वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १०८ · ३६ श्लोकाःSarga 108 · 36 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १०८ · १ ॥
रथं सारथिर्हृष्टः परसैन्यप्रधर्षणम् । गन्धर्वनगराकारं समुच्छ्रितपताकिनम् । ६.१०८.१ ॥

sa rathaṁ sārathirhṛṣṭaḥ parasainyapradharṣaṇam ।
gandharvanagarākāraṁ samucchritapatākinam ।
6.108.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २ ॥
युक्तं परमसम्पन्नैर्वाजिभिर्हेममालिभिः । युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् । ६.१०८.२ ॥

yuktaṁ paramasampannairvājibhirhemamālibhiḥ ।
yuddhopakaraṇaiḥ pūrṇaṁ patākādhvajamālinam ।
6.108.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३ ॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं परसैन्यानां स्वसैन्यानां प्रहर्षणम् । रावणस्य रथं क्षिप्रं चोदयामास सारथिः । ६.१०८.३ ॥

grasantamiva cākāśaṁ nādayantaṁ vasundharām ।
praṇāśaṁ parasainyānāṁ svasainyānāṁ praharṣaṇam ।
rāvaṇasya rathaṁ kṣipraṁ codayāmāsa sārathiḥ ।
6.108.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ४ ॥
तमापतन्तं सहसा स्वनवन्तं महास्वनम् । रथं राक्षसराजस्य नरराजो ददर्श ह । ६.१०८.४ । कृष्णवाजिसमायुक्तं युक्तं रौद्रेण वर्चसा । तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् । ६.१०८.५ ॥

tamāpatantaṁ sahasā svanavantaṁ mahāsvanam ।
rathaṁ rākṣasarājasya nararājo dadarśa ha ।
6.108.4 ।
kṛṣṇavājisamāyuktaṁ yuktaṁ raudreṇa varcasā ।
taḍitpatākāgahanaṁ darśitendrāyudhāyudham ।
6.108.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ५ ॥
शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् । तं दृष्ट्वा मेघसङ्काशमापतन्तं रथं रिपोः । ६.१०८.६ ॥

śaradhārā vimuñcantaṁ dhārāsāramivāmbudam ।
taṁ dṛṣṭvā meghasaṅkāśamāpatantaṁ rathaṁ ripoḥ ।
6.108.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ६ ॥
गिरैर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् । विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः । ६.१०८.७ ॥

girairvajrābhimṛṣṭasya dīryataḥ sadṛśasvanam ।
visphārayan vai vegena bālacandranataṁ dhanuḥ ।
6.108.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ७ ॥
उवाच मातलिं रामः सहस्राक्षस्य सारथिम् । ६.१०८.८ ॥

uvāca mātaliṁ rāmaḥ sahasrākṣasya sārathim ।
6.108.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ८ ॥
मातले पश्य संरब्धमापतन्तं रथं रिपोः । ६.१०८.९ ॥

mātale paśya saṁrabdhamāpatantaṁ rathaṁ ripoḥ ।
6.108.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ९ ॥
यथा ऽपसव्यं पतता वेगेन महता पुनः । समरे हन्तुमात्मानं तथा तेन कृता मतिः । ६.१०८.१० ॥

yathā ' 'pasavyaṁ patatā vegena mahatā punaḥ ।
samare hantumātmānaṁ tathā tena kṛtā matiḥ ।
6.108.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १० ॥
तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः । विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् । ६.१०८.११ ॥

tadapramādamātiṣṭhan pratyudgaccha rathaṁ ripoḥ ।
vidhvaṁsayitumicchāmi vāyurmeghamivotthitam ।
6.108.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ११ ॥
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् । रश्मिसञ्चारनियतं प्रचोदय रथं द्रुतम् । ६.१०८.१२ ॥

aviklavamasambhrāntamavyagrahṛdayekṣaṇam ।
raśmisañcāraniyataṁ pracodaya rathaṁ drutam ।
6.108.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १२ ॥
कामं त्वं समाधेयः पुरन्दररथोचितः । युयुत्सुरहमेकाग्रः स्मारये त्वां शिक्षये । ६.१०८.१३ ॥

kāmaṁ na tvaṁ samādheyaḥ purandararathocitaḥ ।
yuyutsurahamekāgraḥ smāraye tvāṁ na śikṣaye ।
6.108.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १३ ॥
परितुष्टः रामस्य तेन वाक्येन मातलिः । प्रचोदयामास रथं सुरसारथिसत्तमः । ६.१०८.१४ ॥

parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ ।
pracodayāmāsa rathaṁ surasārathisattamaḥ ।
6.108.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १४ ॥
अपसव्यं ततः कुर्वन् रावणस्य महारथम् । चक्रोत्क्षिप्तेन रजसा रावणं व्यवधानयत् । ६.१०८.१५ ॥

apasavyaṁ tataḥ kurvan rāvaṇasya mahāratham ।
cakrotkṣiptena rajasā rāvaṇaṁ vyavadhānayat ।
6.108.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १५ ॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः । रथप्रतिमुखं रामं सायकैरवधूनयत् । ६.१०८.१६ ॥

tataḥ kruddho daśagrīvastāmravisphāritekṣaṇaḥ ।
rathapratimukhaṁ rāmaṁ sāyakairavadhūnayat ।
6.108.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १६ ॥
धर्षणामर्षितो रामो धैर्यं रोषेण लम्भयन् । जग्राह सुमहावेगमैन्द्रं युधि शरासनम् । शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् । ६.१०८.१७ ॥

dharṣaṇāmarṣito rāmo dhairyaṁ roṣeṇa lambhayan ।
jagrāha sumahāvegamaindraṁ yudhi śarāsanam ।
śarāṁśca sumahātejāḥ sūryaraśmisamaprabhān ।
6.108.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १७ ॥
तदोपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः । परस्पराभिमुखयोर्दृप्तयोरिव सिंहयोः । ६.१०८.१८ ॥

tadopoḍhaṁ mahadyuddhamanyonyavadhakāṅkṣiṇoḥ ।
parasparābhimukhayordṛptayoriva siṁhayoḥ ।
6.108.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १८ ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । समेयुर्द्वैरथं दृष्टुं रावणक्षयकाङ्क्षिणः । ६.१०८.१९ ॥

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ ।
sameyurdvairathaṁ dṛṣṭuṁ rāvaṇakṣayakāṅkṣiṇaḥ ।
6.108.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · १९ ॥
समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः । रावणस्य विनाशाय राघवस्य जयाय च । ६.१०८.२० ॥

samutpeturathotpātā dāruṇā romaharṣaṇāḥ ।
rāvaṇasya vināśāya rāghavasya jayāya ca ।
6.108.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २० ॥
ववर्ष रुधिरं देवो रावणस्य रथोपरि । वाता मण्डलिनस्तीक्ष्णा ह्यपसव्यं प्रचक्रमुः । ६.१०८.२१ ॥

vavarṣa rudhiraṁ devo rāvaṇasya rathopari ।
vātā maṇḍalinastīkṣṇā hyapasavyaṁ pracakramuḥ ।
6.108.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २१ ॥
महद् गृध्रकुलं चास्य भ्रममाणं नभस्स्थले । येन येन रथो याति तेन तेन प्रधावति । ६.१०८.२२ ॥

mahad gṛdhrakulaṁ cāsya bhramamāṇaṁ nabhassthale ।
yena yena ratho yāti tena tena pradhāvati ।
6.108.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २२ ॥
सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया । दृश्यते सम्प्रदीप्तेव दिवसे ऽपि वसुन्धरा । ६.१०८.२३ ॥

sandhyayā cāvṛtā laṅkā japāpuṣpanikāśayā ।
dṛśyate sampradīpteva divase 'pi vasundharā ।
6.108.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २३ ॥
सनिर्घाता महोल्काश्च सम्प्रचेरुर्महास्वनाः । विषादयंस्ते रक्षांसि रावणस्य तदा ऽहिताः । ६.१०८.२४ ॥

sanirghātā maholkāśca sampracerurmahāsvanāḥ ।
viṣādayaṁste rakṣāṁsi rāvaṇasya tadā 'hitāḥ ।
6.108.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २४ ॥
रावणश्च यतस्तत्र सञ्चचाल वसुन्धरा । रक्षसां प्रहरतां गृहीता इव बाहवः । ६.१०८.२५ ॥

rāvaṇaśca yatastatra sañcacāla vasundharā ।
rakṣasāṁ ca praharatāṁ gṛhītā iva bāhavaḥ ।
6.108.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २५ ॥
ताम्राः पीताः सिताश्वेताः पतिताः सूर्यरश्मयः । दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः । ६.१०८.२६ ॥

tāmrāḥ pītāḥ sitāśvetāḥ patitāḥ sūryaraśmayaḥ ।
dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ ।
6.108.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २६ ॥
गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः । प्रणेदुर्मुखमीक्षन्त्यः संरब्धमशिवं शिवाः । ६.१०८.२७ ॥

gṛdhrairanugatāścāsya vamantyo jvalanaṁ mukhaiḥ ।
praṇedurmukhamīkṣantyaḥ saṁrabdhamaśivaṁ śivāḥ ।
6.108.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २७ ॥
प्रतिकूलं ववौ वायू रणे पांसून् समाकिरन् । तस्य राक्षसराजस्य कुर्वन् दृष्टिविलोपनम् । ६.१०८.२८ ॥

pratikūlaṁ vavau vāyū raṇe pāṁsūn samākiran ।
tasya rākṣasarājasya kurvan dṛṣṭivilopanam ।
6.108.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २८ ॥
निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः । दुर्विषह्यस्वना घोरा विना जलधरस्वनम् । ६.१०८.२९ ॥

nipeturindrāśanayaḥ sainye cāsya samantataḥ ।
durviṣahyasvanā ghorā vinā jaladharasvanam ।
6.108.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · २९ ॥
दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः । पांसुवर्षेण महता दुर्दर्शं नभो ऽभवत् । ६.१०८.३० ॥

diśaśca pradiśaḥ sarvā babhūvustimirāvṛtāḥ ।
pāṁsuvarṣeṇa mahatā durdarśaṁ ca nabho 'bhavat ।
6.108.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३० ॥
कुर्वन्त्यः कलहं घोरं शारिकास्तद्रथं प्रति । निपेतुः शतशस्तत्र दारुणं दारुणारुताः । ६.१०८.३१ ॥

kurvantyaḥ kalahaṁ ghoraṁ śārikāstadrathaṁ prati ।
nipetuḥ śataśastatra dāruṇaṁ dāruṇārutāḥ ।
6.108.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३१ ॥
जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्यो ऽश्रूणि सन्ततम् । मुमुचुस्तस्य तुरगास्तुल्यमग्निं वारि च । ६.१०८.३२ ॥

jaghanebhyaḥ sphuliṅgāṁśca netrebhyo 'śrūṇi santatam ।
mumucustasya turagāstulyamagniṁ ca vāri ca ।
6.108.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३२ ॥
एवम्प्रकारा बहवः समुत्पाता भयावहाः । रावणस्य विनाशाय दारुणाः सम्प्रजज्ञिरे । ६.१०८.३३ ॥

evamprakārā bahavaḥ samutpātā bhayāvahāḥ ।
rāvaṇasya vināśāya dāruṇāḥ samprajajñire ।
6.108.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३३ ॥
रामस्यापि निमित्तानि सौम्यानि शुभानि च । बभूवुर्जयशंसीनि प्रादुर्भूतानि सर्वशः । ६.१०८.३४ ॥

rāmasyāpi nimittāni saumyāni ca śubhāni ca ।
babhūvurjayaśaṁsīni prādurbhūtāni sarvaśaḥ ।
6.108.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३४ ॥
निमित्तानि सौम्यानि राघवः स्वजयाय च । दृष्ट्वा परमसंहृष्टो हतं मेने रावणम् । ६.१०८.३५ ॥

nimittāni ca saumyāni rāghavaḥ svajayāya ca ।
dṛṣṭvā paramasaṁhṛṣṭo hataṁ mene ca rāvaṇam ।
6.108.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३५ ॥
ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तकोविदः । जगाम हर्षं परां निर्वृत्तिं चकार युद्धे ह्यधिकं विक्रमम् । ६.१०८.३६ ॥

tato nirīkṣyātmagatāni rāghavo raṇe nimittāni nimittakovidaḥ ।
jagāma harṣaṁ ca parāṁ ca nirvṛttiṁ cakāra yuddhe hyadhikaṁ ca vikramam ।
6.108.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०८ · ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टोत्तरशततमः सर्गः । १०८ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe aṣṭottaraśatatamaḥ sargaḥ ।
108 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.