭvā rāvaṇarāghavau ।
kṛtabuddhī sthirāmarṣau yuyudhāte byabhītavat ।
6.109.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ७ ॥
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः । धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा । ६.१०९.७ ॥

jetavyamiti kākutstho martavyamiti rāvaṇaḥ ।
dhṛtau svavīryasarvasvaṁ yuddhe 'darśayatāṁ tadā ।
6.109.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ८ ॥
ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् । ६.१०९.८ ॥

tataḥ krodhāddaśagrīvaḥ śarān sandhāya vīryavān ।
mumoca dhvajamuddiśya rāghavasya rathe sthitam ।
6.109.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ९ ॥
ते शरास्तमनासाद्य पुरन्दररथध्वजम् । रथशक्तिं परामृश्य निपेतुर्धरणीतले । ६.१०९.९ ॥

te śarāstamanāsādya purandararathadhvajam ।
rathaśaktiṁ parāmṛśya nipeturdharaṇītale ।
6.109.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १० ॥
ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे । ६.१०९.१० ॥

tato rāmo 'bhisaṅkruddhaścāpamāyamya vīryavān ।
kṛtapratikṛtaṁ kartuṁ manasā sampracakrame ।
6.109.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ११ ॥
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् । महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा । ६.१०९.११ ॥

rāvaṇadhvajamuddiśya mumoca niśitaṁ śaram ।
mahāsarpamivāsahyaṁ jvalantaṁ svena tejasā ।
6.109.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १२ ॥
जगाम महीं छित्त्वा दशग्रीवध्वजं शरः । निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः । ६.१०९.१२ ॥

jagāma sa mahīṁ chittvā daśagrīvadhvajaṁ śaraḥ ।
sa nikṛtto 'patadbhūmau rāvaṇasya rathadhvajaḥ ।
6.109.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १३ ॥
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः । सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव । ६.१०९.१३ ॥

dhvajasyonmathanaṁ dṛṣṭvā rāvaṇaḥ sumahābalaḥ ।
sampradīpto 'bhavat krodhādamarṣāt pradahanniva ।
6.109.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १४ ॥
रोषवशमापन्नः शरवर्षं महद्वमन् । रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः । ६.१०९.१४ ॥

sa roṣavaśamāpannaḥ śaravarṣaṁ mahadvaman ।
rāmasya turagān dīptaiḥ śarairvivyādha rāvaṇaḥ ।
6.109.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १५ ॥
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः । बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः । ६.१०९.१५ ॥

te viddhā harayastatra nāskhalannāpi babhramuḥ ।
babhūvuḥ svasthahṛdayāḥ padmanālairivāhatāḥ ।
6.109.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १६ ॥
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा । भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह । ६.१०९.१६ ॥

teṣāmasambhramaṁ dṛṣṭvā vājināṁ rāvaṇastadā ।
bhūya eva susaṅkruddhaḥ śaravarṣaṁ mumoca ha ।
6.109.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १७ ॥
गदाश्च परिघाश्चैव चक्राणि मुसलानि च । गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् । ६.१०९.१७ ॥

gadāśca parighāścaiva cakrāṇi musalāni ca ।
giriśṛṅgāṇi vṛkṣāṁśca tathā śūlaparaśvadhān ।
6.109.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १८ ॥
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् । तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् । ६.१०९.१८ ॥

māyāvihitametattu śastravarṣamapātayat ।
tumulaṁ trāsajananaṁ bhīmaṁ bhīmapratisvanam ।
6.109.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · १९ ॥
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् । विमुच्य राघवरथं समान्ताद्वानरे बले । ६.१०९.१९ ॥

tadvarṣamabhavadyuddhe naikaśastramayaṁ mahat ।
vimucya rāghavarathaṁ samāntādvānare bale ।
6.109.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २० ॥
सायकैरन्तरिक्षं चकाराशु निरन्तरम् । सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः । मुमोच दशग्रीवो निस्सङ्गेना ऽन्तरात्मना । ६.१०९.२० ॥

sāyakairantarikṣaṁ ca cakārāśu nirantaram ।
sahasraśastato bāṇānaśrāntahṛdayodyamaḥ ।
mumoca ca daśagrīvo nissaṅgenā 'ntarātmanā ।
6.109.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २१ ॥
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे । प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् । ६.१०९.२१ ॥

vyāyacchamānaṁ taṁ dṛṣṭvā tatparaṁ rāvaṇaṁ raṇe ।
prahasanniva kākutsthaḥ sandadhe sāyakān śitān ।
6.109.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २२ ॥
मुमोच ततो बाणान् रणे शतसहस्रशः । तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् । ६.१०९.२२ ॥

sa mumoca tato bāṇān raṇe śatasahasraśaḥ ।
tān dṛṣṭvā rāvaṇaścakre svaśaraiḥ khaṁ nirantaram ।
6.109.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २३ ॥
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता । शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् । ६.१०९.२३ ॥

tatastābhyāṁ pramuktena śaravarṣeṇa bhāsvatā ।
śarabaddhamivābhāti dvitīyaṁ bhāsvadambaram ।
6.109.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २४ ॥
नानिमित्तो ऽभवद्बाणो नातिभेत्ता निष्फलः । ६.१०९.२४ ॥

nānimitto 'bhavadbāṇo nātibhettā na niṣphalaḥ ।
6.109.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २५ ॥
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले । तथा विसृजतोर्बाणान् रामरावणयोर्मृधे । ६.१०९.२५ ॥

anyonyamabhisaṁhatya nipeturdharaṇītale ।
tathā visṛjatorbāṇān rāmarāvaṇayormṛdhe ।
6.109.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २६ ॥
प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् । चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् । ६.१०९.२६ ॥

prāyuddhyatāmavicchinnamasyantau savyadakṣiṇam ।
cakratuśca śaraughaistau nirucchvāsamivāmbaram ।
6.109.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २७ ॥
रावणस्य हयान् रामो हयान् रामस्य रावणः । जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ । ६.१०९.२७ ॥

rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ ।
jaghnatustau tathā 'nyonyaṁ kṛtānukṛtakāriṇau ।
6.109.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २८ ॥
एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् । मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् । ६.१०९.२८ ॥

evaṁ tau tu susaṅkruddhau cakraturyuddhamadbhutam ।
muhūrtamabhavadyuddhaṁ tumulaṁ romaharṣaṇam ।
6.109.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · २९ ॥
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ । ध्वजावपातेन राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे । ६.१०९.२९ ॥

prayudhyamānau samare mahābalau śitaiḥ śarai rāvaṇalakṣmaṇāgrajau ।
dhvajāvapātena sa rākṣasādhipo bhṛśaṁ pracukrodha tadā raghūttame ।
6.109.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०९ · ३० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः । १०९ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe navottaraśatatamaḥ sargaḥ ।
109 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.