वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १०२ · ४४ श्लोकाःSarga 102 · 44 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १०२ · १ ॥
शक्त्या विनिहतं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समरे शूरं रुधिरौघपरिप्लुतम् । ६.१०२.१ ॥

śaktyā vinihataṁ dṛṣṭvā rāvaṇena balīyasā ।
lakṣmaṇaṁ samare śūraṁ rudhiraughapariplutam ।
6.102.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २ ॥
दत्त्वा तुमुलं युद्धं रावणस्य दुरात्मनः । विसृजन्नेव बाणौघान् सुषेणं वाक्यमब्रवीत् । ६.१०२.२ ॥

sa dattvā tumulaṁ yuddhaṁ rāvaṇasya durātmanaḥ ।
visṛjanneva bāṇaughān suṣeṇaṁ vākyamabravīt ।
6.102.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३ ॥
एष रावणवीर्येण लक्ष्मणः पतितः क्षितौ । सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् । ६.१०२.३ ॥

eṣa rāvaṇavīryeṇa lakṣmaṇaḥ patitaḥ kṣitau ।
sarpavadveṣṭate vīro mama śokamudīrayan ।
6.102.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४ ॥
शोणितार्द्रमिमं वीरं प्राणैरिष्टतमं मम । पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः । ६.१०२.४ ॥

śoṇitārdramimaṁ vīraṁ prāṇairiṣṭatamaṁ mama ।
paśyato mama kā śaktiryoddhuṁ paryākulātmanaḥ ।
6.102.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ५ ॥
अयं समरश्लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च । ६.१०२.५ ॥

ayaṁ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ ।
yadi pañcatvamāpannaḥ prāṇairme kiṁ sukhena ca ।
6.102.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ६ ॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता । अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव । ६.१०२.६ ॥

lajjatīva hi me vīryaṁ bhraśyatīva karāddhanuḥ ।
sāyakā vyavasīdanti dṛṣṭirbāṣpavaśaṁ gatā ।
avasīdanti gātrāṇi svapnayāne nṛṇāmiva ।
6.102.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ७ ॥
चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते । ६.१०२.७ । सीदन्ति दृष्टिर्बाष्पवशं गता । भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना । ६.१०२.८ । सीदन्ति दृष्टिर्बाष्पवशं गता । विनिष्टनन्तं दुःखार्थं मर्मण्यभिहतं भृशम् । राघवो भ्रातरं दृष्ट्वा प्रियं प्राणं बहिश्चरम् । दुःखेन महता ऽविष्टो ध्यानशोकपरायणः । ६.१०२.९ ॥

cintā me vardhate tīvrā mumūrṣā copajāyate ।
6.102.7 ।
sīdanti dṛṣṭirbāṣpavaśaṁ gatā ।
bhrātaraṁ nihataṁ dṛṣṭvā rāvaṇena durātmanā ।
6.102.8 ।
sīdanti dṛṣṭirbāṣpavaśaṁ gatā ।
viniṣṭanantaṁ duḥkhārthaṁ marmaṇyabhihataṁ bhṛśam ।
rāghavo bhrātaraṁ dṛṣṭvā priyaṁ prāṇaṁ bahiścaram ।
duḥkhena mahatā ' 'viṣṭo dhyānaśokaparāyaṇaḥ ।
6.102.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ८ ॥
परं विषादमापन्नो विललापाकुलेन्द्रियः । ६.१०२.१० ॥

paraṁ viṣādamāpanno vilalāpākulendriyaḥ ।
6.102.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ९ ॥
हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया । भ्रातरं निहतं दृष्ट्वा लक्ष्मणं रणपांसुषु । ६.१०२.११ ॥

na hi yuddhena me kāryaṁ naiva prāṇairna sītayā ।
bhrātaraṁ nihataṁ dṛṣṭvā lakṣmaṇaṁ raṇapāṁsuṣu ।
6.102.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १० ॥
किं मे राज्येन किं प्राणैर्युद्धे कार्यं विद्यते । यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः । ६.१०२.१२ ॥

kiṁ me rājyena kiṁ prāṇairyuddhe kāryaṁ na vidyate ।
yatrāyaṁ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ ।
6.102.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ११ ॥
देशे देशे कलत्राणि देशे देशे बान्धवाः । तं तु देशं पश्यामि यत्र भ्राता सहोदरः । ६.१०२.१३ ॥

deśe deśe kalatrāṇi deśe deśe ca bāndhavāḥ ।
taṁ tu deśaṁ na paśyāmi yatra bhrātā sahodaraḥ ।
6.102.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १२ ॥
इत्यवं विलपन्तं तं शोकविह्वलितेन्द्रियम् । विवेष्टमानं करुणमुच्छ्वसन्तं पुनःपुनः । राममाश्वासयन् वीरः सुषेणो वाक्यमब्रवीत् । ६.१०२.१४ ॥

ityavaṁ vilapantaṁ taṁ śokavihvalitendriyam ।
viveṣṭamānaṁ karuṇamucchvasantaṁ punaḥpunaḥ ।
rāmamāśvāsayan vīraḥ suṣeṇo vākyamabravīt ।
6.102.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १३ ॥
मृतो ऽयं महाबाहो लक्ष्मणो लक्ष्मिवर्धनः । चास्य विकृतं वक्त्रं नापि श्यावं निष्प्रभम् । ६.१०२.१५ ॥

na mṛto 'yaṁ mahābāho lakṣmaṇo lakṣmivardhanaḥ ।
na cāsya vikṛtaṁ vaktraṁ nāpi śyāvaṁ na niṣprabham ।
6.102.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १४ ॥
सुप्रभं प्रसन्नं मुखमस्याभिलक्ष्यते । पद्मरक्ततलौ हस्तौ सुप्रसन्ने लोचने । ६.१०२.१६ ॥

suprabhaṁ ca prasannaṁ ca mukhamasyābhilakṣyate ।
padmaraktatalau hastau suprasanne ca locane ।
6.102.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १५ ॥
एवं विद्यते रूपं गतासूनां विशाम्पते । दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीद्दशम् । ६.१०२.१७ ॥

evaṁ na vidyate rūpaṁ gatāsūnāṁ viśāmpate ।
dīrghāyuṣastu ye martyāsteṣāṁ tu mukhamīddaśam ।
6.102.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १६ ॥
नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः । मा विषादं कृथा वीर सप्राणो ऽयमरिन्दमः । ६.१०२.१८ ॥

nāyaṁ pretatvamāpanno lakṣmaṇo lakṣmivardhanaḥ ।
mā viṣādaṁ kṛthā vīra saprāṇo 'yamarindamaḥ ।
6.102.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १७ ॥
आख्यास्यते प्रसुप्तस्य स्रस्तगात्रस्य भूतले । सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः । ६.१०२.१९ ॥

ākhyāsyate prasuptasya srastagātrasya bhūtale ।
socchvāsaṁ hṛdayaṁ vīra kampamānaṁ muhurmuhuḥ ।
6.102.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १८ ॥
एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः । हनुमन्तमुवाचेदं हनुमन्तमभित्वरन् । ६.१०२.२० ॥

evamuktvā tu vākyajñaḥ suṣeṇo rāghavaṁ vacaḥ ।
hanumantamuvācedaṁ hanumantamabhitvaran ।
6.102.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · १९ ॥
सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् । पूर्वं ते कथितो यो ऽसौ वीर जाम्बवता शुभः । ६.१०२.२१ ॥

saumya śīghramito gatvā śailamoṣadhiparvatam ।
pūrvaṁ te kathito yo 'sau vīra jāmbavatā śubhaḥ ।
6.102.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २० ॥
दक्षिणे शिखरे तस्य जातमोषधिमानय । विशल्यकरणीं नाम विशल्यकरणीं शुभाम् । ६.१०२.२२ ॥

dakṣiṇe śikhare tasya jātamoṣadhimānaya ।
viśalyakaraṇīṁ nāma viśalyakaraṇīṁ śubhām ।
6.102.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २१ ॥
सवर्णकरणीं चापि तथा सञ्जीवनीमपि । सन्धानकरणीं चापि गत्वा शीघ्रमिहानय । ६.१०२.२३ ॥

savarṇakaraṇīṁ cāpi tathā sañjīvanīmapi ।
sandhānakaraṇīṁ cāpi gatvā śīghramihānaya ।
6.102.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २२ ॥
सञ्जीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः । इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् । चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् । ६.१०२.२४ ॥

sañjīvanārthaṁ vīrasya lakṣmaṇasya mahātmanaḥ ।
ityevamukto hanumān gatvā cauṣadhiparvatam ।
cintāmabhyagamacchrīmānajānaṁstāṁ mahauṣadhim ।
6.102.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २३ ॥
अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् । प्रतर्केणावगच्छामि सुषेणो ऽप्येवमब्रवीत् । ६.१०२.२६ ॥

asmin hi śikhare jātāmoṣadhīṁ tāṁ sukhāvahām ।
pratarkeṇāvagacchāmi suṣeṇo 'pyevamabravīt ।
6.102.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २४ ॥
अगृह्य यदि गच्छामि विशल्यकरणीमहम् । कालात्ययेन दोषः स्याद्वैक्लव्यं महद्भवेत् । ६.१०२.२७ ॥

agṛhya yadi gacchāmi viśalyakaraṇīmaham ।
kālātyayena doṣaḥ syādvaiklavyaṁ ca mahadbhavet ।
6.102.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २५ ॥
इति सञ्चिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः । आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्प्य गिरेः शिरः । ६.१०२.२८ ॥

iti sañcintya hanumān gatvā kṣipraṁ mahābalaḥ ।
āsādya parvataśreṣṭhaṁ triḥ prakampya gireḥ śiraḥ ।
6.102.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २६ ॥
फुल्लनानातरुगणं समुत्पाट्य महाबलः । गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् । ६.१०२.२९ ॥

phullanānātarugaṇaṁ samutpāṭya mahābalaḥ ।
gṛhītvā hariśārdūlo hastābhyāṁ samatolayat ।
6.102.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २७ ॥
नीलमिव जीमूतं तोयपूर्णं नभस्थलात् । आपपात गृहीत्वा तु हनुमान् शिखरं गिरेः । ६.१०२.३० ॥

sa nīlamiva jīmūtaṁ toyapūrṇaṁ nabhasthalāt ।
āpapāta gṛhītvā tu hanumān śikharaṁ gireḥ ।
6.102.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २८ ॥
समागम्य महावेगः सन्न्यस्य शिखरं गिरेः । विश्रम्य किञ्चिद्धनुमान् सुषेणमिदमब्रवीत् । ६.१०२.३१ ॥

samāgamya mahāvegaḥ sannyasya śikharaṁ gireḥ ।
viśramya kiñciddhanumān suṣeṇamidamabravīt ।
6.102.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · २९ ॥
ओषधिं नावगच्छामि तामहं हरिपुङ्गव । तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया । ६.१०२.३२ ॥

oṣadhiṁ nāvagacchāmi tāmahaṁ haripuṅgava ।
tadidaṁ śikharaṁ kṛtsnaṁ girestasyāhṛtaṁ mayā ।
6.102.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३० ॥
एवं कथयमानं तं प्रशस्य पवनात्मजम् । सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् । ६.१०२.३३ ॥

evaṁ kathayamānaṁ taṁ praśasya pavanātmajam ।
suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīm ।
6.102.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३१ ॥
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः । दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम् । ६.१०२.३४ ॥

vismitāstu babhūvuste raṇe vānararākṣasāḥ ।
dṛṣṭvā hanumataḥ karma surairapi suduṣkaram ।
6.102.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३२ ॥
ततः सङ्क्षोदयित्वा तामोषधीं वानरोत्तमः । लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः । ६.१०२.३५ ॥

tataḥ saṅkṣodayitvā tāmoṣadhīṁ vānarottamaḥ ।
lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyuteḥ ।
6.102.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३३ ॥
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा । विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् । ६.१०२.३६ ॥

saśalyastāṁ samāghrāya lakṣmaṇaḥ paravīrahā ।
viśalyo virujaḥ śīghramudatiṣṭhanmahītalāt ।
6.102.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३४ ॥
तमुत्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् । साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् । ६.१०२.३७ ॥

tamutthitaṁ te harayo bhūtalāt prekṣya lakṣmaṇam ।
sādhu sādhviti suprītāḥ suṣeṇaṁ pratyapūjayan ।
6.102.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३५ ॥
एह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा । सस्वजे स्नेहगाढं बाष्पपार्याकुलेक्षणः । ६.१०२.३८ ॥

ehyehītyabravīdrāmo lakṣmaṇaṁ paravīrahā ।
sasvaje snehagāḍhaṁ ca bāṣpapāryākulekṣaṇaḥ ।
6.102.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३६ ॥
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा । दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम् । ६.१०२.३९ ॥

abravīcca pariṣvajya saumitriṁ rāghavastadā ।
diṣṭyā tvāṁ vīra paśyāmi maraṇāt punarāgatam ।
6.102.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३७ ॥
हि मे जीवितेनार्थः सीतया चापि लक्ष्मण । को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते । ६.१०२.४० ॥

na hi me jīvitenārthaḥ sītayā cāpi lakṣmaṇa ।
ko hi me vijayenārthastvayi pañcatvamāgate ।
6.102.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३८ ॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः । खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् । ६.१०२.४१ ॥

ityevaṁ vadatastasya rāghavasya mahātmanaḥ ।
khinnaḥ śithilayā vācā lakṣmaṇo vākyamabravīt ।
6.102.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ३९ ॥
तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम । लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि । ६.१०२.४२ ॥

tāṁ pratijñāṁ pratijñāya purā satyaparākrama ।
laghuḥ kaścidivāsattvo naivaṁ vaktumihārhasi ।
6.102.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४० ॥
हि प्रतिज्ञां कुर्वन्ति वितथां साधवो ऽनघ । लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् । ६.१०२.४३ ॥

na hi pratijñāṁ kurvanti vitathāṁ sādhavo 'nagha ।
lakṣaṇaṁ hi mahattvasya pratijñāparipālanam ।
6.102.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४१ ॥
नैराश्यमुपगन्तुं ते तदलं मत्कृते ऽनघ । वधेन रावणस्याद्य प्रतिज्ञामनुपालय । ६.१०२.४४ ॥

nairāśyamupagantuṁ te tadalaṁ matkṛte 'nagha ।
vadhena rāvaṇasyādya pratijñāmanupālaya ।
6.102.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४२ ॥
जीवन् यास्यते शत्रुस्तव बाणपथं गतः । नर्दतस्तीक्ष्णदंष्ट्रस्य सिंहस्येव महागजः । ६.१०२.४५ ॥

na jīvan yāsyate śatrustava bāṇapathaṁ gataḥ ।
nardatastīkṣṇadaṁṣṭrasya siṁhasyeva mahāgajaḥ ।
6.102.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४३ ॥
अहं तु वधमिच्छामि शीघ्रमस्य दुरात्मनः । यावदस्तं यात्येष कृतकर्मा दिवाकरः । ६.१०२.४६ ॥

ahaṁ tu vadhamicchāmi śīghramasya durātmanaḥ ।
yāvadastaṁ na yātyeṣa kṛtakarmā divākaraḥ ।
6.102.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०२ · ४४ ॥
यदि वधमिच्छसि रावणस्य सङ्ख्ये यदि कृतां त्वमिहेच्छसि प्रतिज्ञाम् । यदि तव राजवरात्मजाभिलाषः कुरु वचो मम शीघ्रमद्यवीर । ६.१०२.४७ ॥

yadi vadhamicchasi rāvaṇasya saṅkhye yadi ca kṛtāṁ tvamihecchasi pratijñām ।
yadi tava rājavarātmajābhilāṣaḥ kuru ca vaco mama śīghramadyavīra ।
6.102.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.