वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १०३ · ३७ श्लोकाःSarga 103 · 37 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १०३ · १ ॥
लक्ष्मणेन तु तद्वाक्यमुक्तं श्रुत्वा राघवः । सन्दधे परवीरघ्नो धनुरादाय वीर्यवान् । रावणाय शरान् घोरान् विससर्ज चमूमुखे । ६.१०३.१ ॥

lakṣmaṇena tu tadvākyamuktaṁ śrutvā sa rāghavaḥ ।
sandadhe paravīraghno dhanurādāya vīryavān ।
rāvaṇāya śarān ghorān visasarja camūmukhe ।
6.103.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २ ॥
अथान्यं रथमारुह्य रावणो राक्षसाधिपः । अभ्यद्रवत काकुत्स्थं स्वर्भानुरिव भास्करम् । ६.१०३.२ ॥

athānyaṁ rathamāruhya rāvaṇo rākṣasādhipaḥ ।
abhyadravata kākutsthaṁ svarbhānuriva bhāskaram ।
6.103.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३ ॥
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः । आजघान महाघोरैर्धाराभिरिव तोयदः । ६.१०३.३ ॥

daśagrīvo rathasthastu rāmaṁ vajropamaiḥ śaraiḥ ।
ājaghāna mahāghorairdhārābhiriva toyadaḥ ।
6.103.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ४ ॥
दीप्तपावक सङ्काशैः शरैः काञ्चनभूषणैः । निर्बिभेद रणे रामो दशग्रीवं समाहितम् । ६.१०३.४ ॥

dīptapāvaka saṅkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ ।
nirbibheda raṇe rāmo daśagrīvaṁ samāhitam ।
6.103.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ५ ॥
भूमौ स्थितस्य रामस्य रथस्थस्य रक्षसः । समं युद्धमित्याहुर्देवगन्धर्वदानवाः । ६.१०३.५ ॥

bhūmau sthitasya rāmasya rathasthasya ca rakṣasaḥ ।
na samaṁ yuddhamityāhurdevagandharvadānavāḥ ।
6.103.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ६ ॥
ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः । तरुणादित्यसङ्काशो वैडूर्यमयकूबरः । ६.१०३.६ ॥

tataḥ kāñcanacitrāṅgaḥ kiṅkiṇīśatabhūṣitaḥ ।
taruṇādityasaṅkāśo vaiḍūryamayakūbaraḥ ।
6.103.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ७ ॥
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः । हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः । ६.१०३.७ ॥

sadaśvaiḥ kāñcanāpīḍairyuktaḥ śvetaprakīrṇakaiḥ ।
haribhiḥ sūryasaṅkāśairhemajālavibhūṣitaiḥ ।
6.103.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ८ ॥
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः । देवराजेन सन्दिष्टो रथमारुह्य मातलिः । ६.१०३.८ ॥

rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ ।
devarājena sandiṣṭo rathamāruhya mātaliḥ ।
6.103.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ९ ॥
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् । ६.१०३.९ ॥

abhyavartata kākutsthamavatīrya triviṣṭapāt ।
6.103.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १० ॥
अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः । प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः । ६.१०३.१० ॥

abravīcca tadā rāmaṁ sapratodo rathe sthitaḥ ।
prāñjalirmātalirvākyaṁ sahasrākṣasya sārathiḥ ।
6.103.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ११ ॥
सहस्राक्षेण काकुत्स्थ रथो ऽयं विजयाय ते । दत्तस्तव महासत्त्व श्रीमान् शत्रुनिबर्हण । ६.१०३.११ ॥

sahasrākṣeṇa kākutstha ratho 'yaṁ vijayāya te ।
dattastava mahāsattva śrīmān śatrunibarhaṇa ।
6.103.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १२ ॥
इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् । शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिता । ६.१०३.१२ ॥

idamaindraṁ mahaccāpaṁ kavacaṁ cāgnisannibham ।
śarāścādityasaṅkāśāḥ śaktiśca vimalā śitā ।
6.103.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १३ ॥
आरुह्येमं रथं वीर राक्षसं जहि रावणम् । मया सारथिना राजन् महेन्द्र इव दानवान् । ६.१०३.१३ ॥

āruhyemaṁ rathaṁ vīra rākṣasaṁ jahi rāvaṇam ।
mayā sārathinā rājan mahendra iva dānavān ।
6.103.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १४ ॥
इत्युक्तः सम्परिक्रम्य रथं समभिवाद्य च । आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन् । ६.१०३.१४ ॥

ityuktaḥ samparikramya rathaṁ samabhivādya ca ।
āruroha tadā rāmo lokān lakṣmyā virājayan ।
6.103.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १५ ॥
तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् । रामस्य महाबाहो रावणस्य रक्षसः । ६.१०३.१५ ॥

tadbabhūvādbhutaṁ yuddhaṁ tumulaṁ romaharṣaṇam ।
rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ ।
6.103.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १६ ॥
गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः । अस्त्रं राक्षसराजस्य जघान परमास्त्रवित् । ६.१०३.१६ ॥

sa gāndharveṇa gāndharvaṁ daivaṁ daivena rāghavaḥ ।
astraṁ rākṣasarājasya jaghāna paramāstravit ।
6.103.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १७ ॥
अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः । ससर्ज परमक्रुद्धः पुनरेव निशाचरः । ६.१०३.१७ ॥

astraṁ tu paramaṁ ghoraṁ rākṣasaṁ rākṣasādhipaḥ ।
sasarja paramakruddhaḥ punareva niśācaraḥ ।
6.103.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १८ ॥
ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः । अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः । ६.१०३.१८ ॥

te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ ।
abhyavartanta kākutsthaṁ sarpā bhūtvā mahāviṣāḥ ।
6.103.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · १९ ॥
ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः । राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः । ६.१०३.१९ ॥

te dīptavadanā dīptaṁ vamanto jvalanaṁ mukhaiḥ ।
rāmamevābhyavartanta vyāditāsyā bhayānakāḥ ।
6.103.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २० ॥
तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः । दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः । ६.१०३.२० ॥

tairvāsukisamasparśairdīptabhogairmahāviṣaiḥ ।
diśaśca santatāḥ sarvāḥ pradiśaśca samāvṛtāḥ ।
6.103.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २१ ॥
तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे । अस्त्रं गारुत्मतं घोरं प्रादुश्चके भयावहम् । ६.१०३.२१ ॥

tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave ।
astraṁ gārutmataṁ ghoraṁ prāduścake bhayāvaham ।
6.103.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २२ ॥
ते राघवशरा मुक्ता रुक्मपुङ्खाः शिखिप्रभाः । सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः । ६.१०३.२२ ॥

te rāghavaśarā muktā rukmapuṅkhāḥ śikhiprabhāḥ ।
suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ ।
6.103.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २३ ॥
ते तान् सर्वान् शरान् जघ्नुः सर्परूपान् महाजवान् । सुपर्णरूपा रामस्य विशिखाः कामरूपिणः । ६.१०३.२३ ॥

te tān sarvān śarān jaghnuḥ sarparūpān mahājavān ।
suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ ।
6.103.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २४ ॥
अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः । अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः । ६.१०३.२४ ॥

astre pratihate kruddho rāvaṇo rākṣasādhipaḥ ।
abhyavarṣattadā rāmaṁ ghorābhiḥ śaravṛṣṭibhiḥ ।
6.103.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २५ ॥
ततः शरसहस्रेण राममक्लिष्टकारिणम् । अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत । ६.१०३.२५ ॥

tataḥ śarasahasreṇa rāmamakliṣṭakāriṇam ।
ardayitvā śaraugheṇa mātaliṁ pratyavidhyata ।
6.103.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २६ ॥
चिच्छेद केतुमुद्धिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात् केतुं काञ्चनम् । ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः । ६.१०३.२६ ॥

ciccheda ketumuddhiśya śareṇaikena rāvaṇaḥ ।
pātayitvā rathopasthe rathāt ketuṁ ca kāñcanam ।
aindrānapi jaghānāśvān śarajālena rāvaṇaḥ ।
6.103.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २७ ॥
तं दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः । विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह । ६.१०३.२७ ॥

taṁ dṛṣṭvā sumahatkarma rāvaṇasya durātmanaḥ ।
viṣedurdevagandharvā dānavāścāraṇaiḥ saha ।
6.103.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २८ ॥
राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः । व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः । ६.१०३.२८ ॥

rāmamārtaṁ tadā dṛṣṭvā siddhāśca paramarṣayaḥ ।
vyathitā vānarendrāśca babhūvuḥ savibhīṣaṇāḥ ।
6.103.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · २९ ॥
रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा । प्राजापत्यं नक्षत्रं रोहिणीं शशिनः प्रियाम् । ६.१०३.२९ ॥

rāmacandramasaṁ dṛṣṭvā grastaṁ rāvaṇarāhuṇā ।
prājāpatyaṁ ca nakṣatraṁ rohiṇīṁ śaśinaḥ priyām ।
6.103.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३० ॥
समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः । ६.१०३.३० ॥

samākramya budhastasthau prajānāmaśubhāvahaḥ ।
6.103.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३१ ॥
सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः । उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् । ६.१०३.३१ ॥

sadhūmaparivṛttormiḥ prajvalanniva sāgaraḥ ।
utpapāta tadā kruddhaḥ spṛśanniva divākaram ।
6.103.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३२ ॥
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः । अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना । ६.१०३.३२ ॥

śastravarṇaḥ suparuṣo mandaraśmirdivākaraḥ ।
adṛśyata kabandhāṅkaḥ saṁsakto dhūmaketunā ।
6.103.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३३ ॥
कोसलानां नक्षत्रं व्यक्तमिन्द्राग्निदैवतम् । आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे । ६.१०३.३३ ॥

kosalānāṁ ca nakṣatraṁ vyaktamindrāgnidaivatam ।
ākramyāṅgārakastasthau viśākhāmapi cāmbare ।
6.103.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३४ ॥
दशास्यो विंशतिभुजः प्रगृहीतशरासनः । अदृश्यत दशग्रीवो मैनाक इव पर्वतः । ६.१०३.३४ ॥

daśāsyo viṁśatibhujaḥ pragṛhītaśarāsanaḥ ।
adṛśyata daśagrīvo maināka iva parvataḥ ।
6.103.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३५ ॥
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा । नाशक्नोदभिसन्धातुं सायकान् रणमूर्धनि । ६.१०३.३५ ॥

nirasyamāno rāmastu daśagrīveṇa rakṣasā ।
nāśaknodabhisandhātuṁ sāyakān raṇamūrdhani ।
6.103.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३६ ॥
कृत्वा भ्रुकुटिं क्रुद्धः किञ्चित् संरक्तलोचनः । जगाम सुमहाक्रोधं निर्दहन्निव चक्षुषा । ६.१०३.३६ ॥

sa kṛtvā bhrukuṭiṁ kruddhaḥ kiñcit saṁraktalocanaḥ ।
jagāma sumahākrodhaṁ nirdahanniva cakṣuṣā ।
6.103.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०३ · ३७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्र्युत्तरशततमः सर्गः । १०३ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe tryuttaraśatatamaḥ sargaḥ ।
103 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.