वाल्मीकि रामायणम् · युद्धकाण्डम्Yuddha Kāṇḍa

युद्धकाण्डम्Yuddha Kāṇḍa

सर्गः १०१ · ६४ श्लोकाःSarga 101 · 64 ślokas
अशोधित पाठ · unverified — गीताप्रेस शोधन शेष
॥ ६ · १०१ · १ ॥
तस्मिन् प्रतिहते ऽस्त्रे तु रावणो राक्षसाधिपः । क्रोधं द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् । ६.१०१.१ ॥

tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ ।
krodhaṁ ca dviguṇaṁ cakre krodhāccāstramanantaram ।
6.101.1 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २ ॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे । ६.१०१.२ ॥

mayena vihitaṁ raudramanyadastraṁ mahādyutiḥ ।
utsraṣṭuṁ rāvaṇo ghoraṁ rāghavāya pracakrame ।
6.101.2 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३ ॥
ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः । ६.१०१.३ ॥

tataḥ śūlāni niścerurgadāśca musalāni ca ।
kārmukāddīpyamānāni vajrasārāṇi sarvaśaḥ ।
6.101.3 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४ ॥
मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये । ६.१०१.४ ॥

mudgarāḥ kūṭapāśāśca dīptāścāśanayastathā ।
niṣpeturvividhāstīkṣṇā vātā iva yugakṣaye ।
6.101.4 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५ ॥
तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गान्धर्वेण महाद्युतिः । ६.१०१.५ ॥

tadastraṁ rāghavaḥ śrīmānuttamāstravidāṁ varaḥ ।
jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ ।
6.101.5 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६ ॥
तस्मिन् प्रतिहते ऽस्त्रे तु राघवेण महात्मना । रावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् । ६.१०१.६ ॥

tasmin pratihate 'stre tu rāghaveṇa mahātmanā ।
rāvaṇaḥ krodhatāmrākṣaḥ sauramastramudairayat ।
6.101.6 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ७ ॥
ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः । ६.१०१.७ ॥

tataścakrāṇi niṣpeturbhāsvarāṇi mahānti ca ।
kārmukādbhīmavegasya daśagrīvasya dhīmataḥ ।
6.101.7 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ८ ॥
तैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः । पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव । ६.१०१.८ ॥

tairāsīdgaganaṁ dīptaṁ sampatadbhiritastataḥ ।
patadbhiśca diśo dīptāścandrasūryagrahairiva ।
6.101.8 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ९ ॥
तानि चिच्छेद बाणौघैश्चक्राणि तु राघवः । आयुधानि चित्राणि रावणस्य चमूमुखे । ६.१०१.९ ॥

tāni ciccheda bāṇaughaiścakrāṇi sa tu rāghavaḥ ।
āyudhāni ca citrāṇi rāvaṇasya camūmukhe ।
6.101.9 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १० ॥
तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु । ६.१०१.१० ॥

tadastraṁ tu hataṁ dṛṣṭvā rāvaṇo rākṣasādhipaḥ ।
vivyādha daśabhirbāṇai rāmaṁ sarveṣu marmasu ।
6.101.10 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ११ ॥
विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः । रावणेन महातेजा प्राकम्पत राघवः । ६.१०१.११ ॥

sa viddho daśabhirbāṇairmahākārmukanissṛtaiḥ ।
rāvaṇena mahātejā na prākampata rāghavaḥ ।
6.101.11 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १२ ॥
ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः । राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः । ६.१०१.१२ ॥

tato vivyādha gātreṣu sarveṣu samitiñjayaḥ ।
rāghavastu susaṅkruddho rāvaṇaṁ bahubhiḥ śaraiḥ ।
6.101.12 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १३ ॥
एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । लक्ष्मणः सायकान् सप्त जग्राह परवीरहा । ६.१०१.१३ ॥

etasminnantare kruddho rāghavasyānujo balī ।
lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā ।
6.101.13 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १४ ॥
तैः सायकैर्महावेगै रावणस्य महाद्युतिः । ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा । ६.१०१.१४ ॥

taiḥ sāyakairmahāvegai rāvaṇasya mahādyutiḥ ।
dhvajaṁ manuṣyaśīrṣaṁ tu tasya ciccheda naikadhā ।
6.101.14 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १५ ॥
सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः । ६.१०१.१५ ॥

sāratheścāpi bāṇena śiro jvalitakuṇḍalam ।
jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ ।
6.101.15 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १६ ॥
तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः । ६.१०१.१६ ॥

tasya bāṇaiśca ciccheda dhanurgajakaropamam ।
lakṣmaṇo rākṣasendrasya pañcabhirniśitaiḥ śaraiḥ ।
6.101.16 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १७ ॥
नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् । जघानाप्लुत्य गदया रावणस्य विभीषणः । ६.१०१.१७ ॥

nīlameghanibhāṁścāsya sadaśvān parvatopamān ।
jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ ।
6.101.17 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १८ ॥
हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात् । क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः । ६.१०१.१८ ॥

hatāśvādvegavān vegādavaplutya mahārathāt ।
krodhamāhārayattīvraṁ bhrātaraṁ prati rāvaṇaḥ ।
6.101.18 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · १९ ॥
ततः शक्तिं महाशक्तिर्दीप्तां दींप्ताशनीमिव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् । ६.१०१.१९ ॥

tataḥ śaktiṁ mahāśaktirdīptāṁ dīṁptāśanīmiva ।
vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān ।
6.101.19 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २० ॥
अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । अथोदतिष्ठत् सन्नादो वानराणां तदा रणे । ६.१०१.२० ॥

aprāptāmeva tāṁ bāṇaistribhiściccheda lakṣmaṇaḥ ।
athodatiṣṭhat sannādo vānarāṇāṁ tadā raṇe ।
6.101.20 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २१ ॥
सा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी । सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता । ६.१०१.२१ ॥

sā papāta tridhā cchinnā śaktiḥ kāñcanamālinī ।
savisphuliṅgā jvalitā maholkeva divaścyutā ।
6.101.21 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २२ ॥
ततः सम्भाविततरां कालेनापि दुरासदाम् । जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा । ६.१०१.२२ ॥

tataḥ sambhāvitatarāṁ kālenāpi durāsadām ।
jagrāha vipulāṁ śaktiṁ dīpyamānāṁ svatejasā ।
6.101.22 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २३ ॥
सा वेगिता बलवता रावणेन दुरासदा । जज्वाल सुमहाघोरा शक्राशनिसमप्रभा । ६.१०१.२३ ॥

sā vegitā balavatā rāvaṇena durāsadā ।
jajvāla sumahāghorā śakrāśanisamaprabhā ।
6.101.23 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २४ ॥
एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत । ६.१०१.२४ ॥

etasminnantare vīro lakṣmaṇastaṁ vibhīṣaṇam ।
prāṇasaṁśayamāpannaṁ tūrṇamabhyavapadyata ।
6.101.24 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २५ ॥
तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् । ६.१०१.२५ ॥

taṁ vimokṣayituṁ vīraścāpamāyamya lakṣmaṇaḥ ।
rāvaṇaṁ śaktihastaṁ vai śaravarṣairavākirat ।
6.101.25 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २६ ॥
कीर्यमाणः शरौघेण विसृष्टेन महात्मना । प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः । ६.१०१.२६ ॥

kīryamāṇaḥ śaraugheṇa visṛṣṭena mahātmanā ।
sa prahartuṁ manaścakre vimukhīkṛtavikramaḥ ।
6.101.26 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २७ ॥
मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् । ६.१०१.२७ ॥

mokṣitaṁ bhrātaraṁ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ ।
lakṣmaṇābhimukhastiṣṭhannidaṁ vacanamabravīt ।
6.101.27 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २८ ॥
मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः । विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते । ६.१०१.२८ ॥

mokṣitaste balaślāghin yasmādevaṁ vibhīṣaṇaḥ ।
vimucya rākṣasaṁ śaktistvayīyaṁ vinipātyate ।
6.101.28 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · २९ ॥
एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति । ६.१०१.२९ ॥

eṣā te hṛdayaṁ bhittvā śaktirlohitalakṣaṇā ।
madbāhuparighotsṛṣṭā prāṇānādāya yāsyati ।
6.101.29 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३० ॥
इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् । मयेन मायाविहिताममोघां शत्रुघातिनीम् । ६.१०१.३० ॥

ityevamuktvā tāṁ śaktimaṣṭaghaṇṭāṁ mahāsvanām ।
mayena māyāvihitāmamoghāṁ śatrughātinīm ।
6.101.30 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३१ ॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । रावणः परमक्रुद्धश्चिक्षेप ननाद च । ६.१०१.३१ ॥

lakṣmaṇāya samuddiśya jvalantīmiva tejasā ।
rāvaṇaḥ paramakruddhaścikṣepa ca nanāda ca ।
6.101.31 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३२ ॥
सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि । ६.१०१.३२ ॥

sā kṣiptā bhīmavegena śakrāśanisamasvanā ।
śaktirabhyapatadvegāllakṣmaṇaṁ raṇamūrdhani ।
6.101.32 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३३ ॥
तामनुव्याहरच्छक्तिमापतन्तीं राघवः । स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा । ६.१०१.३३ ॥

tāmanuvyāharacchaktimāpatantīṁ sa rāghavaḥ ।
svastyastu lakṣmaṇāyeti moghā bhava hatodyamā ।
6.101.33 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३४ ॥
रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । मुक्ता ऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा । ६.१०१.३४ ॥

rāvaṇena raṇe śaktiḥ kruddhenāśīviṣopamā ।
muktā ' 'śūrasyabhītasya lakṣmaṇasya mamajja sā ।
6.101.34 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३५ ॥
न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि । जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः । ६.१०१.३५ ॥

nyapatat sā mahāvegā lakṣmaṇasya mahorasi ।
jihvevoragarājasya dīpyamānā mahādyutiḥ ।
6.101.35 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३६ ॥
ततो रावणवेगेन सुदूरमवगाढया । शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः । ६.१०१.३६ ॥

tato rāvaṇavegena sudūramavagāḍhayā ।
śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ ।
6.101.36 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३७ ॥
तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । भ्रातृस्नेहान्महातेजा विषण्णहृदयो ऽभवत् । ६.१०१.३७ ॥

tadavasthaṁ samīpastho lakṣmaṇaṁ prekṣya rāghavaḥ ।
bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat ।
6.101.37 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३८ ॥
मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । बभूव संरब्धतरो युगान्त इव पावकः । ६.१०१.३८ ॥

sa muhūrtamanudhyāya bāṣpavyākulalocanaḥ ।
babhūva saṁrabdhataro yugānta iva pāvakaḥ ।
6.101.38 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ३९ ॥
विषादस्य कालो ऽयमिति सञ्चिन्त्य राघवः । चक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः । सर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च । ६.१०१.३९ ॥

na viṣādasya kālo 'yamiti sañcintya rāghavaḥ ।
cakre sutumulaṁ yuddhaṁ rāvaṇasya vadhe dhṛtaḥ ।
sarvayatnena mahatā lakṣmaṇaṁ sannirīkṣya ca ।
6.101.39 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४० ॥
ददर्श ततो रामः शक्त्या भिन्नं महाहवे । लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् । ६.१०१.४० ॥

sa dadarśa tato rāmaḥ śaktyā bhinnaṁ mahāhave ।
lakṣmaṇaṁ rudhirādigdhaṁ sapannagamivācalam ।
6.101.40 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४१ ॥
तामपि प्रहितां शक्तिं रावणेन बलीयसा । यत्नतस्ते हरिश्रेष्ठा शेकुरवमर्दितुम् । ६.१०१.४१ ॥

tāmapi prahitāṁ śaktiṁ rāvaṇena balīyasā ।
yatnataste hariśreṣṭhā na śekuravamarditum ।
6.101.41 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४२ ॥
अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा । ६.१०१.४२ ॥

arditāścaiva bāṇaughaiḥ kṣiprahastena rakṣasā ।
6.101.42 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४३ ॥
सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् । ६.१०१.४३ ॥

saumitriṁ sā vinirbhidya praviṣṭā dharaṇītalam ।
6.101.43 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४४ ॥
तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च । ६.१०१.४४ ॥

tāṁ karābhyāṁ parāmṛśya rāmaḥ śaktiṁ bhayāvahām ।
babhañja samare kruddho balavān vicakarṣa ca ।
6.101.44 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४५ ॥
तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः । ६.१०१.४५ ॥

tasya niṣkarṣataḥ śaktiṁ rāvaṇena balīyasā ।
śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ ।
6.101.45 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४६ ॥
अचिन्तयित्वा तान् बाणान् समाश्लिष्य लक्ष्णमम् । अब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः । ६.१०१.४६ ॥

acintayitvā tān bāṇān samāśliṣya ca lakṣṇamam ।
abravīccha hanūmantaṁ sugrīvaṁ caiva rāghavaḥ ।
6.101.46 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४७ ॥
लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः । ६.१०१.४७ ॥

lakṣmaṇaṁ parivāryeha tiṣṭhadhvaṁ vānarottamāḥ ।
6.101.47 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४८ ॥
पराक्रमस्य कालो ऽयं सम्प्राप्तो मे चिरेप्सितः । पापात्मा ऽयं दशग्रीवो वध्यतां पापनिश्चयः । काङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् । ६.१०१.४८ ॥

parākramasya kālo 'yaṁ samprāpto me cirepsitaḥ ।
pāpātmā 'yaṁ daśagrīvo vadhyatāṁ pāpaniścayaḥ ।
kāṅkṣataḥ stokakasyeva gharmānte meghadarśanam ।
6.101.48 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ४९ ॥
अस्मिन् मुहूर्ते चिरात् सत्यं प्रतिशृणोमि वः । अरावणमरामं वा जगद्द्रक्ष्यथ वानराः । ६.१०१.४९ ॥

asmin muhūrte na cirāt satyaṁ pratiśṛṇomi vaḥ ।
arāvaṇamarāmaṁ vā jagaddrakṣyatha vānarāḥ ।
6.101.49 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५० ॥
राज्यनाशं वने वासं दण्डके परिधावनम् । वैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् । ६.१०१.५० ॥

rājyanāśaṁ vane vāsaṁ daṇḍake paridhāvanam ।
vaidehyāśca parāmarśaṁ rakṣobhiśca samāgamam ।
6.101.50 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५१ ॥
प्राप्तं दुःखं महद्घोरं क्लेशं निरयोपमम् । अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे । ६.१०१.५१ ॥

prāptaṁ duḥkhaṁ mahadghoraṁ kleśaṁ ca nirayopamam ।
adya sarvamahaṁ tyakṣye nihatvā rāvaṇaṁ raṇe ।
6.101.51 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५२ ॥
यदर्थं वानरं सैन्यं समानीतमिदं मया । सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे । ६.१०१.५२ ॥

yadarthaṁ vānaraṁ sainyaṁ samānītamidaṁ mayā ।
sugrīvaśca kṛto rājye nihatvā vālinaṁ raṇe ।
6.101.52 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५३ ॥
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे । सो ऽयमद्य रणे पापश्चक्षुर्विषयमागतः । ६.१०१.५३ ॥

yadarthaṁ sāgaraḥ krāntaḥ seturbaddhaśca sāgare ।
so 'yamadya raṇe pāpaścakṣurviṣayamāgataḥ ।
6.101.53 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५४ ॥
चक्षुर्विषयमागम्य नायं जीवितुमर्हति । दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः । ६.१०१.५४ ॥

cakṣurviṣayamāgamya nāyaṁ jīvitumarhati ।
dṛṣṭiṁ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ ।
6.101.54 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५५ ॥
स्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः । आसीनाः पर्वताग्रेषु ममेदं रावणस्य च । ६.१०१.५५ ॥

svasthāḥ paśyata durdharṣā yuddhaṁ vānarapuṅgavāḥ ।
āsīnāḥ parvatāgreṣu mamedaṁ rāvaṇasya ca ।
6.101.55 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५६ ॥
अद्य रामस्य रामत्वं पश्यन्तु मम संयुगे । त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः । ६.१०१.५६ ॥

adya rāmasya rāmatvaṁ paśyantu mama saṁyuge ।
trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ ।
6.101.56 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५७ ॥
अद्य कर्म करिष्यामि यल्लोकाः सचराचराः । सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति । समागम्य सदा लोके यथा युद्धं प्रवर्तितम् । ६.१०१.५७ ॥

adya karma kariṣyāmi yallokāḥ sacarācarāḥ ।
sadevāḥ kathayiṣyanti yāvadbhūmirdhariṣyati ।
samāgamya sadā loke yathā yuddhaṁ pravartitam ।
6.101.57 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५८ ॥
एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । आजघान दशग्रीवं रणे रामः समाहितः । ६.१०१.५८ ॥

evamuktvā śitairbāṇaistaptakāñcanabhūṣaṇaiḥ ।
ājaghāna daśagrīvaṁ raṇe rāmaḥ samāhitaḥ ।
6.101.58 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ५९ ॥
अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । अभ्यवर्षत्तदा रामं धाराभिरिव तोयदः । ६.१०१.५९ ॥

atha pradīptairnārācairmusalaiścāpi rāvaṇaḥ ।
abhyavarṣattadā rāmaṁ dhārābhiriva toyadaḥ ।
6.101.59 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६० ॥
रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । शराणां शराणां बभूव तुमुलः स्वनः । ६.१०१.६० ॥

rāmarāvaṇamuktānāmanyonyamabhinighnatām ।
śarāṇāṁ ca śarāṇāṁ ca babhūva tumulaḥ svanaḥ ।
6.101.60 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६१ ॥
ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले । ६.१०१.६१ ॥

te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ ।
antarikṣāt pradīptāgrā nipeturdharaṇītale ।
6.101.61 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६२ ॥
तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः । ६.१०१.६२ ॥

tayorjyātalanirghoṣo rāmarāvaṇayormahān ।
trāsanaḥ sarvabhūtānāṁ sambabhūvādbhutopamaḥ ।
6.101.62 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६३ ॥
कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मता ऽर्दितः । भयात् प्रदुद्राव समेत्य रावणो यथा ऽनिलेनाभिहतो बलाहकः । ६.१०१.६३ ॥

sa kīryamāṇaḥ śarajālavṛṣṭibhirmahātmanā dīptadhanuṣmatā 'rditaḥ ।
bhayāt pradudrāva sametya rāvaṇo yathā 'nilenābhihato balāhakaḥ ।
6.101.63 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.

॥ ६ · १०१ · ६४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोत्तरशततमः सर्गः । १०१ ॥

ityārṣe śrīmadrāmāyaṇe vālmīkīye ādikāvye śrīmadyuddhakāṇḍe ekottaraśatatamaḥ sargaḥ ।
101 ॥

हिन्दी अनुवाद शीघ्र जुड़ेगा।

English translation coming soon.